मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय ८

3
तृतीयस्कन्धः · 8

सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः

मैत्रेय उवाच

सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः ।

बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम्

॥१॥

सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय तस्य ।

प्रवर्तये भागवतं पुराणं यदाह साक्षात् भगवान् ऋषिभ्यः

॥२॥

आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम् ।

विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन्

॥३॥

स्वमेव धिष्ण्यं बहु मानयन्तं यद् वासुदेवाभिधमामनन्ति ।

प्रत्यग्धृताक्षाम्बुजकोशमीषद् उन्मीलयन्तं विबुधोदयाय

॥४॥

स्वर्धुन्युदार्द्रैः स्वजटाकलापैः उपस्पृशन्तश्चरणोपधानम् ।

पद्मं यदर्चन्त्यहिराजकन्याः सप्रेम नानाबलिभिर्वरार्थाः

॥५॥

मुहुर्गृणन्तो वचसानुराग स्खलत्पदेनास्य कृतानि तज्ज्ञाः ।

किरीटसाहस्रमणिप्रवेक प्रद्योतितोद्दामफणासहस्रम्

॥६॥

प्रोक्तं किलैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन ।

सनत्कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृतव्रताय

॥७॥

साङ्ख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः ।

जगाद सोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च

॥८॥

प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम् ।

सोऽहं तवैतत्कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय

॥९॥

उदाप्लुतं विश्वमिदं तदासीत् यन्निद्रयामीलितदृङ् न्यमीलयत् ।

अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्मरतौ निरीहः

॥१०॥

सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः ।

उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्धवीर्यः

॥११॥

चतुर्युगानां च सहस्रमप्सु स्वपन् स्वयोदीरितया स्वशक्त्या ।

कालाख्ययाऽऽसादितकर्मतन्त्रो लोकानपीतान्ददृशे स्वदेहे

॥१२॥

तस्यार्थसूक्ष्माभिनिविष्टदृष्टेः अन्तर्गतोऽर्थो रजसा तनीयान् ।

गुणेन कालानुगतेन विद्धः सूष्यंस्तदाभिद्यत नाभिदेशात्

॥१३॥

स पद्मकोशः सहसोदतिष्ठत् कालेन कर्मप्रतिबोधनेन ।

स्वरोचिषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः

॥१४॥

तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम् ।

तस्मिन् स्वयं वेदमयो विधाता स्वयंभुवं यं स्म वदन्ति सोऽभूत्

॥१५॥

तस्यां स चाम्भोरुहकर्णिकायां अवस्थितो लोकमपश्यमानः ।

परिक्रमन् व्योम्नि विवृत्तनेत्रः चत्वारि लेभेऽनुदिशं मुखानि

॥१६॥

तस्माद्युगान्तश्वसनावघूर्ण जलोर्मिचक्रात् सलिलाद्विरूढम् ।

उपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः

॥१७॥

क एष योऽसौ अहमब्जपृष्ठ एतत्कुतो वाब्जमनन्यदप्सु ।

अस्ति ह्यधस्तादिह किञ्चनैतद् अधिष्ठितं यत्र सता नु भाव्यम्

॥१८॥

स इत्थमुद्वीक्ष्य तदब्जनाल नाडीभिरन्तर्जलमाविवेश ।

नार्वाग्गतस्तत् खरनालनाल नाभिं विचिन्वन् तदविन्दताजः

॥१९॥

तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत् सुमहांस्त्रिणेमिः ।

यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः

॥२०॥

ततो निवृत्तोऽप्रतिलब्धकामः स्वधिष्ण्यमासाद्य पुनः स देवः ।

शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः

॥२१॥

कालेन सोऽजः पुरुषायुषाभि प्रवृत्तयोगेन विरूढबोधः ।

स्वयं तदन्तर्हृदयेऽवभातं अपश्यतापश्यत यन्न पूर्वम्

॥२२॥

मृणालगौरायतशेषभोग पर्यङ्क एकं पुरुषं शयानम् ।

फणातपत्रायुतमूर्धरत्न द्युभिर्हतध्वान्तयुगान्ततोये

॥२३॥

प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरु रुरुक्ममूर्ध्नः ।

रत्नोदधारौषधिसौमनस्य वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः

॥२४॥

आयामतो विस्तरतः स्वमान देहेन लोकत्रयसङ्ग्रहेण ।

विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रितवेषदेहम्

॥२५॥

पुंसां स्वकामाय विविक्तमार्गैः अभ्यर्चतां कामदुघाङ्घ्रिपद्मम् ।

प्रदर्शयन्तं कृपया नखेन्दु मयूखभिन्नाङ्गुलिचारुपत्रम्

॥२६॥

मुखेन लोकार्तिहरस्मितेन परिस्फुरत् कुण्डलमण्डितेन ।

शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा

॥२७॥

कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे ।

हारेण चानन्तधनेन वत्स श्रीवत्सवक्षःस्थलवल्लभेन

॥२८॥

परार्ध्यकेयूरमणिप्रवेक पर्यस्तदोर्दण्डसहस्रशाखम् ।

अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्र महीन्द्रभोगैरधिवीतवल्शम्

॥२९॥

चराचरौको भगवन् महीध्र महीन्द्रबन्धुं सलिलोपगूढम् ।

किरीटसाहस्रहिरण्यश्रृङ्गं आविर्भवत्कौस्तुभरत्नगर्भम्

॥३०॥

निवीतमाम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम् ।

सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः परिक्रमत् प्राधनिकैर्दुरासदम्

॥३१॥

तर्ह्येव तन्नाभिसरःसरोजं आत्मानमम्भः श्वसनं वियच्च ।

ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः

॥३२॥

स कर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्नियदेव दृष्ट्वा ।

अस्तौद् विसर्गाभिमुखस्तमीड्यं अव्यक्तवर्त्मन्यभिवेशितात्मा

॥३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 8