मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय २५

3
तृतीयस्कन्धः · 25

कपिलस्तत्त्वसङ्ख्याता भगवान् आत्ममायया

शौनक उवाच

कपिलस्तत्त्वसङ्ख्याता भगवान् आत्ममायया ।

जातः स्वयमजः साक्षाद् आत्मप्रज्ञप्तये नृणाम्

॥१॥

न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् ।

विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः

॥२॥

यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्ममायया ।

तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय

॥३॥

सूत उवाच

द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ।

प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः

॥४॥

मैत्रेय उवाच

पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया ।

तस्मिन् बिन्दुसरेऽवात्सीत् भगवान् कपिलः किल

॥५॥

तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् ।

स्वसुतं देवहूत्याह धातुः संस्मरती वचः

॥६॥

देवहूतिरुवाच

निर्विण्णा नितरां भूमन् असत् इन्द्रियतर्षणात् ।

येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो

॥७॥

तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ।

सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात्

॥८॥

य आद्यो भगवान् पुंसां ईश्वरो वै भवान्किल ।

लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः

॥९॥

अथ मे देव सम्मोहं अपाक्रष्टुं त्वमर्हसि ।

योऽवग्रहोऽहं मम इति इति एतस्मिन् योजितस्त्वया

॥१०॥

तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम् ।

जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम्

॥११॥

मैत्रेय उवाच

इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसां अपवर्गवर्धनम् ।

धियाभिनन्द्यात्मवतां सतां गतिः बभाष ईषत् स्मितशोभिताननः

॥१२॥

श्रीभगवानुवाच

योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।

अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च

॥१३॥

तमिमं ते प्रवक्ष्यामि यं अवोचं पुरानघे ।

ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम्

॥१४॥

चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् ।

गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये

॥१५॥

अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः ।

वीतं यदा मनः शुद्धं अदुःखं असुखं समम्

॥१६॥

तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।

निरन्तरं स्वयंज्योतिः अणिमानं अखण्डितम्

॥१७॥

ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ।

परिपश्यति उदासीनं प्रकृतिं च हतौजसम्

॥१८॥

न युज्यमानया भक्त्या भगवति अखिलात्मनि ।

सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये

॥१९॥

प्रसङ्गमजरं पाशं आत्मनः कवयो विदुः ।

स एव साधुषु कृतो मोक्षद्वारं अपावृतम्

॥२०॥

तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।

अजातशत्रवः शान्ताः साधवः साधुभूषणाः

॥२१॥

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।

मत्कृते त्यक्तकर्माणः त्यक्तस्वजनबान्धवाः

॥२२॥

मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।

तपन्ति विविधास्तापा नैतान् मद्गतचेतसः

॥२३॥

ते एते साधवः साध्वि सर्वसङ्गविवर्जिताः ।

सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते

॥२४॥

सतां प्रसङ्गान् मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः ।

तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति

॥२५॥

भक्त्या पुमान्जातविराग ऐन्द्रियाद् दृष्टश्रुतान् मद्रचनानुचिन्तया ।

चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः

॥२६॥

असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन ।

योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे

॥२७॥

देवहूतिरुवाच

काचित् त्वय्युचिता भक्तिः कीदृशी मम गोचरा ।

यया पदं ते निर्वाणं अञ्जसा अन्वाश्नवै अहम्

॥२८॥

यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः ।

कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम्

॥२९॥

तद् एतन्मे विजानीहि यथाहं मन्दधीर्हरे ।

सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात्

॥३०॥

मैत्रेय उवाच

विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः ।

तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्तिवितानयोगम्

॥३१॥

श्रीभगवानुवाच

देवानां गुणलिङ्गानां आनुश्रविककर्मणाम् ।

सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या

॥३२॥

अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ।

जरयत्याशु या कोशं निगीर्णमनलो यथा

॥३३॥

नैकात्मतां मे स्पृहयन्ति केचिन् मत्पादसेवाभिरता मदीहाः ।

येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि

॥३४॥

पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि ।

रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति

॥३५॥

तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः ।

हृतात्मनो हृतप्राणांश्च भक्तिः अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते

॥३६॥

अथो विभूतिं मम मायाविनस्तां ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।

श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके

॥३७॥

न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।

येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम्

॥३८॥

इमं लोकं तथैव अमुं आत्मानं उभयायिनम् ।

आत्मानं अनु ये चेह ये रायः पशवो गृहाः

॥३९॥

विसृज्य सर्वान् अन्यांश्च मामेवं विश्वतोमुखम् ।

भजन्ति अनन्यया भक्त्या तान्मृत्योरतिपारये

॥४०॥

नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् ।

आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते

॥४१॥

मद्भयाद् वाति वातोऽयं सूर्यस्तपति मद्भयात् ।

वर्षतीन्द्रो दहत्यग्निः मृत्युश्चरति मद्भयात्

॥४२॥

ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः ।

क्षेमाय पादमूलं मे प्रविशन्ति अकुतोभयम्

॥४३॥

एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।

तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम्

॥४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥ २५ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 25