मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय १३

3
तृतीयस्कन्धः · 13

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप

श्रीशुक उवाच

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप ।

भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः

॥१॥

विदुर उवाच

स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः ।

प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने

॥२॥

चरितं तस्य राजर्षेः आदिराजस्य सत्तम ।

ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ

॥३॥

श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः ।

तत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम्

॥४॥

श्रीशुक उवाच

इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम् ।

प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट

॥५॥

मैत्रेय उवाच

यदा स्वभार्यया सार्धं जातः स्वायम्भुवो मनुः ।

प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत

॥६॥

त्वमेकः सर्वभूतानां जन्मकृत् वृत्तिदः पिता ।

तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत्

॥७॥

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु ।

यत्कृत्वेह यशो विष्वक् अमुत्र च भवेद्गतिः

॥८॥

ब्रह्मोवाच

प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर ।

यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम्

॥९॥

एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ ।

शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः

॥१०॥

स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः ।

उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज

॥११॥

परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप ।

भगवांस्ते प्रजाभर्तुः हृषीकेशोऽनुतुष्यति

॥१२॥

येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः ।

तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम्

॥१३॥

मनुरुवाच

आदेशेऽहं भगवतो वर्तेयामीवसूदन ।

स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो

॥१४॥

यदोकः सर्वसत्त्वानां मही मग्ना महाम्भसि ।

अस्या उद्धरणे यत्नो देव देव्या विधीयताम्

॥१५॥

मैत्रेय उवाच

परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् ।

कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम्

॥१६॥

सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता ।

अथात्र किमनुष्ठेयं अस्माभिः सर्गयोजितैः ।

यस्याहं हृदयादासं स ईशो विदधातु मे

॥१७॥

इत्यभिध्यायतो नासा विवरात्सहसानघ ।

वराहतोको निरगाद् अङ्गुष्ठपरिमाणकः

॥१८॥

तस्याभिपश्यतः खस्थः क्षणेन किल भारत ।

गजमात्रः प्रववृधे तदद्भुतं अभून्महत्

॥१९॥

मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह ।

दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा

॥२०॥

किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम् ।

अहो बताश्चर्यमिदं नासाया मे विनिःसृतम्

॥२१॥

दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः ।

अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः

॥२२॥

इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः ।

भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभः

॥२३॥

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।

स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः

॥२४॥

निशम्य ते घर्घरितं स्वखेद क्षयिष्णु मायामयसूकरस्य ।

जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन् स्म

॥२५॥

तेषां सतां वेदवितानमूर्तिः ब्रह्मावधार्यात्मगुणानुवादम् ।

विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश

॥२६॥

उत्क्षिप्तवालः खचरः कठोरः सटा विधुन्वन् खररोमशत्वक् ।

खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रः

॥२७॥

घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयमध्वराङ्गः ।

करालदंष्ट्रोऽप्यकरालदृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतोऽविशत्कम्

॥२८॥

स वज्रकूटाङ्गनिपातवेग विशीर्णकुक्षिः स्तनयन्नुदन्वान् ।

उत्सृष्टदीर्घोर्मिभुजैरिवार्तः चुक्रोश यज्ञेश्वर पाहि मेति

॥२९॥

खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम् ।

ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त

॥३०॥

स्वदंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः ।

तत्रापि दैत्यं गदयापतन्तं सुनाभसन्दीपिततीव्रमन्युः

॥३१॥

जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसि ।

तद्रक्तपङ्काङ्कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन्

॥३२॥

तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ।

प्रज्ञाय बद्धाञ्जलयोऽनुवाकैः विरिञ्चिमुख्या उपतस्थुरीशम्

॥३३॥

ऋषय ऊचुः

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः ।

यद् रोमगर्तेषु निलिल्युरध्वराः तस्मै नमः कारणसूकराय ते

॥३४॥

रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् ।

छन्दांसि यस्य त्वचि बर्हिरोम- स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्

॥३५॥

स्रुक्तुण्ड आसीत्स्रुव ईश नासयोः इडोदरे चमसाः कर्णरन्ध्रे ।

प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम्

॥३६॥

दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः ।

जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते

॥३७॥

सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः ।

सत्राणि सर्वाणि शरीरसन्धि- स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः

॥३८॥

नमो नमस्तेऽखिलमन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने ।

वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमः

॥३९॥

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा ।

यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी

॥४०॥

त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते ।

चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः

॥४१॥

संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता ।

विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः

॥४२॥

कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् ।

न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम्

॥४३॥

विधुन्वता वेदमयं निजं वपुः जनस्तपःसत्यनिवासिनो वयम् ।

सटाशिखोद्धूत शिवाम्बुबिन्दुभिः विमृज्यमाना भृशमीश पाविताः

॥४४॥

स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः ।

यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम्

॥४५॥

मैत्रेय उवाच

इत्युपस्थीयमानस्तैः मुनिभिर्ब्रह्मवादिभिः ।

सलिले स्वखुराक्रान्त उपाधत्तावितावनिम्

॥४६॥

स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः ।

रसाया लीलयोन्नीतां अप्सु न्यस्य ययौ हरिः

॥४७॥

य एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनः ।

शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्याशु हृदि प्रसीदति

॥४८॥

तस्मिन्प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभिः ।

अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम्

॥४९॥

को नाम लोके पुरुषार्थसारवित् पुराकथानां भगवत्कथासुधाम् ।

आपीय कर्णाञ्जलिभिर्भवापहा- महो विरज्येत विना नरेतरम्

॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे वराहप्रादुर्भावानुवर्णनं त्रयोदशोऽध्यायः ॥ १३ ॥

वराहोपरि टिप्पणी