मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय ३१

3
तृतीयस्कन्धः · 31

जीवगतिः

श्रीभगवानुवाच

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।

स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः

॥१॥

कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।

दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम्

॥२॥

मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः ।

नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद् भवस्त्रिभिः

॥३॥

चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः ।

षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे

॥४॥

मातुर्जग्धान्नपानाद्यैः एधद् धातुरसम्मते ।

शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे

॥५॥

कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् ।

मूर्च्छां आप्नोति उरुक्लेशः तत्रत्यैः क्षुधितैर्मुहुः

॥६॥

कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः ।

मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः

॥७॥

उल्बेन संवृतस्तस्मिन् अन्त्रैश्च बहिरावृतः ।

आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः

॥८॥

अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।

तत्र लब्धस्मृतिर्दैवात् कर्म जन्मशतोद्भवम् ।

स्मरन् दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते

॥९॥

आरभ्य सप्तमान् मासात् लब्धबोधोऽपि वेपितः ।

नैकत्रास्ते सूतिवातैः विष्ठाभूरिव सोदरः

॥१०॥

नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ।

स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः

॥११॥

जन्तुरुवाच

तस्योपसन्नमवितुं जगदिच्छयात्त नानातनोर्भुवि चलत् चरणारविन्दम् ।

सोऽहं व्रजामि शरणं ह्यकुतोभयं मे येनेदृशी गतिरदर्श्यसतोऽनुरूपा

॥१२॥

यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।

आस्ते विशुद्धमविकारमखण्डबोधम् आतप्यमानहृदयेऽवसितं नमामि

॥१३॥

यः पञ्चभूतरचिते रहितः शरीरे छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् ।

तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयोः पुमांसम्

॥१४॥

यन्माययोरुगुणकर्म निबन्धनेऽस्मिन् सांसारिके पथि चरन् तदभिश्रमेण ।

नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण

॥१५॥

ज्ञानं यदेतद् अदधात्कतमः स देवः त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।

तं जीवकर्मपदवीं अनुवर्तमानाः तापत्रयोपशमनाय वयं भजेम

॥१६॥

देह्यन्यदेहविवरे जठराग्निनासृग् विण्मूत्रकूपपतितो भृशतप्तदेहः ।

इच्छन्नितो विवसितुं गणयन् स्वमासान् निर्वास्यते कृपणधीर्भगवन् कदा नु

॥१७॥

येनेदृशीं गतिमसौ दशमास्य ईश सङ्ग्राहितः पुरुदयेन भवादृशेन ।

स्वेनैव तुष्यतु कृतेन स दीननाथः को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात्

॥१८॥

पश्यत्ययं धिषणया ननु सप्तवध्रिः शारीरके दमशरीर्यपरः स्वदेहे ।

यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम्

॥१९॥

सोऽहं वसन्नपि विभो बहुदुःखवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।

यत्रोपयातमुपसर्पति देवमाया मिथ्या मतिर्यदनु संसृतिचक्रमेतत्

॥२०॥

तस्मादहं विगतविक्लव उद्धरिष्य आत्मानमाशु तमसः सुहृदाऽऽत्मनैव ।

भूयो यथा व्यसनमेतदनेकरन्ध्रं मा मे भविष्यदुपसादितविष्णुपादः

॥२१॥

कपिल उवाच

(अनुष्टुप्) एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः ।

सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः

॥२२॥

तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः ।

विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः

॥२३॥

पतितो भुव्यसृङ्मूत्रे विष्ठाभूरिव चेष्टते ।

रोरूयति गते ज्ञाने विपरीतां गतिं गतः

॥२४॥

परच्छन्दं न विदुषा पुष्यमाणो जनेन सः ।

अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः

॥२५॥

शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते ।

नेशः कण्डूयनेऽङ्गानां आसनोत्थानचेष्टने

॥२६॥

तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।

रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा

॥२७॥

इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ।

अलब्धाभीप्सितोऽज्ञानाद् इद्धमन्युः शुचार्पितः

॥२८॥

सह देहेन मानेन वर्धमानेन मन्युना ।

करोति विग्रहं कामी कामिष्वन्ताय चात्मनः

॥२९॥

भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ।

अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम्

॥३०॥

तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् ।

योऽनुयाति ददत्क्लेशं अविद्याकर्मबन्धनः

॥३१॥

यद्यसद्भि पथि पुनः शिश्नोदरकृतोद्यमैः ।

आस्थितो रमते जन्तुः तमो विशति पूर्ववत्

॥३२॥

सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ।

शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम्

॥३३॥

तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ।

सङ्गं न कुर्याच्छोच्येषु योषित् क्रीडामृगेषु च

॥३४॥

न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः ।

योषित्सङ्गात् यथा पुंसो यथा तत्सङ्गिसङ्गतः

॥३५॥

प्रजापतिः स्वां दुहितरं दृष्ट्वा तद् रूपधर्षितः ।

रोहिद्भूतां सोऽन्वधावद् ऋक्षरूपी हतत्रपः

॥३६॥

तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् ।

ऋषिं नारायणमृते योषिन् मय्येह मायया

॥३७॥

बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् ।

या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम्

॥३८॥

सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः ।

मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य

॥३९॥

योपयाति शनैर्माया योषिद् देवविनिर्मिता ।

तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम्

॥४०॥

यां मन्यते पतिं मोहान् मन्मायामृषभायतीम् ।

स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम्

॥४१॥

तां आत्मनो विजानीयात् पत्यपत्यगृहात्मकम् ।

दैवोपसादितं मृत्युं मृगयोर्गायनं यथा

॥४२॥

देहेन जीवभूतेन लोकात् लोकमनुव्रजन् ।

भुञ्जान एव कर्माणि करोत्यविरतं पुमान्

॥४३॥

जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः ।

तन्निरोधोऽस्य मरणं आविर्भावस्तु सम्भवः

॥४४॥

द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा ।

तत्पञ्चत्वं अहंमानाद् उत्पत्तिर्द्रव्यदर्शनम्

॥४५॥

यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा ।

तदैव चक्षुषो द्रष्टुः द्रष्टृत्वायोग्यतानयोः

॥४६॥

तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ।

बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह

॥४७॥

सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ।

मायाविरचिते लोके चरेन्न्यस्य कलेवरम्

॥४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कपिलेयोपाख्याने जीवगतिर्नाम एकयस्त्रिंशोऽध्यायः ॥ ३१ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 31