मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय २७

3
तृतीयस्कन्धः · 27

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः

श्रीभगवानुवाच

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः ।

अविकारात् अकर्तृत्वात् निर्गुणत्वाज्जलार्कवत्

॥१॥

स एष यर्हि प्रकृतेः गुणेष्वभिविषज्जते ।

अहङ्क्रियाविमूढात्मा कर्तास्मीति अभिमन्यते

॥२॥

तेन संसारपदवीं अवशोऽभ्येत्यनिर्वृतः ।

प्रासङ्गिकैः कर्मदोषैः सदसन् मिश्रयोनिषु

॥३॥

अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा

॥४॥

अत एव शनैश्चित्तं प्रसक्तं असतां पथि ।

भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्

॥५॥

यमादिभिः योगपथैः अभ्यसन् श्रद्धयान्वितः ।

मयि भावेन सत्येन मत्कथाश्रवणेन च

॥६॥

सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः ।

ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा

॥७॥

यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ् मुनिः ।

विविक्तशरणः शान्तो मैत्रः करुण आत्मवान्

॥८॥

सानुबन्धे च देहेऽस्मिन् अकुर्वन् असदाग्रहम् ।

ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च

॥९॥

निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ।

उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक्

॥१०॥

मुक्तलिङ्गं सदाभासं असति प्रतिपद्यते ।

सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्

॥११॥

यथा जलस्थ आभासः स्थलस्थेनावदृश्यते ।

स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः

॥१२॥

एवं त्रिवृद् अहङ्कारो भूतेन्द्रियमनोमयैः ।

स्वाभासैः लक्षितोऽनेन सदाभासेन सत्यदृक्

॥१३॥

भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया ।

लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः

॥१४॥

मन्यमानस्तदात्मानं अनष्टो नष्टवन्मृषा ।

नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः

॥१५॥

एवं प्रत्यवमृश्यासौ आत्मानं प्रतिपद्यते ।

साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः

॥१६॥

देवहूतिरुवाच

पुरुषं प्रकृतिर्ब्रह्मन् न विमुञ्चति कर्हिचित् ।

अन्योन्यापाश्रयत्वाच्च नित्यत्वाद् अनयोः प्रभो

॥१७॥

यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः ।

अपां रसस्य च यथा तथा बुद्धेः परस्य च

॥१८॥

अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः ।

गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम्

॥१९॥

क्वचित् तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् ।

अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते

॥२०॥

श्रीभगवानुवाच

अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।

तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्

॥२१॥

ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा ।

तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना

॥२२॥

प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् ।

तिरोभवित्री शनकैः अग्नेर्योनिरिवारणिः

॥२३॥

भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः ।

नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च

॥२४॥

यथा हि अप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते

॥२५॥

एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ।

युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित्

॥२६॥

यदैवमध्यात्मरतः कालेन बहुजन्मना ।

सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः

॥२७॥

मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ।

निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम्

॥२८॥

प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः ।

यद्गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे

॥२९॥

यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग ।

अनन्यहेतुष्वथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्युहासः

॥३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे सप्तविंशोऽध्यायः ॥ २७ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 27