मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय २९

3
तृतीयस्कन्धः · 29

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च

देवहूतिरुवाच

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।

स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम्

॥१॥

यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते ।

भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो

॥२॥

विरागो येन पुरुषो भगवन् सर्वतो भवेत् ।

आचक्ष्व जीवलोकस्य विविधा मम संसृतीः

॥३॥

कालस्येश्वररूपस्य परेषां च परस्य ते ।

स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः

॥४॥

लोकस्य मिथ्याभिमतेरचक्षुषः चिरं प्रसुप्तस्य तमस्यनाश्रये ।

श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः

॥५॥

मैत्रेय उवाच

(अनुष्टुप्) इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः ।

आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः

॥६॥

श्रीभगवानुवाच

भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।

स्वभावगुणमार्गेण पुंसां भावो विभिद्यते

॥७॥

अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।

संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः

॥८॥

विषयान् अभिसन्धाय यश ऐश्वर्यमेव वा ।

अर्चादौ अर्चयेद्यो मां पृथग्भावः स राजसः

॥९॥

कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।

यजेद् यष्टव्यमिति वा पृथग्भावः स सात्त्विकः

॥१०॥

मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।

मनोगतिः अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ

॥११॥

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।

अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे

॥१२॥

सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत ।

दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः

॥१३॥

स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।

येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते

॥१४॥

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।

क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः

॥१५॥

मद्धिष्ण्य दर्शनस्पर्श पूजास्तुति अभिवन्दनैः ।

भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च

॥१६॥

महतां बहुमानेन दीनानां अनुकम्पया ।

मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च

॥१७॥

आध्यात्मिकानुश्रवणात् नामसङ्कीर्तनाच्च मे ।

आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा

॥१८॥

मद् धर्मणो गुणैः एतैः परिसंशुद्ध आशयः ।

पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम्

॥१९॥

यथा वातरथो घ्राणं आवृङ्क्ते गन्ध आशयात् ।

एवं योगरतं चेत आत्मानं अविकारि यत्

॥२०॥

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ।

तं अवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम्

॥२१॥

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।

हित्वार्चां भजते मौढ्याद् भस्मन्येव जुहोति सः

॥२२॥

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।

भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति

॥२३॥

अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे ।

नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः

॥२४॥

अर्चादौ अर्चयेत्तावद् ईश्वरं मां स्वकर्मकृत् ।

यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम्

॥२५॥

आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।

तस्य भिन्नदृशो मृत्युः विदधे भयमुल्बणम्

॥२६॥

अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ।

अर्हयेद् दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा

॥२७॥

जीवाः श्रेष्ठा हि अजीवानां ततः प्राणभृतः शुभे ।

ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः

॥२८॥

तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ।

तेभ्यो गन्धविदः श्रेष्ठाः ततः शब्दविदो वराः

॥२९॥

रूपभेदविदस्तत्र ततश्चोभयतोदतः ।

तेषां बहुपदाः श्रेष्ठाः चतुष्पादस्ततो द्विपात्

॥३०॥

ततो वर्णाश्च चत्वारः तेषां ब्राह्मण उत्तमः ।

ब्राह्मणेष्वपि वेदज्ञो हि, अर्थज्ञोऽभ्यधिकस्ततः

॥३१॥

अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।

मुक्तसङ्गस्ततो भूयात् अदोग्धा धर्ममात्मनः

॥३२॥

तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः ।

मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः ।

न पश्यामि परं भूतं अकर्तुः समदर्शनात्

॥३३॥

मनसैतानि भूतानि प्रणमेद्बहुमानयन् ।

ईश्वरो जीवकलया प्रविष्टो भगवानिति

॥३४॥

भक्तियोगश्च योगश्च मया मानव्युदीरितः ।

ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत्

॥३५॥

एतद्भगवतो रूपं ब्रह्मणः परमात्मनः ।

परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम्

॥३६॥

रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।

भूतानां महदादीनां यतो भिन्नदृशां भयम्

॥३७॥

योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः ।

स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः

॥३८॥

न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः ।

आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत्

॥३९॥

यद्भयाद् वाति वातोऽयं सूर्यस्तपति यद्भयात् ।

यद्भयाद् वर्षते देवो भगणो भाति यद्भयात्

॥४०॥

यद् वनस्पतयो भीता लताश्चौषधिभिः सह ।

स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च

॥४१॥

स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः ।

अग्निरिन्धे सगिरिभिः भूर्न मज्जति यद्भयात्

॥४२॥

नभो ददाति श्वसतां पदं यन्नियमाददः ।

लोकं स्वदेहं तनुते महान् सप्तभिरावृतम्

॥४३॥

गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् ।

वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम्

॥४४॥

सोऽनन्तोऽन्तकरः कालो अनादिरादिकृदव्ययः ।

जनं जनेन जनयन् मारयन् मृत्युनान्तकम्

॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥ २९ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 29