मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय १९

3
तृतीयस्कन्धः · 19

अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः

मैत्रेय उवाच

अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः ।

प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत्

॥१॥

ततः सपत्नं मुखतः चरन्तं अकुतोभयम् ।

जघानोत्पत्य गदया हनौ असुरमक्षजः

॥२॥

सा हता तेन गदया विहता भगवत्करात् ।

विघूर्णित अपतद् रेजे तदद्भुतं इवाभवत्

॥३॥

स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् ।

मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन्

॥४॥

गदायां अपविद्धायां हाहाकारे विनिर्गते ।

मानयामास तद् धर्मं सुनाभं चास्मरद्विभुः

॥५॥

तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम् ।

चित्रा वाचोऽतद्विदां खेचराणां तत्रास्मासन् स्वस्ति तेऽमुं जहीति

॥६॥

स तं निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितं पद्मपलाशलोचनम् ।

विलोक्य चामर्ष परिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्वसन्

॥७॥

(अनुष्टुप्) करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव ।

अभिप्लुत्य स्वगदया हतोऽसीत्याहनद् हरिम्

॥८॥

पदा सव्येन तां साधो भगवान् यज्ञसूकरः ।

लीलया मिषतः शत्रोः प्राहरद् वातरंहसम्

॥९॥

आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि ।

इत्युक्तः स तदा भूयः ताडयन् व्यनदद् भृशम्

॥१०॥

तां स आपततीं वीक्ष्य भगवान् समवस्थितः ।

जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम्

॥११॥

स्वपौरुषे प्रतिहते हतमानो महासुरः ।

नैच्छद्गदां दीयमानां हरिणा विगतप्रभः

॥१२॥

जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् ।

यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा

॥१३॥

तदोजसा दैत्यमहाभटार्पितं चकासदन्तःख उदीर्णदीधिति ।

चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्रमुज्झितम्

॥१४॥

वृक्णे स्वशूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभूतिमत् ।

प्रवृद्धरोषः स कठोरमुष्टिना नदन् प्रहृत्यान्तरधीयतासुरः

॥१५॥

तेनेत्थमाहतः क्षत्तः भगवान् आदिसूकरः ।

नाकम्पत मनाक्क्वापि स्रजा हत इव द्विपः

॥१६॥

अथोरुधासृजन् मायां योगमायेश्वरे हरौ ।

यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम्

॥१७॥

प्रववुर्वायवश्चण्डाः तमः पांसवमैरयन् ।

दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव

॥१८॥

द्यौर्नष्टभगणाभ्रौघैः सविद्युत् स्तनयित्नुभिः ।

वर्षद्भिः पूयकेशासृग् विण्मूत्रास्थीनि चासकृत्

॥१९॥

गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ ।

दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः

॥२०॥

बहुभिर्यक्षरक्षोभिः पत्त्यश्व रथकुञ्जरैः ।

आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः

॥२१॥

प्रादुष्कृतानां मायानां आसुरीणां विनाशयत् ।

सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात्

॥२२॥

तदा दितेः समभवत् सहसा हृदि वेपथुः ।

स्मरन्त्या भर्तुः आदेशं स्तनात् च असृक् प्रसुस्रुवे

॥२३॥

विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् ।

रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः

॥२४॥

तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैः अधोक्षजः ।

करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पतिः

॥२५॥

स आहतो विश्वजिता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनः ।

विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद् यथा नगेन्द्रो लुलितो नभस्वता

॥२६॥

क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम् ।

अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम्

॥२७॥

यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया ।

तस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यन् तनुमुत्ससर्ज ह

॥२८॥

(अनुष्टुप्) एतौ तौ पार्षदावस्य शापाद् यातौ असद्गतिम् ।

पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः

॥२९॥

देवा ऊचुः

नमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये ।

दिष्ट्या हतोऽयं जगतामरुन्तुदः त्वत् पादभक्त्या वयमीश निर्वृताः

॥३०॥

मैत्रेय उवाच

एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकरः ।

जगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिः

॥३१॥

मया यथानूक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम् ।

यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृतः

॥३२॥

सूत उवाच

(अनुष्टुप्) इति कौषारवाख्यातां आश्रुत्य भगवत्कथाम् ।

क्षत्तानन्दं परं लेभे महाभागवतो द्विज

॥३३॥

अन्येषां पुण्यश्लोकानां उद्दामयशसां सताम् ।

उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः

॥३४॥

यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम् ।

क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम्

॥३५॥

तं सुखाराध्यमृजुभिः अनन्यशरणैर्नृभिः ।

कृतज्ञः को न सेवेत दुराराध्यं असाधुभिः

॥३६॥

यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनः ।

श्रृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाः

॥३७॥

एतन् महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषाम् ।

प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरङ्ग श्रृण्वताम्

॥३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 19