मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय ३३

3
तृतीयस्कन्धः · 33

एवं निशम्य कपिलस्य वचो जनित्री सा कर्दमस्य दयिता किल देवहूतिः

मैत्रेय उवाच

एवं निशम्य कपिलस्य वचो जनित्री सा कर्दमस्य दयिता किल देवहूतिः ।

विस्रस्तमोहपटला तमभिप्रणम्य तुष्टाव तत्त्वविषयाङ्कित सिद्धिभूमिम्

॥१॥

देवहूतिरुवाच

अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते ।

गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यत् जठराब्जजातः

॥२॥

स एव विश्वस्य भवान् विधत्ते गुणप्रवाहेण विभक्तवीर्यः ।

सर्गाद्यनीहोऽवितथाभिसन्धिः आत्मेश्वरोऽतर्क्य सहस्रशक्तिः

॥३॥

स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत् ।

विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः

॥४॥

त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये ।

यथावतारास्तव सूकरादयः तथायमप्यात्म पथोपलब्धये

॥५॥

यन्नामधेयश्रवणानुकीर्तनाद् यत्प्रह्वणाद् यत् स्मरणादपि क्वचित् ।

श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात्

॥६॥

अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।

तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते

॥७॥

तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् ।

स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम्

॥८॥

मैत्रेय उवाच

ईडितो भगवानेवं कपिलाख्यः परः पुमान् ।

वाचाविक्लवयेत्याह मातरं मातृवत्सलः

॥९॥

कपिल उवाच

मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ।

आस्थितेन परां काष्ठां अचिराद् अवरोत्स्यसि

॥१०॥

श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः ।

येन मां अभयं याया मृत्युमृच्छन्त्यतद्विदः

॥११॥

मैत्रेय उवाच

इति प्रदर्श्य भगवान् सतीं तां आत्मनो गतिम् ।

स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ

॥१२॥

सा चापि तनयोक्तेन योगादेशेन योगयुक् ।

तस्मिन् आश्रम आपीडे सरस्वत्याः समाहिता

॥१३॥

अभीक्ष्ण अवगाहकपिशान् जटिलान् कुटिलालकान् ।

आत्मानं च उग्रतपसा बिभ्रती चीरिणं कृशम्

॥१४॥

प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् ।

स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि

॥१५॥

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

आसनानि च हैमानि सुस्पर्शास्तरणानि च

॥१६॥

स्वच्छस्फटिककुड्येषु महामारकतेषु च ।

रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः

॥१७॥

गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः ।

कूजद् विहङ्गमिथुनं गायन् मत्तमधुव्रतम्

॥१८॥

यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः ।

वाप्यां उत्पलगन्धिन्यां कर्दमेनोपलालितम्

॥१९॥

हित्वा तदीप्सिततमं अप्याखण्डलयोषिताम् ।

किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा

॥२०॥

वनं प्रव्रजिते पत्यौ अपत्यविरहातुरा ।

ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला

॥२१॥

तमेव ध्यायती देवं अपत्यं कपिलं हरिम् ।

बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे

॥२२॥

ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् ।

सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया

॥२३॥

भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।

युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना

॥२४॥

विशुद्धेन तदात्मानं आत्मना विश्वतोमुखम् ।

स्वानुभूत्या तिरोभूत मायागुणविशेषणम्

॥२५॥

ब्रह्मण्यवस्थितमतिः भगवति आत्मसंश्रये ।

निवृत्तजीवापत्तित्वात् क्षीणक्लेशाऽऽप्त निर्वृतिः

॥२६॥

नित्यारूढसमाधित्वात् परावृत्तगुणभ्रमा ।

न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः

॥२७॥

तद्देहः परतः पोषोऽपि अकृशश्चाध्यसम्भवात् ।

बभौ मलैरवच्छन्नः सधूम इव पावकः

॥२८॥

स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ।

दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः

॥२९॥

एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ।

आत्मानं ब्रह्मनिर्वाणं भगवन्तं अवाप ह

॥३०॥

तद्वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् ।

नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी

॥३१॥

तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित् ।

स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता

॥३२॥

कपिलोऽपि महायोगी भगवान् पितुराश्रमात् ।

मातरं समनुज्ञाप्य प्राग् उदीचीं दिशं ययौ

॥३३॥

सिद्धचारण गन्धर्वैः मुनिभिश्च अप्सरोगणैः ।

स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः

॥३४॥

आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः ।

त्रयाणामपि लोकानां उपशान्त्यै समाहितः

॥३५॥

एतन्निगदितं तात यत्पृष्टोऽहं तवानघ ।

कपिलस्य च संवादो देवहूत्याश्च पावनः

॥३६॥

य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतं आत्मयोगगुह्यम् ।

भगवति कृतधीः सुपर्णकेतौ उपलभते भगवत् पदारविन्दम्

॥३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 33