मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय २

3
तृतीयस्कन्धः · 2

प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः

श्रीशुक उवाच

इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।

प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः

॥१॥

यः पञ्चहायनो मात्रा प्रातराशाय याचितः ।

तन्नैच्छत् रचयन् यस्य सपर्यां बाललीलया

॥२॥

स कथं सेवया तस्य कालेन जरसं गतः ।

पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादौ अनुस्मरन्

॥३॥

स मुहूर्तं अभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् ।

तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः

॥४॥

पुलकोद् भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः ।

पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः

॥५॥

शनकैः भगवल्लोकान् नृलोकं पुनरागतः ।

विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन्

॥६॥

उद्धव उवाच

कृष्णद्युमणि निम्लोचे गीर्णेष्वजगरेण ह ।

किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम्

॥७॥

दुर्भगो बत लोकोऽयं यदवो नितरामपि ।

ये संवसन्तो न विदुः हरिं मीना इवोडुपम्

॥८॥

इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः ।

सात्वतां ऋषभं सर्वे भूतावासममंसत

॥९॥

देवस्य मायया स्पृष्टा ये चान्यद् असदाश्रिताः ।

भ्राम्यते धीर्न तद्वाक्यैः आत्मन्युप्तात्मनो हरौ

॥१०॥

प्रदर्श्या तप्ततपसां अवितृप्तदृशां नृणाम् ।

आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम्

॥११॥

यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहीतम् ।

विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम्

॥१२॥

यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।

कार्त्स्न्येन चाद्येह गतं विधातुः अर्वाक्सृतौ कौशलमित्यमन्यत

॥१३॥

यस्यानुरागप्लुतहासरास लीलावलोकप्रतिलब्धमानाः ।

व्रजस्त्रियो दृग्भिरनुप्रवृत्त धियोऽवतस्थुः किल कृत्यशेषाः

॥१४॥

स्वशान्तरूपेष्वितरैः स्वरूपैः अभ्यर्द्यमानेष्वनुकम्पितात्मा ।

परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान् यथाग्निः

॥१५॥

मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेहे ।

व्रजे च वासोऽरिभयादिव स्वयं पुराद् व्यवात्सीद् यत् अनन्तवीर्यः

॥१६॥

दुनोति चेतः स्मरतो ममैतद् यदाह पादावभिवन्द्य पित्रोः ।

ताताम्ब कंसाद् उरुशंकितानां प्रसीदतं नोऽकृतनिष्कृतीनाम्

॥१७॥

को वा अमुष्याङ्घ्रिसरोजरेणुं विस्मर्तुमीशीत पुमान् विजिघ्रन् ।

यो विस्फुरद्भ्रूविटपेन भूमेः भारं कृतान्तेन तिरश्चकार

॥१८॥

दृष्टा भवद्भिः ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।

यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस्तद्विरहं सहेत

॥१९॥

तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम् ।

नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूताः पदमापुरस्य

॥२०॥

स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्याप्तसमस्तकामः ।

बलिं हरद्भिश्चिरलोकपालैः किरीटकोट्येडितपादपीठः

॥२१॥

तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम् ।

तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति

॥२२॥

अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी ।

लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम

॥२३॥

मन्येऽसुरान् भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान् ।

ये संयुगेऽचक्षत तार्क्ष्यपुत्र मंसे सुनाभायुधमापतन्तम्

॥२४॥

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।

चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः

॥२५॥

ततो नन्दव्रजमितः पित्रा कंसाद् विबिभ्यता ।

एकादश समास्तत्र गूढार्चिः सबलोऽवसत्

॥२६॥

परीतो वत्सपैर्वत्सान् चारयन् व्यहरद्विभुः ।

यमुनोपवने कूजद् द्विजसङ्कुलिताङ्घ्रिपे

॥२७॥

कौमारीं दर्शयन् चेष्टां प्रेक्षणीयां व्रजौकसाम् ।

रुदन्निव हसन्मुग्ध बालसिंहावलोकनः

॥२८॥

स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।

चारयन्ननुगान् गोपान् रणद् वेणुररीरमत्

॥२९॥

प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः ।

लीलया व्यनुदत्तान् तान् बालः क्रीडनकानिव

॥३०॥

विपन्नान् विषपानेन निगृह्य भुजगाधिपम् ।

उत्थाप्यापाययद् गावः तत्तोयं प्रकृतिस्थितम्

॥३१॥

अयाजयद् गोसवेन गोपराजं द्विजोत्तमैः ।

वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः

॥३२॥

वर्षतीन्द्रे व्रजः कोपाद् भग्नमानेऽतिविह्वलः ।

गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता

॥३३॥

शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।

गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः

॥३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः ॥ २ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 2