मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय १४

3
तृतीयस्कन्धः · 14

निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः

श्रीशुक उवाच

निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः ।

पुनः स पप्रच्छ तमुद्यताञ्जलिः न चातितृप्तो विदुरो धृतव्रतः

॥१॥

विदुर उवाच

तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना ।

आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम

॥२॥

तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया ।

दैत्यराजस्य च ब्रह्मन् कस्माद् हेतोरभून्मृधः

॥३॥

मैत्रेय उवाच

साधु वीर त्वया पृष्टं अवतारकथां हरेः ।

यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम्

॥४॥

ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।

मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिं आरुरोह हरेः पदम्

॥५॥

अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ।

ब्रह्मणा देवदेवेन देवानां अनुपृच्छताम्

॥६॥

दितिर्दाक्षायणी क्षत्तः मारीचं कश्यपं पतिम् ।

अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता

॥७॥

इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् ।

निम्लोचत्यर्क आसीनं अग्न्यगारे समाहितम्

॥८॥

दितिरुवाच

एष मां त्वत्कृते विद्वन् काम आत्तशरासनः ।

दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः

॥९॥

तद्भवान् दह्यमानायां सपत्नीनां समृद्धिभिः ।

प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम्

॥१०॥

भर्तर्याप्तोरुमानानां लोकानाविशते यशः ।

पतिर्भवद्विधो यासां प्रजया ननु जायते

॥११॥

पुरा पिता नो भगवान् दक्षो दुहितृवत्सलः ।

कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक्

॥१२॥

स विदित्वात्मजानां नो भावं सन्तानभावनः ।

त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः

॥१३॥

अथ मे कुरु कल्याण कामं कञ्जविलोचन ।

आर्तोपसर्पणं भूमन् अमोघं हि महीयसि

॥१४॥

इति तां वीर मारीचः कृपणां बहुभाषिणीम् ।

प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम्

॥१५॥

एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि ।

तस्याः कामं न कः कुर्यात् सिद्धिस्त्रैवर्गिकी यतः

॥१६॥

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् ।

व्यसनार्णवमत्येति जलयानैर्यथार्णवम्

॥१७॥

यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि ।

यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः

॥१८॥

यामाश्रित्येन्द्रियारातीन् दुर्जयानितराश्रमैः ।

वयं जयेम हेलाभिः दस्यून् दुर्गपतिर्यथा

॥१९॥

न वयं प्रभवस्तां त्वां अनुकर्तुं गृहेश्वरि ।

अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः

॥२०॥

अथापि काममेतं ते प्रजात्यै करवाण्यलम् ।

यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय

॥२१॥

एषा घोरतमा वेला घोराणां घोरदर्शना ।

चरन्ति यस्यां भूतानि भूतेशानुचराणि ह

॥२२॥

एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः ।

परीतो भूतपर्षद्भिः वृषेणाटति भूतराट्

॥२३॥

श्मशानचक्रानिलधूलिधूम्र विकीर्णविद्योतजटाकलापः ।

भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते

॥२४॥

न यस्य लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद्विगर्ह्यः ।

वयं व्रतैर्यत् चरणापविद्धां आशास्महेऽजां बत भुक्तभोगाम्

॥२५॥

यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः ।

निरस्तसाम्यातिशयोऽपि यत्स्वयं पिशाचचर्यामचरद्गतिः सताम्

॥२६॥

हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन् रतस्याविदुषः समीहितम् ।

यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितम्

॥२७॥

ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च माया ।

आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम्

॥२८॥

मैत्रेय उवाच

सैवं संविदिते भर्त्रा मन्मथोन् मथितेन्द्रिया ।

जग्राह वासो ब्रह्मर्षेः वृषलीव गतत्रपा

॥२९॥

स विदित्वाथ भार्यायाः तं निर्बन्धं विकर्मणि ।

नत्वा दिष्टाय रहसि तयाथोपविवेश हि

॥३०॥

अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः ।

ध्यायन् जजाप विरजं ब्रह्म ज्योतिः सनातनम्

॥३१॥

दितिस्तु व्रीडिता तेन कर्मावद्येन भारत ।

उपसङ्गम्य विप्रर्षिं अधोमुख्यभ्यभाषत

॥३२॥

दितिरुवाच

न मे गर्भमिमं ब्रह्मन् भूतानां ऋषभोऽवधीत् ।

रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम्

॥३३॥

नमो रुद्राय महते देवायोग्राय मीढुषे ।

शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे

॥३४॥

स नः प्रसीदतां भामो भगवानुर्वनुग्रहः ।

व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः

॥३५॥

मैत्रेय उवाच

स्वसर्गस्याशिषं लोक्यां आशासानां प्रवेपतीम् ।

निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः

॥३६॥

कश्यप उवाच

अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत ।

मन्निदेशातिचारेण देवानां चातिहेलनात्

॥३७॥

भविष्यतस्तवाभद्रौ अभद्रे जाठराधमौ ।

लोकान्सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः

॥३८॥

प्राणिनां हन्यमानानां दीनानां अकृतागसाम् ।

स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु

॥३९॥

तदा विश्वेश्वरः क्रुद्धो भगवान् लोकभावनः ।

हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक्

॥४०॥

दितिरुवाच

वधं भगवता साक्षान् सुनाभोदारबाहुना ।

आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद् विभो

॥४१॥

न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च ।

नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः

॥४२॥

कश्यप उवाच

कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् ।

भगवत्युरुमानाच्च भवे मय्यपि चादरात्

॥४३॥

पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः ।

गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम्

॥४४॥

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः ।

निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम्

॥४५॥

यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् ।

स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा

॥४६॥

स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः ।

प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य वैकुण्ठमिमं विहास्यति

॥४७॥

अलम्पटः शीलधरो गुणाकरो हृष्टः परर्ध्या व्यथितो दुःखितेषु ।

अभूतशत्रुर्जगतः शोकहर्ता नैदाघिकं तापमिवोडुराजः

॥४८॥

अन्तर्बहिश्चामलमब्जनेत्रं स्वपूरुषेच्छानुगृहीतरूपम् ।

पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम्

॥४९॥

मैत्रेय उवाच

श्रुत्वा भागवतं पौत्रं अमोदत दितिर्भृशम् ।

पुत्रयोश्च वधं कृष्णाद् विदित्वाऽऽसीन् महामनाः

॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दितिकश्यपसंवादे चतुर्दशोऽध्यायः ॥ १४ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 14