मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय ११

3
तृतीयस्कन्धः · 11

चरमः सद्विशेषाणां अनेकोऽसंयुतः सदा

मैत्रेय उवाच

चरमः सद्विशेषाणां अनेकोऽसंयुतः सदा ।

परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः

॥१॥

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।

कैवल्यं परममहान् अविशेषो निरन्तरः

॥२॥

एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।

संस्थानभुक्त्या भगवान् अव्यक्तो व्यक्तभुग्विभुः

॥३॥

स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।

सतोऽविशेषभुग्यस्तु स कालः परमो महान्

॥४॥

अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः ।

जालार्करश्म्यवगतः खमेवानुपतन्नगात्

॥५॥

त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः ।

शतभागस्तु वेधः स्यात् तैस्त्रिभिस्तु लवः स्मृतः

॥६॥

निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः ।

क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च

॥७॥

लघूनि वै समाम्नाता दश पञ्च च नाडिका ।

ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम्

॥८॥

द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।

स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतम्

॥९॥

यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।

पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद

॥१०॥

तयोः समुच्चयो मासः पितॄणां तदहर्निशम् ।

द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि

॥११॥

अयने चाहनी प्राहुः वत्सरो द्वादश स्मृतः ।

संवत्सरशतं नॄणां परमायुर्निरूपितम्

॥१२॥

ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् ।

संवत्सरावसानेन पर्येत्यनिमिषो विभुः

॥१३॥

संवत्सरः परिवत्सर इडावत्सर एव च ।

अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते

॥१४॥

यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या ।

पुंसोऽभ्रमाय दिवि धावति भूतभेदः ।

कालाख्यया गुणमयं क्रतुभिर्वितन्वन् ।

तस्मै बलिं हरत वत्सरपञ्चकाय

॥१५॥

विदुर उवाच

पितृदेवमनुष्याणां आयुः परमिदं स्मृतम् ।

परेषां गतिमाचक्ष्व ये स्युः कल्पाद्बहिर्विदः

॥१६॥

भगवान् वेद कालस्य गतिं भगवतो ननु ।

विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा

॥१७॥

मैत्रेय उवाच

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।

दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम्

॥१८॥

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।

सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च

॥१९॥

संध्यांशयोरन्तरेण यः कालः शतसङ्ख्ययोः ।

तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते

॥२०॥

धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते ।

स एवान्येष्वधर्मेण व्येति पादेन वर्धता

॥२१॥

त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् ।

तावत्येव निशा तात यन्निमीलति विश्वसृक्

॥२२॥

निशावसान आरब्धो लोककल्पोऽनुवर्तते ।

यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश

॥२३॥

स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् ।

मन्वन्तरेषु मनवः तद् वंश्या ऋषयः सुराः ।

भवन्ति चैव युगपत् सुरेशाश्चानु ये च तान्

॥२४॥

एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः ।

तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः

॥२५॥

मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः ।

मन्वादिभिरिदं विश्वं अवत्युदितपौरुषः

॥२६॥

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।

कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये

॥२७॥

तमेवान्वपि धीयन्ते लोका भूरादयस्त्रयः ।

निशायां अनुवृत्तायां निर्मुक्तशशिभास्करम्

॥२८॥

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना ।

यान्त्यूष्मणा महर्लोकात् जनं भृग्वादयोऽर्दिताः

॥२९॥

तावत् त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः ।

प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः

॥३०॥

अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः ।

योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः

॥३१॥

एवंविधैरहोरात्रैः कालगत्योपलक्षितैः ।

अपक्षितमिवास्यापि परमायुर्वयःशतम्

॥३२॥

यदर्धमायुषस्तस्य परार्धमभिधीयते ।

पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते

॥३३॥

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।

कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः

॥३४॥

तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते ।

यद्धरेर्नाभिसरस आसीत् लोकसरोरुहम्

॥३५॥

अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।

वाराह इति विख्यातो यत्रासीत् शूकरो हरिः

॥३६॥

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।

अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः

॥३७॥

कालोऽयं परमाण्वादिः द्विपरार्धान्त ईश्वरः ।

नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम्

॥३८॥

विकारैः सहितो युक्तैः विशेषादिभिरावृतः ।

आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः

॥३९॥

दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।

लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः

॥४०॥

तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।

विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः

॥४१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकादशोऽध्यायः ॥ ११ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 11