मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय १३

3
रुद्रसंहिता · कुमारखण्डः · 13

गणेशोत्पत्तिवर्णनम्

सूत उवाच

तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ।

नारदस्सुप्रसन्नोथ पप्रच्छ प्रीतितो विधिम्

॥१॥

नारद उवाच

देवदेव प्रजानाथ शिवज्ञाननिधे मया ।

श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ।

अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ।

तज्जन्मचरितं दिव्यं सर्वमंगलमंगलम्

॥३॥

सूत उवाच

इत्याकर्ण्य वचस्तस्य नारदस्य महामुने ।

प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन्

॥४॥

ब्रह्मोवाच

कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात् ।

शनिदृष्टं शिरश्छिन्नं संचितं गजमाननम्

॥५॥

इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ।

यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना

॥६॥

संदेहो नात्र कर्तव्यः शंकरस्सूतिकृन्मुने ।

स हि सर्वाधिपः शंभुर्निर्गुणस्सगुणो ऽपि हि

॥७॥

तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ।

विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात्

॥८॥

उद्वाहिते शिवे चात्र कैलासं च गते सति ।

कियता चैव कालेन जातो गणपतेर्भवः

॥९॥

एकस्मिन्नेव काले च जया च विजया सखी ।

पार्वत्या च मिलित्वा वै विचारे तत्पराभवत्

॥१०॥

रुद्रस्य च गणास्सर्वे शिवस्याज्ञापरायणाः ।

ते सर्वेप्यस्मदीयाश्च नन्दिभृंगिपुरस्सराः

॥११॥

प्रमथास्ते ह्यसंख्याता अस्मदीयो न कश्चन ।

द्वारि तिष्ठन्ति ते सर्वे शंकराज्ञापरायणाः

॥१२॥

ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ।

एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे

॥१३॥

ब्रह्मोवाच

इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ।

हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति

॥१४॥

ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ।

नंदिनं परिभर्त्स्याथ ह्याजगाम गृहांतरम्

॥१५॥

आयांतं शंकरं दृष्ट्वाऽसमये जगदंबिका ।

उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा

॥१६॥

तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ।

तदीयं तद्वचश्चैव हितं मेने सुखावहम्

॥१७॥

एवं जाते सदा काले कदाचित्पार्वती शिवा ।

विचिंत्य मनसा चेति परमाया परेश्वरी

॥१८॥

मदीयस्सेवकः कश्चिद्भवेच्छुभतरः कृती ।

मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह

॥१९॥

विचार्येति च सा देवी वपुषो मलसंभवम् ।

पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम्

॥२०॥

सर्वावयवनिर्द्दोषं सर्वावयव सुन्दरम् ।

विशालं सर्वशोभाढ्यं महाबलपराक्रमम्

॥२१॥

वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ।

नानालंकरणं चैव बह्वाशिषमनुत्तमाम्

॥२२॥

मत्पुत्रस्त्वं मदीयोसि नान्यः कश्चिदिहास्ति मे ।

एवमुक्तस्य पुरुषो नमस्कृत्य शिवां जगौ

॥२३॥

गणेश उवाच

किं कार्यं विद्यते तेद्य करवाणि तवोदितम् ।

इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा

॥२४॥

शिवोवाच

हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे ।

मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे

॥२५॥

विना मदाज्ञां मत्पुत्र नैवायान्म द्गृहान्तरम् ।

कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम्

॥२६॥

ब्रह्मोवाच

इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ।

तदीयं रूपमालोक्य सुन्दरं हर्षमागता

॥२७॥

मुखमाचुंब्य सुप्रीत्यालिंग्य तं कृपया सुतम् ।

स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम्

॥२८॥

अथ देवीसुतस्तात गृहद्वारि स्थितो गणः ।

यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया

॥२९॥

स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा ।

स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता

॥३०॥

एतस्मिन्नेव काले तु शिवो द्वारि समागतः ।

कौतुकी मुनिर्शादूल नानालीलाविशारदः

॥३१॥

उवाच च शिवेशं तमविज्ञाय गणाधिपः ।

मातुराज्ञां विना देव गम्यतां न त्वया धुना

॥३२॥

मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना ।

इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत्

॥३३॥

तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः ।

मां न जानास्यसद्बुद्धे शिवोहमिति नान्यथा

॥३४॥

ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः ।

प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः

॥३५॥

शिव उवाच

मुर्खोसि त्वं न जानासि शिवोहं गिरिजापतिः ।

स्वगृहं यामि रे बाल निषेधसि कथं हि माम्

॥३६॥

इत्युक्त्वा प्रविशंतं तं महेशं गणनायकः ।

क्रोधं कृत्वा ततो विप्र दंडेनाताडयत्पुनः

॥३७॥

ततश्शिवश्च संक्रुद्धो गणानाज्ञापयन्निजान् ।

को वायं वर्तते किंच क्रियते पश्यतां गणाः

॥३८॥

इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः ।

भवाचाररतस्स्वामी बह्वद्भुतसुलीलकः

॥३९॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥