मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय १७

3
रुद्रसंहिता · कुमारखण्डः · 17

गणेशजीवनवर्णनम्

नारद उवाच

ब्रह्मन् वद महाप्राज्ञ तद्वृत्तान्तेखिले श्रुते ।

किमकार्षीन्महादेवी श्रोतुमिच्छामि तत्त्वतः

॥१॥

ब्रह्मोवाच

श्रूयतां मुनिशार्दूल कथयाम्यद्य तद्ध्रुवम् ।

चरितं जगदंबाया यज्जातं तदनंतरम्

॥२॥

मृदंगान्पटहांश्चैव गणाश्चावादयंस्तथा ।

महोत्सवं तदा चक्रुर्हते तस्मिन्गणाधिपे

॥३॥

शिवोपि तच्छिरश्छित्वा यावद्दुःखमुपाददे ।

तावच्च गिरिजा देवी चुक्रोधाति मुनीश्वर

॥४॥

किं करोमि क्व गच्छामि हाहादुःखमुपागतम् ।

कथं दुःखं विनश्येतास्याऽतिदुखं ममाधुना

॥५॥

मत्सुतो नाशितश्चाद्य देवेस्सर्वैर्गणैस्तथा ।

सर्वांस्तान्नाशयिष्यामि प्रलयं वा करोम्यहम्

॥६॥

इत्येवं दुःखिता सा च शक्तीश्शतसहस्रशः ।

निर्ममे तत्क्षणं क्रुद्धा सर्वलोकमहेश्वरी

॥७॥

निर्मितास्ता नमस्कृत्य जगदंबां शिवां तदा ।

जाज्वल्यमाना ह्यवदन्मातरादिश्यतामिति

॥८॥

तच्छुत्वा शंभुशक्तिस्सा प्रकृतिः क्रोधतत्परा ।

प्रत्युवाच तु तास्सर्वा महामाया मुनीश्वर

॥९॥

देव्युवाच

हे शक्तयोऽधुना देव्यो युष्माभिर्मन्निदेशतः ।

प्रलयश्चात्र कर्त्तव्यो नात्र कार्या विचारणा

॥१०॥

देवांश्चैव ऋषींश्चैव यक्षराक्षसकांस्तथा ।

अस्मदीयान्परांश्चैव सख्यो भक्षत वै हठात्

॥११॥

ब्रह्मोवाच

तदाज्ञप्ताश्च तास्सर्वाश्शक्तयः क्रोधतत्पराः ।

देवादीनां च सर्वेषां संहारं कर्तुमुद्यताः

॥१२॥

यथा च तृणसंहारमनलः कुरुते तथा ।

एवं ताश्शक्तयस्सर्वास्संहारं कर्तुमुद्यताः

॥१३॥

गणपो वाथ विष्णुर्वा ब्रह्मा वा शंकरस्तथा ।

इन्द्रो वा यक्षराजो वा स्कंदो वा सूर्य एव वा

॥१४॥

सर्वेषां चैव संहारं कुर्वंति स्म निरंतरम् ।

यत्रयत्र तु दृश्येत तत्रतत्रापि शक्तयः

॥१५॥

कराली कुब्जका खंजा लंबशीर्षा ह्यनेकशः ।

हस्ते धृत्वा तु देवांश्च मुखे चैवाक्षिपंस्तदा

॥१६॥

तं संहारं तदा दृष्ट्वा हरो ब्रह्मा तथा हरिः ।

इन्द्रादयोऽखिलाः देवा गणाश्च ऋषयस्तथा

॥१७॥

किं करिष्यति सा देवी संहारं वाप्यकालतः ।

इति संशयमापन्ना जीवनाशा हताऽभवत्

॥१८॥

सर्वे च मिलिताश्चेमे कि कर्त्तव्यं विचिंत्यताम् ।

एवं विचारयन्तस्ते तूर्णमूचुः परस्परम्

॥१९॥

यदा च गिरिजा देवी प्रसन्ना हि भवेदिह ।

तदा चैव भवेत्स्वास्थ्यं नान्यथा कोटियत्नतः

॥२०॥

शिवोपि दुःखमापन्नो लौकिकीं गतिमाश्रितः ।

मोहयन्सकलांस्तत्र नानालीलाविशारदः

॥२१॥

सर्वेषां चैव देवानां कटिर्भग्ना यदा तदा ।

शिवा क्रोधमयी साक्षाद्गंतुं न पुर उत्सहेत्

॥२२॥

स्वीयो वा परकीयो वा देवो वा दानवोपि वा ।

गणो वापि च दिक्पालो यक्षो वा किन्नरो मुनिः

॥२३॥

विष्णुर्वापि तथा ब्रह्मा शंकरश्च तथा प्रभुः ।

न कश्चिद्गिरिजाग्रे च स्थातुं शक्तोऽभवन्मुने

॥२४॥

जाज्वल्यमानं तत्तेजस्सर्वतोदाहि तेऽखिलाः ।

दृष्ट्वा भीततरा आसन् सर्वे दूरतरं स्थिताः

॥२५॥

एतस्मिन्समये तत्र नारदो दिव्यदर्शनः ।

आगतस्त्वं मुने देवगणानां सुखहेतवे

॥२६॥

ब्रह्माणं मां भवं विष्णुं शंकरं च प्रणम्य साः ।

समागत्य मिलित्वोचे विचार्य कार्यमेव वा

॥२७॥

सर्वे संमंत्रयां चक्रुस्त्वया देवा महात्मना ।

दुःखशांतिः कथं स्याद्वै समूचुस्तत एव ते

॥२८॥

यावच्च गिरिजा देवी कृपां नैव करिष्यति ।

तावन्नैव सुखं स्याद्वै नात्र कार्या विचारणा

॥२९॥

ऋषयो हि त्वदाद्याश्च गतास्ते वै शिवान्तिकम् ।

सर्वे प्रसादयामासुः क्रोधशान्त्यै तदा शिवाम्

॥३०॥

पुनः पुनः प्रणेमुश्च स्तुत्वा स्तोत्रैरनेकशः ।

सर्वे प्रसादयन्प्रीत्या प्रोचुर्देवगणाज्ञया

॥३१॥

सुरर्षय ऊचुः

जगदम्ब नमस्तुभ्यं शिवायै ते नमोस्तु ते ।

चंडिकायै नमस्तुभ्यं कल्याण्यै ते नमोस्तु ते

॥३२॥

आदिशक्तिस्त्वमेवांब सर्वसृष्टिकरी सदा ।

त्वमेव पालिनी शक्तिस्त्वमेव प्रलयंकरी

॥३३॥

प्रसन्ना भव देवेशि शांतिं कुरु नमोस्तु ते ।

सर्वं हि विकलं देवि त्रिजगत्तव कोपतः

॥३४॥

ब्रह्मोवाच

एवं स्तुता परा देवी ऋषिभिश्च त्वदादिभिः ।

क्रुद्धदृष्ट्या तदा ताश्च किंचिन्नोवाच सा शिवा

॥३५॥

तदा च ऋषयस्सर्वे नत्वा तच्चरणांबुजम् ।

पुनरूचुश्शिवां भक्त्या कृतांजलिपुटाश्शनैः

॥३६॥

ऋषय ऊचुः

क्षम्यतां देवि संहारो जाय तेऽधुना ।

तव स्वामी स्थितश्चात्र पश्य पश्य तमंबिके

॥३७॥

वयं के च इमे देवा विष्णुब्रह्मादयस्तथा ।

प्रजाश्च भवदीयाश्च कृतांजलिपुटाः स्थिताः

॥३८॥

क्षंतव्यश्चापराधो वै सर्वेषां परमेश्वरि ।

सर्वे हि विकलाश्चाद्य शांतिं तेषां शिवे कुरु

॥३९॥

ब्रह्मोवाच

इत्युक्त्वा ऋषयस्सर्वे सुदीनतरमाकुलाः ।

संतस्थिरे चंडिकाग्रे कृतांजलिपुटास्तदा

॥४०॥

एवं श्रुत्वा वचस्तेषां प्रसन्ना चंडिकाऽभवत् ।

प्रत्युवाच ऋषींस्तान्वै करुणाविष्टमानसा

॥४१॥

देव्युवाच

मत्पुत्रो यदि जीवेत तदा संहरणं नहि ।

यथा हि भवतां मध्ये पूज्योऽयं च भविष्यति

॥४२॥

सर्वाध्यक्षो भवेदद्य यूयं कुरुत तद्यदि ।

तदा शांतिर्भवेल्लोके नान्यथा सुखमाप्स्यथ

॥४३॥

ब्रह्मोवाच

इत्युक्तास्ते तदा सर्वे ऋषयो युष्मदादयः ।

तेभ्यो देवेभ्य आगत्य सर्वं वृत्तं न्यवेदयन्

॥४४॥

ते च सर्वे तथा श्रुत्वा शंकराय न्यवेदयन् ।

नत्वा प्रांजलयो दीनाः शक्रप्रभृतयस्सुराः

॥४५॥

प्रोवाचेति सुराञ्छ्रुत्वा शिवश्चापि तथा पुनः ।

कर्त्तव्यं च तथा सर्वलोकस्वास्थ्यं भवेदिह

॥४६॥

उत्तरस्यां पुनर्यात प्रथमं यो मिलेदिह ।

तच्छिरश्च समाहृत्य योजनीयं कलेवरे

॥४७॥

ब्रह्मोवाच

ततस्तैस्तत्कृतं सर्वं शिवाज्ञाप्रतिपालकैः ।

कलेवरं समानीय प्रक्षाल्य विधिवच्च तत्

॥४८॥

पूजयित्वा पुनस्ते वै गताश्चोदङ्मुखास्तदा ।

प्रथमं मिलितस्तत्र हस्ती चाप्येकदंतकः

॥४९॥

तच्छिरश्च तदा नीत्वा तत्र तेऽयोजयन् ध्रुवम् ।

संयोज्य देवतास्सर्वाः शिवं विष्णुं विधिं तदा

॥५०॥

प्रणम्य वचनं प्रोचुर्भवदुक्तं कृतं च नः ।

अनंतरं च तत्कार्यं भवताद्भवशेषितम्

॥५१॥

ब्रह्मोवाच

ततस्ते तु विरेजुश्च पार्षदाश्च सुराः सुखम् ।

अथ तद्वचनं श्रुत्वा शिवोक्तं पर्यपालयन्

॥५२॥

ऊचुस्ते च तदा तत्र ब्रह्मविष्णुसुरास्तथा ।

प्रणम्येशं शिवं देवं स्वप्रभुं गुणवर्जितम्

॥५३॥

यस्मात्त्वत्तेजसस्सर्वे वयं जाता महात्मनः ।

त्वत्तेजस्तत्समायातु वेदमंत्राभियोगतः

॥५४॥

इत्येवमभिमंत्रेण मंत्रितं जलमुत्तमम् ।

स्मृत्वा शिवं समेतास्ते चिक्षिपुस्तत्कलेवरे

॥५५॥

तज्जलस्पर्शमात्रेण चिद्युतो जीवितो द्रुतम् ।

तदोत्तस्थौ सुप्त इव स बालश्च शिवेच्छया

॥५६॥

सुभगस्सुन्दरतरो गजवक्त्रस्सुरक्तकः ।

प्रसन्नवदनश्चातिसुप्रभो ललिताकृतिः

॥५७॥

तं दृष्ट्वा जीवितं बालं शिवापुत्रं मुनीश्वर ।

सर्वे मुमुदिरे तत्र सर्वदुःखं क्षयं गतम्

॥५८॥

देव्यै संदर्शयामासुः सर्वे हर्षसमन्विताः ।

जीवितं तनयं दृष्ट्वा देवी हृष्टतराभवत्

॥५९॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणेशजीवनवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥