गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा
नारद उवाच
गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा ।
चरित्रमपि दिव्यं वै सुपराक्रमभूषितम्
॥१॥ततः किमभवत्तात तत्त्वं वद सुरेश्वरः ।
शिवाशिवयशस्स्फीतं महानन्दप्रदायकम्
॥२॥ब्रह्मोवाच
साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना ।
श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम
॥३॥शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् ।
दर्शंदर्शं च तल्लीलां महत्प्रेम समावहत्
॥४॥पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत ।
सदा प्रीत्या मुदा चातिखेलनं चक्रतुस्सुतौ
॥५॥तावेव तनयौ तत्र माता पित्रोर्मुनीश्वर ।
महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः
॥६॥षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा ।
स्नेहो व्यवर्द्धत महाञ्च्छुक्लपक्षे यथा शशी
॥७॥कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ ।
शिवा शिवश्च देवर्षे सुविचारपरायणौ
॥८॥शिवा शिवावूचतुः
विवाहयोग्यौ संजातौ सुताविति च तावुभौ ।
विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम्
॥९॥षण्मुखश्च प्रियतमो गणेशश्च तथैव च ।
इति चिंतासमुद्विग्नौ लीलानन्दौ बभूवतुः
॥१०॥स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ ।
तदिच्छया विवाहार्थं बभूवतुरथो मुने
॥११॥अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः ।
परस्परं च नित्यं वै विवादे तत्परावुभौ
॥१२॥श्रुत्वा तद्वचनं तौ च दंपती जगतां प्रभू ।
लौकिकाचारमाश्रित्य विस्मयं परमं गतौ
॥१३॥किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः ।
इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता
॥१४॥कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ ।
कथयामासतुस्तत्र पुत्रयोः पितरौ तदा
॥१५॥शिवाशिवावूचतुः
अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ।
श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम्
॥१६॥समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते ।
तस्मात्पणः कृतश्शंदः पुत्रयोरुभयोरपि
॥१७॥यश्चैव पृथिवीं सर्वां क्रांत्वा पूर्वमुपाव्रजेत् ।
तस्यैव प्रथमं कार्यो विवाहश्शुभलक्षणः
॥१८॥ब्रह्मोवाच
तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः ।
जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै
॥१९॥गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः ।
सुबुद्ध्या संविचारर्येति चित्त एव पुनः पुनः
॥२०॥किं कर्तव्यं क्व गंतव्यं लंघितुं नैव शक्यते ।
क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः
॥२१॥किं पुनः पृविवीमेतां क्रांत्वा चोपार्जितं सुखम् ।
विचार्येति गणेशस्तु यच्चकार शृणुष्व तत्
॥२२॥स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् ।
उवाच पितरं तत्र मातरं पुनरेव सः
॥२३॥गणेश उवाच
आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह ।
भवंतौ संस्थितौ तातौ पूर्य्यतां मे मनोरथः
॥२४॥ब्रह्मोवाच
इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ ।
अस्थातामासने तत्र तत्पूजाग्रहणाय वै
॥२५॥तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः ।
एवं च कृतवान् सप्त प्रणामास्तु तथैव सः
॥२६॥बद्धांजलिरथोवाच गणेशो बुद्धिसागरः ।
स्तुत्वा बहु तिथस्तात पितरौ प्रेमविह्वलौ
॥२७॥गणेश उवाच
भो मातर्भो पितस्त्वं च शृणु मे परमं वचः ।
शीघ्रं चैवात्र कर्तव्यो विवाहश्शोभनो मम
॥२८॥ब्रह्मोवाच
इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः ।
महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा
॥२९॥शिवा शिवावूचतुः
प्रक्रामेत भवान्सम्यक्पृथिवीं च सकाननाम् ।
कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज
॥३०॥ब्रह्मोवाच
इत्येवं वचनं श्रुत्वा पित्रोर्गणपति द्रुतम् ।
उवाच नियतस्तत्र वचनं क्रोधसंयुतः
॥३१॥गणेश उवाच
भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ ।
धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ
॥३२॥मया तु पृथिवी क्रांता सप्तवारं पुनः पुनः ।
एवं कथं ब्रुवाते वै पुनश्च पितराविह
॥३३॥ब्रह्मोवाच
तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ ।
महालीलाकरौ तत्र पितरावूचतुश्च तम् ।
३४ पितरावूचतुः ।
कदा क्रांता त्वया पुत्र पृथिवी सुमहत्तरा ।
सप्तद्वीपा समुद्रांता महद्भिर्गहनैयुता
॥३५॥ब्रह्मोवाच
तयोरेवं वचः श्रुत्वा शिवाशंकरयोर्मुने ।
महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत्
॥३६॥गणेश उवाच
भवतोः पूजनं कृत्वा शिवाशंकरयोरहम् ।
स्वबुद्ध्या हि समुद्रान्तपृध्वीकृतपरिक्रमः
॥३७॥इत्येवं वचनं देवे शास्त्रे वा धर्मसञ्चये ।
वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा
॥३८॥पित्रोश्च पूजनं कृत्वा प्रक्रांतिं च करोति यः ।
तस्य वै पृथिवीजन्यफलं भवति निश्चितम्
॥३९॥अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् ।
तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा
॥४०॥पुत्रस्य च महत्तीर्थं पित्रोश्चरणपंकजम् ।
अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः
॥४१॥इदं संनिहितं तीर्थं सुलभं धर्मसाधनम् ।
पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम्
॥४२॥इति शास्त्राणि वेदाश्च भाषन्ते यन्निरंतरम् ।
भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च
॥४३॥भवदीयं त्विदं रूपमसत्यं च भवेदिह ।
तदा वेदोप्यसत्यो वै भवेदिति न संशयः
॥४४॥शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः ।
अथ वा वेदशास्त्रञ्च न्यलीकं कथ्यतामिति
॥४५॥द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत् ।
कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ
॥४६॥ब्रह्मोवाच
इत्युक्त्वा पार्वतीपुत्रस्स गणेशः प्रकृष्टधीः ।
विरराम महाज्ञानी तदा बुद्धिमतां वरः
॥४७॥तौ दंपती च विश्वेशौ षार्वतीशंकरौ तदा ।
इति श्रुत्वा वचस्तस्य विस्मयं परमं गता
॥४८॥ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् ।
सुप्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम्
॥४९॥शिवाशिवावूचतुः
पुत्र ते विमला बुद्धिस्समुत्पन्ना महात्मनः ।
त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा
॥५०॥समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते ।
तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः
॥५१॥बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
कूपे सिंहो मदोन्मत्तश्शशकेन निपातितः
॥५२॥वेदशास्त्रपुराणेषु बालकस्य यथोदितम् ।
त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम्
॥५३॥सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह ।
आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना
॥५४॥ब्रह्मोवाच
इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम् ।
विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम्
॥५५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमोनामैकोनविंशोध्यायः ॥ १९ ॥