मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय ८

3
रुद्रसंहिता · कुमारखण्डः · 8

संग्रामस्तुमुलोऽतीव तत्प्रभ्वो शृणु नारद

ब्रह्मोवाच

इति ते वर्णितस्तात देवदानव सेनयोः ।

संग्रामस्तुमुलोऽतीव तत्प्रभ्वो शृणु नारद

॥१॥

एवं युद्धेऽतितुमुले देवदानवसंक्षये ।

तारकेणैव देवेन्द्रश्शक्त्या रमया सह

॥२॥

सद्यः पपात नागाश्च धरण्यां मूर्च्छितोऽभवत् ।

परं कश्मलमापेदे वज्रधारी सुरेश्वरः

॥३॥

तथैव लोकपास्सर्वेऽसुरैश्च बलवत्तरैः ।

पराजिता रणे तात महारणविशारदैः

॥४॥

अन्येऽपि निर्जरा दैत्यैर्युद्ध्यमानाः पराजिताः ।

असहंतो हि तत्तेजः पलायनपरायणाः

॥५॥

जगर्जुरसुरास्तत्र जयिनस्सुकृतोद्यमाः ।

सिंहनादं प्रकुर्वन्तः कोलाहलपरायणाः

॥६॥

एतस्मिन्नंतरे तत्र वीरभद्रो रुषान्वितः ।

आससाद गणैर्वीरैस्तारकं वीरमानिनम्

॥७॥

निर्जरान् पृष्ठतः कृत्वा शिवकोपोद्भवो बली ।

तत्सम्मुखो बभूवाथ योद्धुकामो गणाग्रणीः

॥८॥

तदा ते प्रमथास्सर्वे दैत्याश्च परमोत्सवाः ।

युयुधुस्संयुगेऽन्योन्यं प्रसक्ताश्च महारणे

॥९॥

त्रिशूलैर्ऋष्टिभिः पाशैः खड्गैः परशुपट्टिशैः ।

निजघ्नुस्समरेऽन्योन्यं रणे रणविशारदाः

॥१०॥

तारको वीरभद्रेण स त्रिशूलाहतो भृशम् ।

पपात सहसा भूमौ क्षणं मूर्छापरिप्लुतः

॥११॥

उत्थाय स द्रुतं वीरस्तारको दैत्यसत्तमः ।

लब्धसंज्ञो बलाच्छक्त्या वीरभद्रं जघान ह

॥१२॥

वीरभद्रस्तथा वीरो महातेजा हि तारकम् ।

जघान त्रिशिखेनाशु घोरेण निशितेन तम्

॥१३॥

सोपि शक्त्या वीरभद्रं जघान समरे ततः ।

तारको दितिजाधीशः प्रबलो वीरसंमतः

॥१४॥

एवं संयुद्ध्यमानौ तौ जघ्नतुश्चेतरेतरम् ।

नानास्त्रशस्त्रैस्समरे रणविद्याविशारदौ

॥१५॥

तयोर्महात्मनोस्तत्र द्वन्द्वयुद्धमभूत्तदा ।

सर्वेषां पश्यतामेव तुमुलं रोमहर्षणम्

॥१६॥

ततो भेरीमृदंगाश्च पटहानकगोमुखाः ।

विनेदुर्विहता वीरैश्शृण्वतां सुभयानकाः

॥१७॥

युयुधातेतिसन्नद्धौ प्रहारैर्जर्जरीकृतौ ।

अन्योन्यमतिसंरब्धौ तौ बुधांगारकाविव

॥१८॥

एवं दृष्ट्वा तदा युद्धं वीरभद्रस्य तेन च ।

तत्र गत्वा वीरभद्रमवोचस्त्वं शिवप्रियः

॥१९॥

नारद उवाच

वीरभद्र महावीर गणानामग्रणीर्भवान् ।

निवर्तस्व रणादस्माद्रोचते न वधस्त्वया

॥२०॥

एवं निशम्य त्वद्वाक्यं वीरभद्रो गणाग्रणीः ।

अवदत्स रुषाविष्टस्त्वां तदा तु कृतांजलिः

॥२१॥

वीरभद्र उवाच

मुनिवर्य महाप्राज्ञ शृणु मे परमं वचः ।

तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम्

॥२२॥

आनयंति च ये वीरास्स्वामिनं रणसंसदि ।

ते पापिनो महाक्लीबा विनश्यन्ति रणं गताः

॥२३॥

असद्गतिं प्राप्नुवन्ति तेषां च निरयो धुवम् ।

वीरभद्रो हि विज्ञेयो न वाच्यस्ते कदाचन

॥२४॥

शस्त्रास्त्रैर्भिन्नगात्रा ये रणं कुर्वंति निर्भयाः ।

इहामुत्र प्रशंस्यास्ते लभ्यन्ते सुखमद्भुतम्

॥२५॥

शृण्वन्तु मम वाक्यानि देवा हरिपुरोगमाः ।

अतारकां महीमद्य करिष्ये स्वामिवर्जिताम्

॥२६॥

इत्युक्त्वा प्रमर्थैस्सार्द्धं वीरभद्रो हि शूलधृक् ।

विचिंत्य मनसा शंभुं युयुधे तारकेण हि

॥२७॥

वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः ।

महावीरस्त्रिनेत्रैश्च स रेजे रणसंगतः

॥२८॥

कोलाहलं प्रकुर्वंतो निर्भयाश्शतशो गणाः ।

वीरभद्रं पुरस्कृत्य युयुधुर्दानवैस्सह

॥२९॥

असुरास्तेऽपि युयुधुस्तारकासुरजीविनः ।

बलोत्कटा महावीरा मर्दयन्तो गणान् रुषा

॥३०॥

पुनः पुनश्चैव बभूव संगरो महोत्कटो दैत्यवरैर्गणानाम् ।

प्रहर्षमाणाः परमास्त्रकोविदास्तदा गणास्ते जयिनो बभूवुः

॥३१॥

गणैर्जितास्ते प्रबलैरसुरा विमुखा रणे ।

पलायनपरा जाता व्यथिता व्यग्रमानसाः

॥३२॥

एवं भ्रष्टं स्वसैन्यं तद्दृष्ट्वा तत्पालकोऽसुरः ।

तारको हि रुषाविष्टो हंतुं देवगणान् ययौ

॥३३॥

भुजानामयुतं कृत्वा सिंहमारुह्य वेगतः ।

पातयामास तान्देवान्गणांश्च रणमूर्द्धनि

॥३४॥

स दृष्ट्वा तस्य तत्कर्म वीरभद्रो गणाग्रणीः ।

चकार सुमहत्कोपं तद्वधाय महाबली

॥३५॥

स्मृत्वा शिवपदांभोजं जग्राह त्रिशिखं परम् ।

जज्वलुस्तेजसा तस्य दिशः सर्वा नभस्तथा

॥३६॥

एतस्मिन्नन्तरे स्वामी वारयामास तं रणम् ।

वीरबाहुमुखान्सद्यो महाकौतुकदर्शकः

॥३७॥

तदाज्ञया वीरभद्रो निवृत्तोऽभूद्रणात्तदा ।

कोपं चक्रे महावीरस्तारकोऽसुरनायकः

॥३८॥

चकार बाणवृष्टिं च सुरोपरि तदाऽसुरः ।

तप्तोऽह्वासीत्सुरान्सद्यो नानास्त्ररणकोविदः

॥३९॥

एवं कृत्वा महत्कर्म तारकोऽसुरपालकः ।

सर्वेषामपि देवानामशक्यो बलिनां वरः

॥४०॥

एवं निहन्यमानांस्तान् दृष्ट्वा देवान् भयाकुलान् ।

कोपं कृत्वा रणायाशु संनद्धोऽभवदच्युतः

॥४१॥

चक्रं सुदर्शनं शार्ङ्गं धनुरादाय सायुधः ।

अभ्युद्ययौ महादैत्यं रणाय भगवान् हरिः

॥४२॥

ततस्समभवद्युद्धं हरितारकयोर्महत् ।

लोमहर्षणमत्युग्रं सर्वेषां पश्यतां मुने

॥४३॥

गदामुद्यम्य स हरिर्जघानासुरमोजसा ।

द्विधा चकार तां दैत्यस्त्रिशिखेन महाबली

॥४४॥

ततस्स क्रुद्धो भगवान्देवानामभयंकरः ।

शार्ङ्गच्युतैश्शरव्यूहैर्जघानासुरनायकम्

॥४५॥

सोऽपि दैत्यो महावीरस्तारकः परवीरहा ।

चिच्छेद सकलान्बाणान्स्वशरैर्निशितैर्द्रुतम्

॥४६॥

अथ शक्त्या जघानाशु मुरारिं तारकासुरः ।

भूमौ पपात स हरिस्तत्प्रहारेण मूर्च्छितः

॥४७॥

जग्राह स रुषा चक्रमुत्थितः क्षणतोऽच्युतः ।

सिंहनादं महत्कृत्वा ज्वलज्ज्वालासमाकुलम्

॥४८॥

तेन तञ्च जघानासौ दैत्यानामधिपं हरिः ।

तत्प्रहारेण महता व्यथितो न्यपतद्भुवि

॥४९॥

पुनश्चोत्थाय दैत्येन्द्रस्तारकोऽसुरनायकः ।

चिच्छेद त्वरितं चक्रं स्वशक्त्यातिबलान्वितः

॥५०॥

पुनस्तया महाशक्त्या जघानामरवल्लभम् ।

अच्युतोऽपि महावीरा नन्दकेन जघान तम्

॥५१॥

एवमन्योन्यमसुरो विष्णुश्च बलवानुभौ ।

युयुधाते रणे भूरि तत्राक्षतबलौ मुने

॥५२॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे देव दैत्यसामान्ययुद्धवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥