शिवविहारवर्णनम्
श्रीगणेशाय नमः
श्रीगौरीशंकराभ्यां नमः
अथ रुद्रसंहितांतर्गतश्चतुर्थः कुमारखण्डः प्रारभ्यते
वन्दे नन्दनतुष्टमान समति प्रेमप्रियं प्रेमदं पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्वर्यैकवासं शिवम् ।
सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्मनुतं स्वकीयकृपयोपात्ताकृतिं शंकरम्
॥१॥नारद उवाच
विवाहयित्वा गिरिजां शंकरो लोकशंकरः ।
गत्वा स्वपर्वतं ब्रह्मन् किमकार्षिद्धि तद्वद
॥२॥कथं हि तनयो जज्ञे शिवस्य परमात्मनः ।
यदर्थमात्मारामोऽपि समुवाह शिवां प्रभुः
॥३॥तारकस्य कथं ब्रह्मन् वधोऽभूद्देवशंकरः ।
एतत्सर्वमशेषेण वद कृत्वा दयां मयि
॥४॥सूत उवाच
इत्याकर्ण्य वचस्तस्य नारदस्य प्रजापतिः ।
सुप्रसन्नमनाः स्मृत्वा शंकरं प्रत्युवाच ह
॥५॥ब्रह्मोवाच
चरितं शृणु वक्ष्यामि शशिमौलेस्तु नारद ।
गुहजन्मकथां दिव्यां तारकासुरसद्वधम्
॥६॥श्रूयतां कथयाम्यद्य कथां पापप्रणाशिनीम् ।
यां श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो ध्रुवम्
॥७॥इदमाख्यानमनघं रहस्यं परमाद्भुतम् ।
पापसंतापहरणं सर्वविघ्नविनाशनम्
॥८॥सर्वमंगलदं सारं सर्वश्रुतिमनोहरम् ।
सुखदं मोक्षबीजं च कर्ममूलनिकृंतनम्
॥९॥कैलासमागत्य शिवां विवाह्य शोभां प्रपेदे नितरां शिवोऽपि ।
विचारयामास च देवकृत्यं पीडां जनस्यापि च देवकृत्ये
॥१०॥शिवस्स भगवान् साक्षात्कैलासमगमद्यदा ।
सौख्यं च विविधं चक्रुर्गणास्सर्वे सुहर्षिताः
॥११॥महोत्सवो महानासीच्छिवे कैलासमागते ।
देवास्स्वविषयं प्राप्ता हर्षनिर्भरमानसाः
॥१२॥अथ शंभुर्महादेवो गृहीत्वा गिरिजां शिवाम् ।
जगाम निर्जनं स्थानं महादिव्यं मनोहरम्
॥१३॥शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
अद्भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम्
॥१४॥स रेमे तत्र भगवाञ्शंभुगिरिजया सह ।
सहस्रवर्षपर्यन्तं देवमानेन मानदः
॥१५॥दुर्गांगस्पर्शमात्रेण लीलया मूर्च्छितः शिवः ।
मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम्
॥१६॥हरे भोगप्रवृत्ते तु लोकधर्म प्रवर्तिनि ।
महान् कालो व्यतीयाय तयोः क्षण इवानघ
॥१७॥अथ सर्वे सुरास्तात एकत्रीभूय चैकदा ।
मंत्रयांचक्रुरागत्य मेरौ शक्रपुरोगमाः
॥१८॥सुरा ऊचुः
विवाहं कृतवाञ्छंभुरस्मत्कार्यार्थमीश्वरः ।
योगीश्वरो निर्विकारो स्वात्मारामो निरंजनः
॥१९॥नोत्पन्नस्तनयस्तस्य न जानामोऽत्र कारणम् ।
विलंबः क्रियते तेन कथं देवेश्वरेण ह
॥२०॥एतस्मिन्नंतरे देवा नारदाद्देवदर्शनात् ।
बुबुधुस्तन्मितं भोगं तयोश्च रममाणयोः
॥२१॥चिरं ज्ञात्वा तयोर्भोगं चिंतामापुस्सुराश्च ते ।
ब्रह्माणं मां पुरस्कृत्य ययुर्नारायणांतिकम्
॥२२॥तं नत्वा कथितं सर्वं मया वृत्तांतमीप्सितम् ।
सन्तस्थिरे सर्वदेवा चित्रे पुत्तलिका यथा
॥२३॥ब्रह्मोवाच
सहस्रवर्ष पर्य्यन्तं देवमानेन शंकरः ।
रतौ रतश्च निश्चेष्टो योगी विरमते न हि
॥२४॥भगवानुवाच
चिन्ता नास्ति जगद्धातस्सर्वं भद्रं भविष्यति ।
शरणं व्रज देवेश शंकरस्य महाप्रभोः
॥२५॥महेशशरणापन्ना ये जना मनसा मुदा ।
तेषां प्रजेशभक्तानां न कुतश्चिद्भयं क्वचित्
॥२६॥शृंगारभंगस्समये भविता नाधुना विधे ।
कालप्रयुक्तं कार्यं च सिद्धिं प्राप्नोति नान्यथा
॥२७॥शम्भोस्सम्भोगमिष्टं को भेदं कर्तुमिहेश्वरः ।
पूर्णे वर्षसहस्रे च स्वेच्छया हि विरंस्यति
॥२८॥स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः ।
तस्य स्त्रीपुत्रयोर्भेदो भवेज्जन्मनि जन्मनि
॥२९॥भ्रष्टज्ञानो नष्टकीर्त्तिरलक्ष्मीको भवेदिह ।
प्रयात्यंते कालसूत्र वर्षलक्षं स पातकी
॥३०॥रंभायुक्तं शक्रमिमं चकार विरतं रतौ ।
महामुनीन्द्रो दुर्वासास्तत्स्त्रीभेदो बभूव ह
॥३१॥पुनरन्यां स संप्राप्य विषेव्य शुभपाणिकाम् ।
दिव्यं वर्षसहस्रं च विजहौ विरहज्वरम्
॥३२॥घृताच्या सह संश्लिष्टं कामं वारितवान् गुरुः ।
षण्मासाभ्यंतरे चन्द्रस्तस्य पत्नीं जहार ह
॥३३॥पुनश्शिवं समाराध्य कृत्वा तारामयं रणम् ।
तारां सगर्भां संप्राप्य विजहौ विरहज्वरम् ।
३४ मोहिनीसहितं चन्द्रं चकार विरतं रतौ ।
महर्षिर्गौतमस्तस्य स्त्रीविच्छेदो बभूव ह
॥३५॥हरिश्चन्द्रो हालिकं च वृषल्यासह संयुतम् ।
चारयामास निश्चेष्टं निर्जनं तत्फलं शृणु
॥३६॥भ्रष्टः स्त्रीपुत्रराज्येभ्यो विश्वामित्रेण ताडितः ।
ततश्शिवं समाराध्य मुक्तो भूतो हि कश्मलात्
॥३७॥अजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम् ।
न भिया वारयामासुस्सुरास्तां चापि केचन
॥३८॥सर्वं निषेकसाध्यं च निषेको बलवान् विधे ।
निषेकफलदो वै स निषेकः केन वार्य्यते
॥३९॥दिव्यं वर्षसहस्रं च शंभोः संभोगकर्म तत् ।
पूर्णे वर्षसहस्रे च गत्वा तत्र सुरेश्वराः
॥४०॥येन वीर्यं पतेद्भूमौ तत् करिष्यथ निश्चितम् ।
तत्र वीर्य्ये च भविता स्कन्दनामा प्रभोस्सुतः
॥४१॥अधुना स्वगृहं गच्छ विधे सुरगणैस्सह ।
करोतु शंभुस्संभोगं पार्वत्या सह निर्जने
॥४२॥ब्रह्मोवाच
इत्युक्त्वा कमलाकान्तः शीघ्रं स्वन्तः पुरं ययौ ।
स्वालयं प्रययुर्देवा मया सह मुनीश्वर
॥४३॥शक्तिशक्तिमतोश्चाऽथ विहारेणाऽति च क्षितिः ।
भाराक्रांता चकंपे सा सशेषाऽपि सकच्छपा
॥४४॥कच्छपस्य हि भारेण सर्वाधारस्समीरणः ।
स्तंभितोऽथ त्रिलोकाश्च बभूवुर्भयविह्वलाः
॥४५॥अथ सर्वे मया देवा हरेश्च शरणं ययुः ।
सर्वं निवेदयांचक्रुस्तद्वृत्तं दीनमानसाः
॥४६॥देवा ऊचुः
देवदेव रमानाथ सर्वाऽवनकर प्रभोः ।
रक्ष नः शरणापन्नान् भयव्याकुलमानसान्
॥४७॥स्तंभितस्त्रिजगत्प्राणो न जाने केन हेतुना ।
व्याकुलं मुनिभिर्लेखैस्त्रैलोक्यं सचराचरम्
॥४८॥ब्रह्मोवाच
इत्युक्त्वा सकला देवा मया सह मुनीश्वर ।
दीनास्तस्थुः पुरो विष्णोर्मौनीभूतास्सु दुःखिताः
॥४९॥तदाकर्ण्य समादाय सुरान्नः सकलान् हरिः ।
जगाम पर्वतं शीघ्रं कैलासं शिववल्लभम्
॥५०॥तत्र गत्वा हरिर्देवैर्मया च सुरवल्लभः ।
ययौ शिववरस्थानं शंकरं द्रष्टुकाम्यया
॥५१॥तत्र दृष्ट्वा शिवं विष्णुर्नसुरैर्विस्मितोऽभवत् ।
तत्र स्थिताञ् शिवगणान् पप्रच्छ विनयान्वितः
॥५२॥विष्णुरुवाच
हे शंकराः शिवः कुत्र गतस्सर्वप्रभुर्गणाः ।
निवेदयत नः प्रीत्या दुःखितान्वै कृपालवः
॥५३॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य सामरस्य हरेर्गुणाः ।
प्रोचुः प्रीत्या गणास्ते हि शंकरस्य रमापतिम्
॥५४॥शिवगणा ऊचुः
हरे शृणु शिवप्रीत्या यथार्थं ब्रूमहे वयम् ।
ब्रह्मणा निर्जरैस्सार्द्धं वृत्तान्तमखिलं च यत्
॥५५॥सर्वेश्वरो महादेवो जगाम गिरिजालयम् ।
संस्थाप्य नोऽत्र सुप्रीत्या रानालीलाविशारदः
॥५६॥तद्गुहाभ्यन्तरे शंभुः किं करोति महेश्वरः ।
न जानीमो रमानाथ व्यतीयुर्बहवस्समाः
॥५७॥ब्रह्मोवाच
श्रुत्वेति वचनं तेषां स विष्णुस्सामरो मया ।
विस्मितोऽति मुनिश्रेष्ठ शिवद्वारं जगाम ह
॥५८॥तत्र गत्वा मया देवैस्स हरिर्देववल्लभः ।
आर्तवाण्या मुने प्रोचे तारस्वरतया तदा
॥५९॥शंभुमस्तौन्महाप्रीत्या सामरो हि मया हरिः ।
तत्र स्थितो मुनिश्रेष्ठ सर्वलोकप्रभुं हरम्
॥६०॥विष्णुरुवाच
किं करोषि महादेवाऽभ्यन्तरे परमेश्वर ।
तारकार्तान्सुरान्सर्वान्पाहि नः शरणागतान्
॥६१॥इत्यादि संस्तुवञ् शंभुं बहुधा सोमरैर्मया ।
रुरोदाति हरिस्तत्र तारकार्तैर्मुनीश्वर
॥६२॥दुःखकोलाहलस्तत्र बभूव त्रिदिवौकसाम् ।
मिश्रितश्शिव संस्तुत्याऽसुरार्त्तानां मुनीश्वर
॥६३॥इति श्रीशिवमहापुराणे रुद्रसंहितायां कुमारखण्डे शिवविहारवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥