मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय ३

3
रुद्रसंहिता · कुमारखण्डः · 3

कार्तिकेयलीलावर्णनम्

नारद उवाच

देवदेव प्रजानाथ ब्रह्मन् सृष्टिकर प्रभो ।

ततः किमभवत्तत्र तद्वदाऽद्य कृपां कुरु

॥१॥

ब्रह्मोवाच

तस्मिन्नवसरे तात विश्वामित्रः प्रतापवान् ।

प्रेरितो विधिना तत्रागच्छत्प्रीतो यदृच्छया

॥२॥

स दृष्ट्वाऽलौकिकं धाम तत्सुतस्य सुतेजसः ।

अभवत्पूर्णकामस्तु सुप्रसन्नो ननाम च

॥३॥

अकरोत्सुनुतिं तस्य सुप्रसन्नेन चेतसा ।

विधिप्रेरितवाग्भिश्च विश्वामित्रः प्रभाववित्

॥४॥

ततस्सोऽभूत्सुतस्तत्र सुप्रसन्नो महोति कृत् ।

सुप्रहस्याद्भुतमहो विश्वामित्रमुवाच च

॥५॥

शिवसुत उवाच

शिवेच्छया महाज्ञानिन्नकस्मात्त्वमिहागतः ।

संस्कारं कुरु मे तात यथावद्वेदसंमितम्

॥६॥

अद्यारभ्य पुरोधास्त्वं भव मे प्रीतिमावहन् ।

भविष्यसि सदा पूज्यस्सर्वेषां नात्र संशयः

॥७॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्य सुप्रसन्नो हि गाधिजः ।

तमुवाचानुदात्तेन स्वरेण च सुविस्मितः

॥८॥

विश्वामित्र उवाच

शृणु तात न विप्रोऽहं गाधिक्षत्रियबालकः ।

विश्वामित्रेति विख्यातः क्षत्रियो विप्रसेवकः

॥९॥

इति स्वचरितं ख्यातं मया ते वरबालक ।

कस्त्वं स्वचरितं ब्रूहि विस्मितायाखिलं हि मे

॥१०॥

ब्रह्मोवाच

इत्याकर्ण्य वच स्तस्य तत्स्ववृत्तं जगाद ह ।

ततश्चोवाच सुप्रीत्या गाधिजं तं महोतिकृत्

॥११॥

शिवसुत उवाच

विश्वामित्र वरान्मे त्वं ब्रह्मर्षिर्नाऽत्र संशयः ।

वशिष्ठाद्याश्च नित्यं त्वां प्रशंसिष्यंति चादरात्

॥१२॥

अतस्त्वमाज्ञया मे हि संस्कारं कर्तुमर्हसि ।

इदं सर्वं सुगोप्यं ते कथनीयं न कुत्रचित्

॥१३॥

ब्रह्मोवाच

ततोकार्षीत्स संस्कारं तस्य प्रीत्याऽखिलं यथा ।

शिवबालस्य देवर्षे वेदोक्तविधिना परम्

॥१४॥

शिवबालोपि सुप्रीतो दिव्यज्ञानमदात्परम् ।

विश्वामित्राय मुनये महोतिकारकः प्रभुः

॥१५॥

पुरोहितं चकारासौ विश्वामित्रं शुचेस्सुत ।

तदारभ्य द्विजवरो नानालीलाविशारदः

॥१६॥

इत्थं लीला कृता तेन कथिता सा मया मुने ।

तल्लीलामपरां तात शृणु प्रीत्या वदाम्यहम्

॥१७॥

तस्मिन्नवसरे तात श्वेतनामा च संप्रति ।

तत्राऽपश्यत्सुतं दिव्यं निजं परम पावनम्

॥१८॥

ततस्तं पावको गत्वा दृष्ट्वालिंग्य चुचुम्ब च ।

पुत्रेति चोक्त्वा तस्मै स शस्त्रं शक्तिन्ददौ च सः

॥१९॥

गुहस्तां शक्तिमादाय तच्छृंगं चारुरोह ह ।

तं जघान तया शक्त्या शृंगो भुवि पपात सः

॥२०॥

दशपद्ममिता वीरा राक्षसाः पूर्वमागताः ।

तद्वधार्थं द्रुतं नष्टा बभूवुस्तत्प्रहारतः

॥२१॥

हाहाकारो महानासीच्चकंपे साचला मही ।

त्रैलोक्यं च सुरेशानस्सदेवस्तत्र चागमत्

॥२२॥

दक्षिणे तस्य पार्श्वे च वज्रेण स जघान च ।

शाखनामा ततो जातः पुमांश्चैको महाबलः

॥२३॥

पुनश्शक्रो जघानाऽऽशु वामपार्श्वे हि तं तदा ।

वज्रेणाऽन्यः पुमाञ्जातो विशाखाख्योऽपरो बली

॥२४॥

ततस्तद्धृदयं शक्रो जघान पविना तदा ।

परोऽभून्नैगमोपाख्यः पुमांस्तद्वन्महाबलः

॥२५॥

तदा स्कंदादिचत्वारो महावीरा महाबलाः ।

इन्द्रं हंतुं द्रुतं जग्मुस्सोयं तच्छरणं ययौ

॥२६॥

शक्रस्स सामरगणो भयं प्राप्य गुहात्ततः ।

ययौ स्वलोकं चकितो न भेदं ज्ञातवान्मुने

॥२७॥

स बालकस्तु तत्रैव तस्थाऽऽवानंदसंयुतः ।

पूर्ववन्निर्भयस्तात नानालीलाकरः प्रभुः

॥२८॥

तस्मिन्नवसरे तत्र कृत्तिकाख्याश्च षट् स्त्रियः ।

स्नातुं समागता बालं ददृशुस्तं महाप्रभुम्

॥२९॥

ग्रहीतुं तं मनश्चक्रुस्सर्वास्ता कृत्तिकाः स्त्रियः ।

वादो बभूव तासां तद्ग्रहणेच्छापरो मुने

॥३०॥

तद्वादशमनार्थं स षण्मुखानि चकार ह ।

पपौ दुग्धं च सर्वासां तुष्टास्ता अभवन्मुने ।

तन्मनोगतिमाज्ञाय सर्वास्ताः कृत्तिकास्तदा ।

तमादाय ययुर्लोकं स्वकीयं मुदिता मुने

॥३२॥

तं बालकं कुमाराख्यं स्तनं दत्त्वा स्तनार्थिने ।

वर्द्धयामासुरीशस्य सुतं सूर्याधिकप्रभम्

॥३३॥

न चक्रुर्बालकं याश्च लोचनानामगोचरम् ।

प्राणेभ्योपि प्रेमपात्रं यः पोष्टा तस्य पुत्रक

॥३४॥

यानि यानि च वस्त्राणि त्रैलोक्ये दुर्लभानि च ।

ददुस्तस्मै च ताः प्रेम्णा भूषणानि वराणि वै

॥३५॥

दिनेदिने ताः पुपुषुर्बालकं तं महाप्रभुम् ।

प्रसंसितानि स्वादूनि भोजयित्वा विशेषतः

॥३६॥

अथैकस्मिन् दिने तात स बालः कृत्तिकात्मजः ।

गत्वा देवसभां दिव्यां सुचरित्रं चकार ह

॥३७॥

स्वमहो दर्शयामास देवेभ्यो हि महाद्भुतम् ।

सविष्णुभ्योऽखिलेभ्यश्च महोतिकरबालकः

॥३८॥

तं दृष्ट्वा सकलास्ते वै साच्युतास्सर्षयस्सुराः ।

विस्मयं प्रापुरत्यन्तं पप्रच्छुस्तं च बालकम्

॥३९॥

को भवानिति तच्छ्रुत्वा न किंचित्स जगाद ह ।

स्वालयं स जगामाऽशु गुप्तस्तस्थौ हि पूर्ववत्

॥४०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥