मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय १८

3
रुद्रसंहिता · कुमारखण्डः · 18

जीविते गिरिजापुत्रे देव्या दृष्टे प्रजेश्वर

नारद उवाच

जीविते गिरिजापुत्रे देव्या दृष्टे प्रजेश्वर ।

ततः किमभवत्तत्र कृपया तद्वदाधुना

॥१॥

ब्रह्मोवाच

जीविते गिरिजापुत्रे देव्या दृष्टे मुनीश्वर ।

यज्जातं तच्छृणुष्वाद्य वच्मि ते महदुत्सवम्

॥२॥

जीवितस्स शिवापुत्रो निर्व्यग्रो विकृतो मुने ।

अभिषिक्तस्तदा देवैर्गणाध्यक्षैर्गजाननः

॥३॥

दृष्ट्वा स्वतनयं देवी शिवा हर्षसमन्विता ।

गृहीत्वा बालकं दोर्भ्यां प्रमुदा परिषस्वजे

॥४॥

वस्त्राणि विविधानीह नानालंकरणानि च ।

ददौ प्रीत्या गणेशाय स्वपुत्राय मुदांबिका

॥५॥

पूजयित्वा तया देव्या सिद्धिभिश्चाप्यनेकशः ।

करेण स्पर्शितस्सोथ सर्वदुःखहरेण वै

॥६॥

पूजयित्वा सुतं देवी मुखमाचुम्ब्य शांकरी ।

वरान्ददौ तदा प्रीत्या जातस्त्वं दुःखितोऽधुना

॥७॥

धन्योसि कृतकृत्योसि पूर्वपूज्यो भवाधुना ।

सर्वेषाममराणां वै सर्वदा दुःखवर्जितः

॥८॥

आनने तव सिन्दूरं दृश्यते सांप्रतं यदि ।

तस्मात्त्वं पूजनीयोसि सिन्दूरेण सदा नरैः

॥९॥

पुष्पैर्वा चन्दनैर्वापि गन्धेनैव शुभेन च ।

नैवेद्ये सुरम्येण नीराजेन विधानतः

॥१०॥

तांम्बूलैरथ दानैश्च तथा प्रक्रमणैरपि ।

नमस्कारविधानेन पूजां यस्ते विधास्यति

॥११॥

तस्य वै सकला सिद्धिर्भविष्यति न संशयः ।

विघ्नान्यनेकरूपाणि क्षयं यास्यंत्यसंशयम्

॥१२॥

ब्रह्मोवाच

इत्युक्त्वा च तदा देवी स्वपुत्रं तं महेश्वरो ।

नानावस्तुभिरुत्कृष्टं पुनरप्यर्चयत्तथा

॥१३॥

ततस्स्वास्थ्यं च देवानां गणानां च विशेषतः ।

गिरिजाकृपया विप्र जातं तत्क्षणमात्रतः

॥१४॥

एतस्मिंश्च क्षणे देवा वासवाद्याः शिवं मुदा ।

स्तुत्वा प्रसाद्य तं देवं भक्ता निन्युः शिवांतिकम्

॥१५॥

संसाद्य गिरिशं पश्चादुत्संगे सन्न्यवेशयन् ।

बालकं तं महेशान्यास्त्रिजगत्सुखहेतवे

॥१६॥

शिवोपि तस्य शिरसि दत्त्वा स्वकरपंकजम् ।

उवाच वचनं देवान् पुत्रोऽयमिति मेऽपरः

॥१७॥

गणेशोपि तदोत्थाय नमस्कृत्य शिवाय वै ।

पार्वत्यै च नमस्कृत्य मह्यं वै विष्णवे तथा

॥१८॥

नारादाद्यानृषीन्सर्वान्सत्वास्थाय पुरोऽब्रवीत् ।

क्षंतव्यश्चापराधो मे मानश्चैवेदृशो नृणाम्

॥१९॥

अहं च शंकरश्चैव विष्णुश्चैते त्रयस्सुराः ।

प्रत्यूचुर्युगपत्प्रीत्या ददतो वरमुत्तमम्

॥२०॥

त्रयो वयं सुरवरा यथापूज्या जगत्त्रये ।

तथायं गणनाथश्च सकलैः प्रतिपूज्यताम्

॥२१॥

वयं च प्राकृताश्चायं प्राकृतः पूज्य एव च ।

गणेशो विघ्नहर्ता हि सर्वकामफलप्रदः

॥२२॥

एतत्पूजां पुरा कृत्वा पश्चात्पूज्या वयं नरैः ।

वयं च पूजितास्सर्वे नायं चापूजितो यदा

॥२३॥

अस्मिन्नपूजिते देवाः परपूजाकृता यदि ।

तदा तत्फलहानिः स्यान्नात्र कार्या विचारणा

॥२४॥

ब्रह्मोवाच

इत्युक्त्वा स गणेशानो नानावस्तुभिरादरात् ।

शिवेन पूजितः पूर्वं विष्णुनानु प्रपूजितः

॥२५॥

ब्रह्मणा च मया तत्र पार्वत्या च प्रपूजितः ।

सर्वैर्देवैर्गणैश्चैव पूजितः परया मुदा

॥२६॥

सवैर्मिलित्वा तत्रैव ब्रह्मविष्णुहरादिभिः ।

सगणेशश्शिवातुष्ट्यै सर्वाध्यक्षो निवेदितः

॥२७॥

पुनश्चैव शिवेनास्मै सुप्रसन्नेन चेतसा ।

सर्वदा सुखदा लोके वरा दत्ता ह्यनेकशः

॥२८॥

शिव उवाच

हे गिरीन्द्रसुतापुत्र संतुष्टोहं न संशयः ।

मयि तुष्टे जगत्तुष्टं विरुद्धः कोपि नो भवेत्

॥२९॥

बालरूपोपि यस्मात्त्वं महाविक्रमकारकः ।

शक्तिपुत्रस्सुतेजस्वी तस्माद्भव सदा सुखी

॥३०॥

त्वन्नाम विघ्नहंतृत्वे श्रेष्ठं चैव भवत्विति ।

मम सर्वगणाध्यक्षः संपूज्यस्त्वं भवाधुना

॥३१॥

एवमुक्त्वा शंकरेण पूजाविधिरनेकशः ।

आशिषश्चाप्यनेका हि कृतास्तस्मिंस्तु तत्क्षणात्

॥३२॥

ततो देवगणाश्चैव गीत वाद्यं च नृत्यकम् ।

मुदा ते कारयामासुस्तथैवप्सरसां गणाः

॥३३॥

पुनश्चैव वरो दत्तस्सुप्रसन्नेन शंभुना ।

तस्मै च गणनाथाय शिवेनैव महात्मना

॥३४॥

चतुर्थ्यां त्वं समुत्पन्नो भाद्रे मासि गणेश्वर ।

असिते च तथा पक्षे चंद्रस्योदयने शुभे

॥३५॥

प्रथमे च तथा यामे गिरिजायास्सुचेतसः ।

आविर्बभूव ते रूपं यस्मात्ते व्रतमुत्तमम्

॥३६॥

तस्मात्तद्दिनमारभ्य तस्यामेव तिथौ मुदा ।

व्रतं कार्यं विशेषेण सर्वसिद्ध्यै सुशोभनम्

॥३७॥

यावत्पुनस्समायाति वर्षान्ते च चतुर्थिका ।

तावद्व्रतं च कर्तव्यं तव चैव ममाज्ञया

॥३८॥

संसारे सुखमिच्छन्ति येऽतुलं चाप्यनेकशः ।

त्वां पूजयन्तु ते भक्त्या चतुर्थ्यां विधिपूर्वकम्

॥३९॥

मार्गशीर्षे तथा मासे रमा या वै चतुर्थिका ।

प्रातःस्नानं तदा कृत्वा व्रतं विप्रान्निवेदयेत

॥४०॥

दूर्वाभिः पूजनं कार्यमुपवासस्तथाविधः ।

रात्रेश्च प्रहरे जाते स्नात्वा संपूजयेन्नरः

॥४१॥

मूर्तिं धातुमयीं कृत्वा प्रवालसंभवां तथा ।

श्वेतार्कसंभवां चापि मार्द्दिकां निर्मितां तथा

॥४२॥

प्रतिष्ठाप्य तदा तत्र पूजयेत्प्रयतः पुमान् ।

गंधैर्नानाविधैर्दिव्यैश्चन्दनैः पुष्पकैरिह

॥४३॥

वितस्तिमात्रा दूर्वा च व्यंगा वै मूलवर्जिता ।

ईदृशानां तद्बलानां शतेनैकोत्तरेण ह

॥४४॥

एकविंशतिकेनैव पूजयेत्प्रतिमां स्थिताम् ।

धूपैर्दीपैश्च नैवेद्यैर्विविधैर्गणनायकम्

॥४५॥

ताम्बूलाद्यर्घसद्द्रव्यैः प्रणिपत्य स्तवैस्तथा ।

त्वां तत्र पूजयित्वेत्थं बालचंद्रं च पूजयेत्

॥४६॥

पश्चाद्विप्रांश्च संपूज्य भोजयेन्मधुरैर्मुदा ।

स्वयं चैव ततो भुंज्यान्मधुरं लवणं विना

॥४७॥

विसर्जयेत्ततः पश्चान्नियमं सर्वमात्मनः ।

गणेशस्मरणं कुर्य्यात्संपूर्णं स्याद्व्रतं शुभम्

॥४८॥

एवं व्रतेन संपूर्णे वर्षे जाते नरस्तदा ।

उद्यापनविधिं कुर्याद्व्रतसम्पूर्त्तिहेतवे

॥४९॥

द्वादश ब्राह्मणास्तत्र भोजनीया मदाज्ञया ।

कुंभमेकं च संस्थाप्य पूज्या मूर्तिस्त्वदीयिका

॥५०॥

स्थण्डिलेष्टपलं कृत्वा तदा वेदविधानतः ।

होमश्चैवात्र कर्तव्यो वित्तशाठ्यविवर्जितैः

॥५१॥

स्त्रीद्वयं च तथा चात्र बटुकद्वयमादरात् ।

भोजयेत्पूजयित्वा वै मूर्त्यग्रे विधिपूर्वकम्

॥५२॥

निशि जागरणं कार्यं पुनः प्रातः प्रपूजयेत् ।

विसर्जनं ततश्चैव पुनरागमनाय च

॥५३॥

बालकाच्चाशिषो ग्राह्यास्स्वस्तिवाचनमेव च ।

पुष्पांजलिं प्रदद्याच्च व्रतसंपूर्ण हेतवे

॥५४॥

नमस्कारांस्ततः कृत्वा नानाकार्यं प्रकल्पयेत् ।

एवं व्रतं कृतं येन तस्येप्सितफलं भवेत्

॥५५॥

यो नित्यं श्रद्धया सार्द्धं पूजां चैव स्व शक्तितः ।

कुर्य्यात्तव गणेशान सर्वकामफलाप्तये

॥५६॥

सिन्दूरैश्चन्दनैश्चैव तंडुलैः केतकैस्तथा ।

उपचारैरनेकैश्च पूजयेत्त्वां गणे श्वरम्

॥५७॥

एवं त्वां पूजयेयुर्ये भक्त्या नानोपचारतः ।

तेषां सिद्धिर्भवेन्नित्यं विघ्ननाशो भवेदिह

॥५८॥

सर्वैर्वर्णैः प्रकर्त्तव्या स्त्रीभिश्चैव विशेषतः ।

उदयाभिमुखैश्चैव राजभिश्च विशेषतः

॥५९॥

यं यं कामयते यो वै तंतमाप्नोति निश्चितम् ।

अतः कामयमानेन तेन सेव्यस्सदा भवान्

॥६०॥

ब्रह्मोवाच

शिवेनैव तदा प्रोक्तं गणेशाय महात्मने ।

तदानीं दैवतैश्चैव सर्वैश्च ऋषिसत्तमैः

॥६१॥

तथेत्युक्त्वा तु तैस्सर्वैर्गणैश्शंभुप्रियैर्मुने ।

पूजितो हि गणाधीशो विधिना परमेण सः

॥६२॥

ततश्चैव गणास्सर्वे प्रणेमुस्ते गणेश्वरम् ।

समानर्चुर्विशेषेण नानावस्तुभिरादरात्

॥६३॥

गिरिजायास्समुत्पन्नो यश्च हर्षो मुनीश्वर ।

चतुर्भिर्वदनैर्वै तमवर्ण्यं च कथं ब्रुवे

॥६४॥

देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।

जगुर्गंधर्वमुख्याश्च पुष्पवर्षं पपात ह

॥६५॥

जगत्स्वास्थ्यं तदा प्राप गणाधीशे प्रतिष्ठिते ।

महोत्सवो महानासीत्सर्वं दुःखं क्षयं गणम्

॥६६॥

शिवाशिवौ च मोदेतां विशेषेणाति नारद ।

आसीत्सुमंगलं भूरि सर्वत्र सुखदायकम्

॥६७॥

ततो देवगणाः सर्वे ऋषीणां च गणास्तथा ।

समागताश्च ये तत्र जग्मुस्ते तु शिवाज्ञया

॥६८॥

प्रशंसंतश्शिवा तत्र गणेशं च पुनः पुनः ।

शिवं चैव तथा स्तुत्वा कीदृशं युद्धमेव च

॥६९॥

यदा सा गिरिजा देवी कोपहीना बभूव ह ।

शिवोऽपि गिरिजां तत्र पूर्ववत्संप्रपद्य ताम्

॥७०॥

चकार विविधं सौख्यं लोकानां हितकाम्यया ।

स्वात्मारामोऽपि परमो भक्तकार्योद्यतः सदा

॥७१॥

विष्णुश्च शिवमापृच्छ्य ब्रह्माहं तं तथैव हि ।

आगच्छाव स्वधामं च शिवौ संसेव्य भक्तितः

॥७२॥

नारद त्वं च भगवन्संगीय शिवयोर्यशः ।

आगमो भवनं स्वं च शिवौ पृष्ट्वा मुनीश्वर

॥७३॥

एतत्ते सर्वमाख्यातं मया वै शिवयोर्यशः ।

भवत्पृष्टेन विघ्नेश यशस्संमिश्रमादरात्

॥७४॥

इदं सुमंगलाख्यानं यः शृणोति सुसंयतः ।

सर्वमंगल संयुक्तस्स भवेन्मंगलालयः

॥७५॥

अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ।

भायार्थी लभते भार्यां प्रजार्थी लभते प्रजाम्

॥७६॥

आरोग्यं लभते रोगी सौभाग्यं दुर्भगो लभेत् ।

नष्टपुत्रं नष्टधनं प्रोषिता च पतिं लभेत्

॥७७॥

शोकाविष्टश्शोकहीनस्स भवेन्नात्र संशयः ।

इदं गाणेशमाख्यानं यस्य गेहे च तिष्ठति

॥७८॥

सदा मंगलसंयुक्तस्स भवेन्नात्र संशयः ।

यात्राकाले च पुण्याहे यश्शृणोति समाहितः ।

सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः

॥७९॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणेशगणाधिपपदवीवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥