युद्धप्रारंभवर्णनम्
ब्रह्मोवाच
हर्य्यादयस्सुरास्ते च दृष्ट्वा तच्चरितं विभोः ।
सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः
॥१॥वल्गंतः कुर्वतो नादं भाविताश्शिवतेजसा ।
कुमारन्ते पुरस्कृत्य तारकं हंतुमाययुः
॥२॥देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः ।
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति
॥३॥देवा दृष्ट्वा समायांतं तारकस्य महाबलम् ।
बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः
॥४॥तदा नभोऽऽङ्गना वाणीं जगादोपरि सत्वरम् ।
शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान्
॥५॥व्योमवाण्युवाच
कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः ।
दैत्यान्विजित्य संग्रामे जयिनोऽथ भविष्यथ
॥६॥ब्रह्मोवाच
वाचं तु खेचरीं श्रुत्वा देवास्सर्वे समुत्सुकाः ।
वीरशब्दान् प्रकुर्वंतो निर्भया ह्यभवंस्तदा
॥७॥कुमारं च पुरस्कृत्य सर्वे ते जातसाध्वसाः ।
योद्धुकामास्सुरा जग्मुर्महीसागरसंगमम्
॥८॥आजगाम द्रुतं तत्र यत्र देवास्स तारकः ।
सैन्येन महता सार्द्धं सुरै र्बहुभिरावृत्
॥९॥रणदुंदुभयो नेदुः प्रलयांबुद्निस्स्वनाः ।
कर्कशानि च वाद्यानि पराणि च तदागमे
॥१०॥गर्जमानास्तदा दैत्यास्तारकेणसुरेण ह ।
कंपयन्तो भुवं पादक्रमैर्वल्गुनकारकाः
॥११॥तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः ।
ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम्
॥१२॥गजमारोप्य देवेन्द्रः कुमारं त्यग्रतोऽभवत् ।
सुरसैन्येन महता लोकपालैस्समावृतः
॥१३॥तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः ।
वीणावेणुमृदंगानि तथा गंधर्वनिस्स्वनाः
॥१४॥गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् ।
अनेकाश्चर्यसंभूतं नानारत्नसमन्वितम्
॥१५॥विमानमारुह्य तदा महायशास्स शांकरिस्सर्वगुणैरुपेतः ।
श्रिया समेतः परया बभौ महान् संवीज्यमानश्चमरैर्महाग्रभैः
॥१६॥प्राचेतसं छत्रमतीवसुप्रभं रत्नैरुपेतं विविधैर्विराजितम् ।
धृतं तदा तच्च कुमारमूर्ध्नि वै ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः
॥१७॥मिलितास्ते तदा सर्वे देवाश्शक्रपुरोगमा ।
स्वैःस्वैर्बलैः परिवृता युद्धकामा महाबलाः
॥१८॥एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि ।
सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक्
॥१९॥ते सेने सुरदैत्यानां शुशुभाते परस्परम् ।
हंतुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः
॥२०॥उभे सेनं तदा तेषामगर्जेतां वनोपमे ।
भयंकरेऽत्यवीराणामितरेषां सुखावहे
॥२१॥एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम् ।
दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः
॥२२॥आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् ।
रुण्डमुंडांकितं सर्वं क्षणेन समपद्यत
॥२३॥भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः ।
निकृत्तांगा महाशस्त्रैर्निहता वीरसंमताः
॥२४॥केषांचिद्बाहवश्छिन्ना खड्पातैस्सुदारुणैः ।
केषांचिदूरवश्छिन्ना वीराणां मानिनां मृधे
॥२५॥केचिन्मथितसर्वांगा गदाभिर्मुद्गरैस्तथा ।
केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः
॥२६॥केचिद्विदारिताः पृष्ठे कुंतैर्ऋष्टिभिरंकुशैः ।
छिन्नान्यपि शिरांस्येव पतितानि च भूतले
॥२७॥बहूनि च कबंधानि नृत्यमानानि तत्र वै ।
वल्गमानानि शतशो उद्यतास्त्रकराणि च
॥२८॥नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा ।
भूतप्रेतादयस्तत्र शतशश्च समागताः
॥२९॥गोमायवश्शिवा तत्र भक्षयन्तः पलं बहु ।
तथा गृध्रवटाश्येना वायसा मांसभक्षकाः ।
बुभुजुः पतितानां च पलानि सुबहूनि वै
॥३०॥एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः ।
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति
॥३१॥देवा दृष्ट्वा समायान्तं तारकं युद्धदुर्मदम् ।
योद्धुकामं तदा सद्यो ययुश्शक्रादयस्तदा ।
बभूवाथ महोन्नादस्सेनयोरुभयोरपि
॥३२॥अथाभूद्द्वंद्वयुद्धं हि सुरासुरविमर्दनम् ।
यं दृष्ट्वा हर्षिता वीराः क्लीबाश्च भयमागता
॥३३॥तारको युयुधे युद्धे शक्रेण दितिजो बली ।
अग्निना सह संह्रादो जंभेनैव यमः स्वयम्
॥३४॥महाप्रभुर्नैर्ऋतेन पाशी सह बलेन च ।
सुवीरो वायुना सार्धं पवमानेन गुह्यराट्
॥३५॥ईशानेन समं शंभुर्युयुधे रणवित्तमः ।
शुंभश्शेषेण युयुधे कुंभश्चन्द्रेण दानवः
॥३६॥कुंबरो मिहिरेणाजौ महाबल पराक्रमः ।
युयुधे परमास्त्रैश्च नानायुद्धविशारदः
॥३७॥एवं द्वन्द्वेन युद्धेन महता च सुरासुराः ।
संगरे युयुधुस्सर्वे बलेन कृतनिश्च याः ।
३८ अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः ।
तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने
॥३९॥तदा च तेषां सुरदानवानां बभूव युद्धं तुमुलं जयैषिणाम् ।
सुखावहं वीरमनस्विनां वै भयावहं चैव तथेतरेषाम्
॥४०॥मही महारौद्रतरा विनष्टकैस्सुरासुरैर्वै पतितैरनेकशः ।
तस्मिन्नगम्यातिभयानका तदा जाता महासौख्यवहा मनस्विनाम्
॥४१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारंभवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥