गणविवादवर्णनम्
ब्रह्मोवाच
गणास्ते क्रोधसंपन्नास्तत्र गत्वा शिवाज्ञया ।
पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम्
॥१॥शिवगणा ऊचुः
कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि ।
इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि
॥२॥ब्रह्मोवाच
तदीयं तद्वचः श्रुत्वा गिरिजातनयस्स वै ।
निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम्
॥३॥गणेश उवाच
यूयं के कुत आयाता भवंतस्सुन्दरा इमे ।
यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः
॥४॥ब्रह्मोवाच
एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम् ।
ऊचुस्सर्वे शिवगणा महावीरा गतस्मयाः
॥५॥परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः ।
द्वारपालं गणेशं तं प्रत्यूचुः कुद्धमानसाः
॥६॥शिवगणा ऊचुः
श्रूयतां द्वारपाला हि वयं शिवगणा वराः ।
त्वां निवारयितुं प्राप्ताश्शंकरस्याज्ञया विभोः
॥७॥त्वामपीह गणं मत्वा न हन्यामीन्यथा हतः ।
तिष्ठ दूरे स्वतस्त्वं च किमर्थं मृत्युमीहसे
॥८॥ब्रह्मोवाच
इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः ।
निर्भर्त्स्य शंकरगणान्न द्वारं मुक्तवांस्तदा
॥९॥ते सर्वेपि गणाश्शैवास्तत्रत्या वचनं तदा ।
श्रुत्वा तत्र शिवं गत्वा तद्वृत्तांतमथाब्रुवन्
॥१०॥ततश्च तद्वचः श्रुत्वाद्भुतलीलो महेश्वरः ।
विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने
॥११॥महेश्वर उवाच
कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः ।
किं करिष्यत्यसद्बुद्धिः स्वमृत्युं वांछति ध्रुवम्
॥१२॥दूरतः क्रियतां ह्येष द्रारपालो नवीनकः ।
क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम्
॥१३॥स्वामिनोक्ता गणास्ते चाद्भुतलीलेन शंभुना ।
पुनरागत्य तत्रैव तमूचुर्द्वारपालकम्
॥१४॥शिवगणा ऊचुः
रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः ।
नैवास्मान्गाणयस्येवं कथं जीवितुमिच्छसि
॥१५॥द्वारपाला वयं सर्वे स्थितः किं परिभाषसे ।
सिंहासनगृहीतश्च शृगालः शिवमीहते
॥१६॥तावद्गर्जसि मूर्ख त्वं यावद्गण पराक्रमः ।
नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि
॥१७॥इत्युक्तस्तैस्सुसंकुद्धो हस्ताभ्यां यष्टिकां तदा ।
गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः
॥१८॥उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् ।
शंकरस्य महावीरान्निर्भयस्तान्गणेश्वरः
॥१९॥शिवापुत्र उवाच
यात यात ततो दूरे नो चेद्वो दर्शयामि ह ।
स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम्
॥२०॥इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि ।
परस्परमथोचुस्ते शंकरस्य गणास्तदा
॥२१॥शिवगणा ऊचुः
किं कर्तव्यं क्व गंतव्यं माक्रियते स न किं पुनः ।
मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च
॥२२॥ब्रह्मोवाच
ततश्शंभुगणास्सर्वे शिवं दूरे व्यवस्थितम् ।
क्रोशमात्रं तु कैलासाद्गत्वा ते च तथाब्रुवन्
॥२३॥शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः ।
उवाच परमेशो हि स्वगणान् वीरसंमतान्
॥२४॥शिव उवाच
रेरे गणाः क्लीबमता न वीरा वीरमानिनः ।
मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत्
॥२५॥गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह ।
बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः
॥२६॥ब्रह्मोवाच
इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर ।
भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः
॥२७॥शिवगणा ऊचुः
रेरे त्वं शृणु वै बाल बलात्किं परिभाषसे ।
इतस्त्वं दूरतो याहि नो चेन्मृत्युर्भविष्यति
॥२८॥ब्रह्मोवाच
इति श्रुत्वा वचस्तेषां शिवाज्ञाकारिणां ध्रुवम् ।
शिवासुतस्तदाभूत्स किं करोमीति दुःखितः
॥२९॥एतस्मिन्नंतरे देवी तेषां तस्य च वै पुनः ।
श्रुत्वा तु कलहं द्वारि सखीं पश्येति साब्रवीत्
॥३०॥समागत्य सखी तत्र वृत्तांतं समबुध्यत ।
क्षणमात्रं तदा दृष्ट्वा गता हृष्टा शिवांतिकम्
॥३१॥तत्र गत्वा तु तत्सर्वं वृत्तं तद्यदभून्मुने ।
अशेषेण तया सख्या कथितं गिरिजाग्रतः
॥३२॥सख्युवाच
अस्मदीयो गणो यो हि स्थितो द्वारि महेश्वरि ।
निर्भर्त्सयति तं वीराश्शंकरस्य गणा ध्रुवम्
॥३३॥शिवश्चैव गणास्सर्वे विना तेऽवसरं कथम् ।
प्रविशंति हठाद्गेहे नैतच्छुभतरं तव
॥३४॥सम्यक् कृतं ह्यनेनैव न हि कोपि प्रवेशितः ।
दुःखं चैवानुभूयात्र तिरस्कारादिकं तथा
॥३५॥अतः परन्तु वाग्वादः क्रियते च परस्परम् ।
वाग्वादे च कृते नैव तर्ह्यायान्तु सुखेन वै
॥३६॥कृतश्चैवात्र वाग्वादस्तं जित्वा विजयेन च ।
प्रविशंतु तथा सर्वे नान्यथा कर्हिचित्प्रिये
॥३७॥अस्मिन्नेवास्मदीये वै सर्वे संभर्त्सिता वयम् ।
तस्माद्देवि त्वया भद्रे न त्याज्यो मान उत्तमः
॥३८॥शिवो मर्कटवत्तेऽद्य वर्तते सर्वदा सति ।
किं करिष्यत्यहंकारमानुकूल्यं भविष्यति
॥३९॥ब्रह्मोवाच
अहो क्षणं स्थिता तत्र शिवेच्छावशतस्सती
॥४०॥मनस्युवाच सा भूत्वा मानिनी पार्वती तदा
॥४१॥शिवोवाच
अहो क्षणं स्थितो नैव हठात्कारः कथं कृतः ।
कथं चैवात्र कर्त्तव्यं विनयेनाथ वा पुनः
॥४२॥भविष्यति भवत्येव कृतं नैवान्यथा पुनः ।
इत्युक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा
॥४३॥समागत्याऽब्रवीत्सा च प्रियया कथितं हि यत् ।
तमाचष्ट गणेशं तं गिरिजातनयं तदा
॥४४॥सख्युवाच
सम्यक्कृतं त्वया भद्र बलात्ते प्रविशंतु न ।
भवदग्रे गणा ह्येते किं जयंतु भवादृशम्
॥४५॥कृतं चेद्वाकृतं चैव कर्त्तव्यं क्रियतां त्वया ।
जितो यस्तु पुनर्वापि न वैरमथ वा ध्रुवम्
॥४६॥ब्रह्मोवाच
इति श्रुत्वा वचस्तस्या मातुश्चैव गणेश्वरः ।
आनन्दं परमं प्राप बलं भूरि महोन्नतिम्
॥४७॥बद्धकक्षस्तथोष्णीषं बद्ध्वा जंघोरु संस्पृशन् ।
उवाच तान्गणान् सर्वान्निर्भयं वचनं मुदा
॥४८॥गणेश उवाच
अहं च गिरिजासूनुर्यूयं शिवगणास्तथा ।
उभये समतां प्राप्ताः कर्तव्यं क्रियतां पुनः
॥४९॥भवंतो द्वारपालाश्च द्वारपोहं कथं न हि ।
भवंतश्च स्थितास्तत्राऽहं स्थितोत्रेति निश्चितम्
॥५०॥भवद्भिश्च स्थितं ह्यत्र यदा भवति निश्चितम् ।
तदा भवद्भिः कर्त्तव्यं शिवाज्ञापरिपालनम्
॥५१॥इदानीं तु मया चात्र शिवाज्ञापरिपालनम् ।
सत्यं च क्रियते वीरा निर्णीतं मे यथोचितम्
॥५२॥तस्माच्छिवगणास्सर्वे वचनं शृणुतादरात् ।
हठाद्वा विनयाद्वा न गंतव्यं मन्दिरे पुनः
॥५३॥ब्रह्मोवाच
इत्युक्तास्ते गणेनैव सर्वे ते लज्जिता गणाः ।
ययुश्शिवांतिकं तं वै नमस्कृत्य पुरः स्थिताः
॥५४॥स्थित्वा न्यवेदयन्सर्वे वृत्तांतं च तदद्भुतम् ।
करौ बद्ध्वा नतस्कंधाश्शिवं स्तुत्वा पुरः स्थिताः
॥५५॥तत्सर्वं तु तदा श्रुत्वा वृत्तं तत्स्वगणोदितम् ।
लौकिकीं वृत्तिमाश्रित्य शंकरो वाक्यमब्रवीत्
॥५६॥शंकर उवाच
श्रूयतां च गणास्सर्वे युद्धं योग्यं भवेन्नहि ।
यूयं चात्रास्मदीया वै स च गौरीगणस्तथा
॥५७॥विनयः क्रियते चेद्वै वश्यश्शंभुः स्त्रिया सदा ।
इति ख्यातिर्भवेल्लोके गर्हिता मे गणा धुवम्
॥५८॥कृते चैवात्र कर्तव्यमिति नीतिर्गरीयसी ।
एकाकी स गणो बालः किं करिष्यति विक्रमम्
॥५९॥भवंतश्च गणा लोके युद्धे चाति विशारदाः ।
मदीयाश्च कथं युद्धं हित्वा यास्यथ लाघवम्
॥६०॥स्त्रिया ग्रहः कथं कार्यो पत्युरग्रे विशेषतः ।
कृत्वा सा गिरिजा तस्य नूनं फलमवाप्स्यति
॥६१॥तस्मात्सर्वे च मद्वीराः शृणुतादरतो वचः ।
कर्त्तव्यं सर्वथा युद्धं भावि यत्तद्भवत्विति
॥६२॥ब्रह्मोवाच
इत्युक्त्वा शंकरो ब्रह्मन् नानालीलाविशारदः ।
विरराम मुनिश्रेष्ठ दर्शयँल्लौकिकीं गतिम्
॥६३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणविवादवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥