मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय १५

3
रुद्रसंहिता · कुमारखण्डः · 15

गणेशयुद्धवर्णनम्

ब्रह्मोवाच

इत्युक्ता विभुना तेन निश्चयं परमं गताः ।

सन्नद्धास्तु तदा तत्र जग्मुश्च शिवमन्दिरम्

॥१॥

गणेशोऽपि तथा दृष्ट्वा ह्यायातान्गणसत्तमान् ।

युद्धाऽऽटोपं विधायैव स्थितांश्चैवाब्रवीदिदम्

॥२॥

गणेश उवाच

आयांतु गणपास्सर्वे शिवाज्ञाप रिपालकाः ।

अहमेकश्च बालश्च शिवाज्ञापरिपालकः

॥३॥

तथापि पश्यतां देवी पार्वती सूनुजं बलम् ।

शिवश्च स्वगणानां तु बलं पश्यतु वै पुनः

॥४॥

बलवद्बालयुद्धं च भवानीशिव पक्षयोः ।

भवद्भिश्च कृतं युद्धं पूर्वं युद्धविशारदैः

॥५॥

मया पूर्वं कृतं नैव बालोस्मि क्रियतेऽधुना ।

तथापि भवतां लज्जा गिरिजाशिवयोरिह

॥६॥

ममैवं तु भवेन्नैव वैपरीत्यं भविष्यति ।

ममैव भवतां लज्जा गिरिजाशिवयोरिह

॥७॥

एवं ज्ञात्वा च कर्त्तव्यः समरश्च गणेश्वराः ।

भवद्भिस्स्वामिनं दृष्ट्वा मया च मातरं तदा

॥८॥

क्रियते कीदृशं युद्धं भवितव्यं भवत्विति ।

तस्य वै वारणे कोऽपि न समर्थस्त्रिलोकके

॥९॥

ब्रह्मोवाच

इत्येवं भर्त्सितास्ते तु दंडभूषितबाहवः ।

विविधान्यायुधान्येवं धृत्वा ते च समाययुः

॥१०॥

घर्षयन्तस्तथा दंतान् हुंकृत्य च पुनःपुनः ।

पश्य पश्य ब्रुवंतश्च गणास्ते समुपागताः

॥११॥

नंदी प्रथममागत्य धृत्वा पादं व्यकर्षयत् ।

धावन्भृंगी द्वितीयं च पादं धृत्वा गणस्य च

॥१२॥

यावत्पादे विकर्षन्तौ तावद्धस्तेन वै गणः ।

आहत्य हस्तयोस्ताभ्यामुत्क्षिप्तौ पादकौ स्वयम्

॥१३॥

अथ देवीसुतो वीरस्सगृह्य परिघं बृहत् ।

द्वारस्थितो गणपतिः सर्वानापोथयत्तदा

॥१४॥

केषांचित्पाणयो भिन्नाः केषांचित्पृष्ठ कानि च ।

केषांचिच्च शिरांस्येव केषांचिन्मस्तकानि च

॥१५॥

केषांचिजानुनी तत्र केषांचित्स्कंधकास्तथा ।

सम्मुखे चागता ये वै ते सर्वे हृदये हताः

॥१६॥

केचिच्च पतिताभूमौ केचिच्च विदिशो गताः ।

केषांचिच्चरणौ छिन्नौ केचिच्छर्वान्तिकं गताः

॥१७॥

तेषां मध्ये तु कश्चिद्वै संग्रामे सम्मुखो न हि ।

सिंहं दृष्ट्वा यथा यांति मृगाश्चैव दिशो दश

॥१८॥

तथा ते च गणास्सर्वे गताश्चैव सहस्रशः ।

परावृत्य तथा सोपि सुद्वारि समुपस्थितः

॥१९॥

कल्पांतकरणे कालो दृश्यते च भयंकरः ।

यथा तथैव दृष्टस्स सर्वेषां प्रलयंकरः

॥२०॥

एतस्मिन्समये चैव सरमेशसुरेश्वराः ।

प्रेरिता नारदेनेह देवास्सर्वे समागमन्

॥२१॥

समब्रुवंस्तदा सर्वे शिव स्य हितकाम्यया ।

पुरःस्थित्वा शिवं नत्वा ह्याज्ञां देहि प्रभो इति

॥२२॥

त्वं परब्रह्म सर्वेशस्सर्वे च तव सेवकाः ।

सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः

॥२३॥

रजस्सत्त्वतमोरूपो लीलया निर्गुणः स्वतः ।

का लीला रचिता चाद्य तामिदानीं वद प्रभो

॥२४॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तेषां मुनिश्रेष्ठ महेश्वरः ।

गणान् भिन्नाँस्तदा दृष्ट्वा तेभ्यस्सर्वं न्यवेदयत्

॥२५॥

अथ सर्वेश्वरस्तत्र शंकरो मुनिसत्तम ।

विहस्य गिरिजानाथो ब्रह्माणं मामुवाच ह

॥२६॥

शिव उवाच

ब्रह्मञ्छृणु मम द्वारि बाल एकस्समास्थितः ।

महाबलो यष्टिपाणिर्गेहावेशनिवारकः

॥२७॥

महाप्रहारकर्ताऽसौ मत्पार्षदविघातकः ।

पराजयः कृतस्तेन मद्गणानां बलादिह

॥२८॥

ब्रह्मन् त्वयैव गंतव्यं प्रसाद्योऽयं महाबलः ।

यथा ब्रह्मन्नयः स्याद्वै तथा कार्यं त्वया विधे

॥२९॥

ब्रह्मोवाच

इत्याकर्ण्य प्रभोर्वाक्यमज्ञात्वाऽज्ञानमोहितः ।

तदीयनिकटं तात सर्वैर्ऋषिवरैरयाम्

॥३०॥

समायान्तं च मां दृष्ट्वा स गणेशो महाबली ।

क्रोधं कृत्वा समभ्येत्य मम श्मश्रूण्यवाकिरत्

॥३१॥

क्षम्यतां क्षम्यतां देव न युद्धार्थं समागतः ।

ब्राह्मणोहमनुग्राह्यः शांतिकर्तानुपद्रवः

॥३२॥

इत्येवं ब्रुवति ब्रह्मंस्तावत्परिघमाददे ।

स गणेशो महावीरो बालोऽबालपराक्रमः

॥३३॥

गृहीतपरिघं दृष्ट्वा तं गणेशं महाबलम् ।

पलायनपरो यातस्त्वहं द्रुततरं तदा

॥३४॥

यात यात ब्रुवंतस्ते परिघेन हतास्तदा ।

स्वयं च पतिताः केचित्केचित्तेन निपातिताः

॥३५॥

केचिच्च शिवसामीप्यं गत्वा तत्क्षणमात्रतः ।

शिवं विज्ञापयांचक्रुस्तद्वृत्तां तमशेषतः

॥३६॥

तथाविधांश्च तान् दृष्ट्वा तद्वृत्तांतं निशम्य सः ।

अपारमादधे कोपं हरो लीलाविशारदः

॥३७॥

इंद्रादिकान्देवगणान् षण्मुखप्रवरान् गणान् ।

भूतप्रेतपिशाचांश्च सर्वानादेशयत्तदा

॥३८॥

ते सर्वे च यथायोग्यं गतास्ते सर्वतो दिशम् ।

तं गणं हंतुकामा हि शिवाज्ञाता उदायुधाः

॥३९॥

यस्य यस्यायुधं यच्च तत्तत्सर्वं विशेषतः ।

तद्गणेशोपरि बलात्समागत्य विमोचितम्

॥४०॥

हाहाकारो महानासीत्त्रैलोक्ये सचराचरे ।

त्रिलोकस्था जनास्सर्वे संशयं परमं गताः

॥४१॥

न यातं ब्रह्मणोऽप्यायुर्ब्रह्मांड क्षयमेति हि ।

अकाले च तथा नूनं शिवेच्छावशतः स्वयम्

॥४२॥

ते सर्वे चागतास्तत्र षण्मुखाद्याश्च ये पुनः ।

देवा व्यर्थायुधा जाता आश्चर्यं परमं गताः

॥४३॥

एतस्मिन्नन्तरे देवी जगदम्बा विबोधना ।

ज्ञात्वा तच्चरितं सर्वमपारं क्रोधमादधे

॥४४॥

शक्तिद्वयं तदा तत्र तया देव्या मुनीश्वर ।

निर्मितं स्वगणस्यैव सर्वसाहाय्यहेतवे

॥४५॥

एका प्रचंडरूपं च धृत्वातिष्ठन्महामुने ।

श्यामपर्वतसंकांशं विस्तीर्य मुखगह्वरम्

॥४६॥

एका विद्युत्स्वरूपा च बहुहस्तसमन्विता ।

भयंकरा महादेवी दुष्टदंडविधायिनी

॥४७॥

आयुधानि च सर्वाणि मोचितानि सुरैर्गणैः ।

गृहीत्वा स्वमुखे तानि ताभ्यां शीघ्रं च चिक्षिपे

॥४८॥

देवायुधं न दृश्येत परिघः परितः पुनः ।

एवं ताभ्यां कृतं तत्र चरितं परमाद्भुतम्

॥४९॥

एको बालोऽखिलं सैन्यं लोडयामास दुस्तरम् ।

यथा गिरिवरेणैव लोडितस्सागरः पुरा

॥५०॥

एकेन निहतास्सर्वे शक्राद्या निर्जरास्तथा ।

शंकरस्य गणाश्चैव व्याकुलाः अभवंस्तदा

॥५१॥

अथ सर्वे मिलित्वा ते निश्श्वस्य च मुहुर्मुहुः ।

परस्परं समूचुस्ते तत्प्रहारसमाकुलाः

॥५२॥

देवगणा ऊचुः

किं कर्तव्यं क्व गंतव्यं न ज्ञायंते दिशो दश ।

परिघं भ्रामयत्येष सव्यापसव्यमेव च

॥५३॥

ब्रह्मोवाच

एतत्कालेऽप्सरश्रेष्ठाः पुष्पचन्दनपाणयः ।

ऋषयश्च त्वदाद्या हि येऽतियुद्धेतिलालसाः

॥५४॥

ते सर्वे च समाजग्मुर्युद्धसंदर्शनाय वै ।

पूरितो व्योम सन्मार्गस्तैस्तदा मुनिसत्तम

॥५५॥

तास्ते दृष्ट्वा रणं तं वै महाविस्मयमागताः ।

ईदृशं परमं युद्धं न दृष्टं चैकदापि हि

॥५६॥

पृथिवी कंपिता तत्र समुद्रसहिता तदा ।

पर्वताः पतिताश्चैव चक्रुः संग्रामसंभवम्

॥५७॥

द्यौर्ग्रहर्क्षगणैर्घूर्ण्णा सर्वे व्याकुलतां गताः ।

देवाः पलायितास्सर्वे गणाश्च सकलास्तदा

॥५८॥

केवलं षण्मुखस्तत्र नापलायत विक्रमी ।

महावीरस्तदा सर्वानावार्य पुरतः स्थितः

॥५९॥

शक्तिद्वयेन तद्युद्धे सर्वे च निष्फलीकृताः ।

सर्वास्त्राणि निकृत्तानि संक्षिप्तान्यमरैर्गणैः 2.4.15.६० ।

येऽव स्थिताश्च ते सर्वे शिवस्यांतिकमागताः ।

देवाः पलायितास्सर्वे गणाश्च सकलास्तदा

॥६१॥

ते सर्वे मिलिताश्चैव मुहुर्नत्वा शिवं तदा ।

अब्रुवन्वचनं क्षिप्रं कोऽयं गणवरः प्रभो

॥६२॥

पुरा चैव श्रुतं युद्धमिदानीं बहुधा पुनः ।

दृश्यते न श्रुतं दृष्टमीदृशं तु कदाचन

॥६३॥

किंचिद्विचार्यतां देव त्वन्यथा न जयो भवेत् ।

त्वमेव रक्षकस्स्वामिन्ब्रह्मांडस्य न संशयः

॥६४॥

ब्रह्मोवाच

इत्येवं तद्वचः श्रुत्वा रुद्रः परमकोपनः ।

कोपं कृत्वा च तत्रैव जगाम स्वगणैस्सह

॥६५॥

देवसैन्यं च तत्सर्वं विष्णुना चक्रिणा सह ।

समुत्सवं महत्कृत्वा शिवस्यानुजगाम ह

॥६६॥

एतस्मिन्नंतरे भक्त्या नमस्कृत्य महेश्वरम् ।

अब्रवीन्नारद त्वं वै देवदेवं कृतांजलिः

॥६७॥

नारद उवाच

देवदेव महादेव शृणु मद्वचनं विभो ।

त्वमेव सर्वगस्स्वामी नानालीलाविशारदः

॥६८॥

त्वया कृत्वा महालीलां गणगर्वोऽपहारितः ।

अस्मै दत्त्वा बलं भूरि देवगर्वश्च शंकर

॥६९॥

दर्शितं भुवने नाथ स्वमेव बलमद्भुतम् ।

स्वतंत्रेण त्वया शंभो सर्वगर्वप्रहारिणा

॥७०॥

इदानीं न कुरुष्वेश तां लीलां भक्तवत्सलः ।

स्वगणानमरांश्चापि सुसन्मान्याभिवर्द्धय

॥७१॥

न खेलयेदानीं जहि ब्रह्मपदप्रद ।

इत्युक्त्वा नारद त्वं वै ह्यंतर्द्धानं गतस्तदा

॥७२॥

इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां च कुमारखण्डे गणेशयुद्धवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥