सुरवधदेवोत्सववर्णनम्
ब्रह्मोवाच
निवार्य वीरभद्रं तं कुमारः परवीरहा ।
समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ
॥१॥जगर्जाथ महातेजाः कार्तिकेयो महाबलः ।
सन्नद्धः सोऽभवत्क्रुद्ध सैन्येन महता वृतः
॥२॥तदा जयजयेत्युक्तं सर्वैर्देर्वेर्गणै स्तथा ।
संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः
॥३॥तारकस्य कुमारस्य संग्रामोऽतीव दुस्सहः ।
जातस्तदा महाघोरस्सर्वभूत भयंकरः
॥४॥शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ।
सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने
॥५॥शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ ।
परस्परं वंचयंतौ सिंहाविव महाबलौ
॥६॥वैतालिकं समाश्रित्य तथा खेचरकं मतम् ।
पापं तं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः
॥७॥एभिर्मंत्रैर्महावीरौ चक्रतुर्युद्धमद्भुतम् ।
अन्योन्यं साधकौ भूत्वा महाबलपराक्रमौ
॥८॥महाबलं प्रकुर्वतौ परस्परवधैषिणौ ।
जघ्नतुश्शक्तिधाराभी रणे रणविशारदौ
॥९॥मूर्ध्नि कंठे तथा चोर्वोर्जान्वोश्चैव कटीतटे ।
वक्षस्युरसि पृष्ठे च चिच्छिदुश्च परस्परम्
॥१०॥तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ।
वल्गन्तौ वीरशब्दैश्च नानायुद्धविशारदौ
॥११॥अभवन्प्रेक्षकास्सर्वे देवा गंधर्वकिन्नराः ।
ऊचुः परस्परं तत्र कोस्मिन्युद्धे विजेष्यते
॥१२॥तदा नभोगता वाणी जगौ देवांश्च सांत्वयन् ।
असुरं तारकं चात्र कुमारोऽयं हनिष्यति
॥१३॥मा शोच्यतां सुरैः सर्वै सुखेन स्थीयतामिति ।
युष्मदर्थं शंकरो हि पुत्ररूपेण संस्थितः
॥१४॥श्रुत्वा तदा तां गगने समीरितां वाचं शुभां सप्रमथेस्समावृतः ।
निहंतुकामः सुखितः कुमारको दैत्याधिपं तारकमाश्वभूत्तदा
॥१५॥शक्त्या तया महाबाहुराजघानस्तनांतरे ।
कुमारः स्म रुषाविष्टस्तारकासुरमोजसा
॥१६॥तं प्रहारमनादृत्य तारको दैत्यपुंगवः ।
कुमारं चापि संक्रुद्धस्स्वशक्त्या संजघान सः
॥१७॥तेन शक्तिप्रहारेण शांकरिर्मूच्छि तोऽभवत् ।
मुहूर्ताच्चेतनां प्राप स्तूयमानो महर्षिभिः
॥१८॥यथा सिंहो मदोन्मत्तो हंतुकामस्तथासुरम् ।
कुमारस्तारकं शक्त्या स जघान प्रतापवान्
॥१९॥एवं परस्परं तौ हि कुमारश्चापि तारकः ।
युयुधातेऽतिसंरब्धौ शक्तियुद्धविशारदौ
॥२०॥अभ्यासपरमावास्तामन्योन्यं विजिगीषया ।
पदातिनौ युध्यमान्नौ चित्ररूपौ तरस्विनौ
॥२१॥विविधैर्घातपुंजैस्तावन्योन्यं विनि जघ्नतुः ।
नानामार्गान्प्रकुर्वन्तौ गर्जंतौ सुपराक्रमौ
॥२२॥अवलोकपरास्सर्वे देवगंधर्वकिन्नराः ।
विस्मयं परमं जग्मुर्नोचुः किंचन तत्र ते
॥२३॥न ववौ पवमानश्च निष्प्रभोऽभूद्दिवाकरः ।
चचाल वसुधा सर्वा सशैलवनकानना
॥२४॥एतस्मिन्नंतरे तत्र हिमालयमुखा धराः ।
स्नेहार्दितास्तदा जग्मुः कुमारं च परीप्सवः
॥२५॥ततस्स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः ।
पर्वतान्गिरिजापुत्रो बभाषे परिबोधयन्
॥२६॥कुमार उवाच
मा खिद्यतां महाभागा मा चिंतां कुर्वतां नगाः ।
घातयाम्यद्य पापिष्ठं सर्वेषां वः प्रपश्य ताम्
॥२७॥एवं समाश्वास्य तदा पर्वतान्निर्जरान्गणान् ।
प्रणम्य गिरिजां शंभुमाददे शक्तिमुत्प्रभाम्
॥२८॥तं तारकं हंतुमनाः करशक्तिर्महाप्रभुः ।
विरराज महावीरः कुमारश्शंभुबालकः
॥२९॥शक्त्या तया जघानाथ कुमारस्तारकासुरम् ।
तेजसाढ्यश्शंकरस्य लोकक्लेशकरं च तम्
॥३०॥पपात सद्यस्सहसा विशीर्णांगोऽसुरः क्षितौ ।
तारकाख्यो महावीरस्सर्वासुरगणाधिपः
॥३१॥कुमारेण हतस्सोतिवीरस्स खलु तारकः ।
लयं ययौ च तत्रैव सर्वेषां पश्यतां मुने
॥३२॥तथा तं पतितं दृष्ट्वा तारकं बलवत्तरम् ।
न जघान पुनर्वीरस्स गत्वा व्यसुमाहवे
॥३३॥हते तस्मिन्महादैत्ये तारकाख्ये महाबले ।
क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा
॥३४॥केचिद्भीताः प्रांजलयो बभूवुस्तत्र चाहवे ।
छिन्नभिन्नांगकाः केचिन्मृता दैत्यास्सहस्रशः
॥३५॥केचिज्जाताः कुमारस्य शरणं शरणार्थिनः ।
वदन्तः पाहि पाहीति दैत्याः सांजलयस्तदा
॥३६॥कियंतश्च हतास्तत्र कियंतश्च पलायिताः ।
पलायमाना व्यथिता स्ताडिता निर्ज्जरैर्गणैः
॥३७॥सहस्रशः प्रविष्टास्ते पाताले च जिजीषवः ।
पलायमानास्ते सर्वे भग्नाशा दैन्यमागताः
॥३८॥एवं सर्वं दैत्यसैन्यं भ्रष्टं जातं मुनीश्वर ।
न केचित्तत्र संतस्थुर्गणदेवभयात्तदा
॥३९॥आसीन्निष्कंटकं सर्वं हते तस्मिन्दुरात्मनि ।
ते देवाः सुखमापन्नास्सर्वे शक्रादयस्तदा
॥४०॥एवं विजयमापन्नं कुमारं निखिलास्सुराः ।
बभूवुर्युगपद्धृष्टास्त्रिलोकाश्च महासुखा
॥४१॥तदा शिवोऽपि तं ज्ञात्वा विजयं कार्तिकस्य च ।
तत्राजगाम स मुदा सगणः प्रियया सह
॥४२॥स्वात्मजं स्वांकमारोप्य कुमारं सूर्यवर्चसम् ।
लालयामास सुप्रीत्या शिवा च स्नेहसंकुला
॥४३॥हिमालयस्तदागत्य स्वपुत्रैः परिवारितः ।
सबंधुस्सानुगश्शंभुं तुष्टाव च शिवां गुहम्
॥४४॥ततो देवगणास्सर्वे मुनयस्सिद्धचारणाः ।
तुष्टुवुश्शांकरिं शंभुं गिरिजां तुषितां भृशम्
॥४५॥पुष्पवृष्टिं सुमहतीं चक्रुश्चोपसुरास्तदा ।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः
॥४६॥वादित्राणि तथा नेदुस्तदानीं च विशेषतः ।
जयशब्दो नमः शब्दो बभूवोच्चैर्मुहुर्मुहुः
॥४७॥ततो मयाच्युतश्चापि संतुष्टोभूद्विशेषतः ।
शिवं शिवां कुमारं च संतुष्टाव समादरात्
॥४८॥कुमारमग्रतः कृत्वा हरिकेन्द्रमुखास्सुराः ।
चक्रुर्नीराजनं प्रीत्या मुनयश्चापरे तथा
॥४९॥गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।
तदोत्सवो महानासीत्कीर्तनं च विशेषतः
॥५०॥गीतवाद्यैस्सुप्रसन्नैस्तथा साञ्जलिभिर्मुने ।
स्तूयमानो जगन्नाथस्सर्वैर्दैवैर्गणैरभूत
॥५१॥ततस्स भगवान्रुद्रो भवान्या जगदंबया ।
सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृतः
॥५२॥इति श्री शिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारका सुरवधदेवोत्सववर्णनं नाम दशमोऽध्यायः ॥ १० ॥