तवर्णनम्
ब्रह्मोवाच
अथ तत्र स गांगेयो दर्शयामास सूतिकाम् ।
तामेव शृणु सुप्रीत्या नारद त्वं स्वभक्तिदाम्
॥१॥द्विज एको नारदाख्य आजगाम तदैव हि ।
तत्राध्वरकरः श्रीमाञ्शरणार्थं गुहस्य वै
॥२॥स विप्रः प्राप्य निकटं कार्त्तिकस्य प्रसन्नधीः ।
स्वाभिप्रायं समाचख्यौ सुप्रणम्य शुभैः स्तवैः
॥३॥विप्र उवाच
शृणु स्वामिन्वचो मेद्य कष्टं मे विनिवारय ।
सर्वब्रह्मांडनाथस्त्वमतस्ते शरणं गतः
॥४॥अजमेधाध्वरं कर्तुमारंभं कृतवानहम् ।
सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबंधनम्
॥५॥न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु ।
न प्राप्तोऽतस्स बलवान् भंगो भवति मे क्रतोः
॥६॥त्वयि नाथे सति विभो यज्ञभंगः कथं भवेत् ।
विचार्य्यैवाऽखिलेशान काम पूर्णं कुरुष्व मे
॥७॥त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो ।
सर्वब्रह्मांडनाथं हि सर्वामरसुसेवितम्
॥८॥दीनबंधुर्दयासिन्धुस्सुसेव्या भक्तवत्सलः ।
हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः
॥९॥पार्वतीनन्दनस्स्कन्दः परमेकः परंतपः ।
परमात्माऽत्मदस्स्वामी सतां च शरणार्थिनाम्
॥१०॥दीनानाथ महेश शंकरसुत त्रैलोक्यनाथ प्रभो मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय ।
त्वं सर्वप्रभुप्रियः खिलविदब्रह्मादिदेवैस्तुतस्त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः
॥११॥भक्तप्राणगुणाकरस्त्रिगुणतो भिन्नोसि शंभुप्रियः शंभुः शंभुसुतः प्रसन्नसुखदस्सच्चित्स्वरूपो महान् ।
सर्वज्ञस्त्रिपुरघ्नशंकरसुतः सत्प्रेमवश्यस्सदा षड्वक्त्रः प्रियसाधुरानतप्रियस्सर्वेश्वर श्शंकरः ।
साधुद्रोहकरघ्न शंकरगुरो ब्रह्मांडनाथो प्रभुः सर्वेषाममरादिसेवितपदो मां पाहि सेवाप्रिय
॥१२॥वैरिभयंकर शंकर जनशरणस्य वन्दे तव पदपद्मं सुखकरणस्य ।
विज्ञप्तिं मम कर्णे स्कन्द निधेहि निजभक्तिं जनचेतसि सदा विधेहि
॥१३॥करोति किं तस्य बली विपक्षो दक्षोऽपि पक्षोभयापार्श्वगुप्तः ।
किन्तक्षकोप्यामिषभक्षको वा त्वं रक्षको यस्य सदक्षमानः
॥१४॥विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात्कथय कथमहं स्यां मंदबुद्धिर्वरार्च्यः ।
शुचिरशुचिरनार्यो यादृशस्तादृशो वा पदकमल परागं स्कन्द ते प्रार्थयामि
॥१५॥हे सर्वेश्वर भक्तवत्सल कृपासिन्धो त्वदीयोऽस्म्यहं भृत्यस्स्वस्य न सेवकस्य गणपस्याऽऽ गश्शतं सत्प्रभो ।
भक्तिं क्वापि कृतां मनागपि विभो जानासि भृत्यार्तिहा ।
त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः
॥१६॥कल्याणकर्त्ता कलिकल्मषघ्नः कुबेरबन्धुः करुणार्द्रचित्तः ।
त्रिषट्कनेत्रो रसवक्त्रशोभी यज्ञं प्रपूर्णं कुरु मे गुह त्वम्
॥१७॥रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः ।
यज्ञकर्त्ता यज्ञभर्त्ता हरसे विघ्नकारिणाम्
॥१८॥विघ्नवारण साधूनां सर्ग कारण सर्वतः ।
पूर्णं कुरु ममेशान सुतयज्ञ नमोस्तु ते
॥१९॥सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि ।
सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः
॥२०॥संगीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः ।
सर्वस्थाता विधाता त्वं देवदेवस्सतां गतिः
॥२१॥भवानीनन्दनश्शंभुतनयो वयुनः स्वराट् ।
ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम्
॥२२॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य देवसम्राट् शिवात्मजः ।
स्वगणं वीरबाह्वाख्यं प्रेषयामास तत्कृते
॥२३॥तदाज्ञया वीरबाहुस्तदन्वेषणहेतवे ।
प्रणम्य स्वामिनं भक्त्या महावीरो द्रुतं ययौ
॥२४॥अन्वेषणं चकारासौ सर्वब्रह्माण्डगोलके ।
न प्राप तमजं कुत्र शुश्राव तदुपद्रवम्
॥२५॥जगामाऽथ स वैकुंठं तत्राऽजं प्रददर्श तम् ।
उपद्रवं प्रकुर्वन्तं गलयूपं महाबलम्
॥२६॥धृत्वा तं शृंगयो वीरो धर्षयित्वा तिवेगतः ।
आनिनाय स्वामिपुरो विकुर्वंतं रवं बहु
॥२७॥दृष्ट्वा तं कार्तिकस्सोऽरमारुरोह स तं प्रभुः ।
धृतब्रह्माण्डगरिमा महासूतिकरो गुहः
॥२८॥मुहूर्तमात्रतस्सोऽजो ब्रह्मांडं सकलं मुने ।
बभ्राम श्रम एवाशु पुनस्तत्स्थानमागतः
॥२९॥तत उत्तीर्य स स्वामी समुवास स्वमासनम् ।
सोऽजः स्थितस्तु तत्रैव स नारद उवाच तम्
॥३०॥नारद उवाच
नमस्ते देव देवेश देहि मेऽजं कृपानिधे ।
कुर्यामध्वरमानन्दात्सखायं कुरु मामहो
॥३१॥कार्त्तिक उवाच
वधयोग्यो न विप्राऽजः स्वगृहं गच्छ नारद ।
पूर्णोऽस्तु तेऽध्वरस्सर्वः प्रसादादेव मे कृतः
॥३२॥ब्रह्मोवाच
इत्याकर्ण्य द्विजस्स्वामी वचनं प्रीतमानसः ।
जगाम स्वालयं दत्त्वा तस्मा आशिषमुत्तमाम्
॥३३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे कुमाराऽद्भुतचरि तवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥