मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय ९

3
रुद्रसंहिता · कुमारखण्डः · 9

रभद्रयुद्धवर्णनम्

ब्रह्मोवाच

देवदेव गुह स्वामिञ्शांकरे पार्वतीसुत ।

न शोभते रणो विष्णु तारकासुरयोर्वृथा

॥१॥

विष्णुना न हि वध्योऽसौ तारको बलवानति ।

मया दत्तवरस्तस्मात्सत्यं सत्यं वदाम्यहम्

॥२॥

नान्यो हंतास्य पापस्य त्वां विना पार्वतीसुत ।

तस्मात्त्वया हि कर्तव्यं वचनं मे महाप्रभो

॥३॥

सन्नद्धो भव दैत्यस्य वधायाशु परंतप ।

तद्वधार्थं समुत्पन्नः शंकरात्त्वं शिवासुत

॥४॥

रक्ष रक्ष महावीर त्रिदशान्व्यथितान्रणे ।

न बालस्त्वं युवा नैव किं तु सर्वेश्वरः प्रभुः

॥५॥

शक्रं पश्य तथा विष्णुं व्याकुलं च सुरान् गणान् ।

एवं जहि महादैत्यं त्रैलोक्यं सुखिनं कुरु

॥६॥

अनेन विजितश्चेन्द्रो लोकपालैः पुरा सह ।

विष्णुश्चापि महावीरो तर्जितस्तपसो बलात्

॥७॥

त्रैलोक्यं निर्जितं सर्वमसुरेण दुरात्मना ।

इदानीं तव सान्निध्यात्पुनर्युद्धं कृतं च तैः

॥८॥

तस्मात्त्वया निहंतव्यस्तारकः पापपूरुषः ।

अन्यवध्यो न चैवायं मद्वराच्छंकरात्मज

॥९॥

ब्रह्मोवाच

इति श्रुत्वा मम वचः कुमारः शंकरात्मजः ।

विजहास प्रसन्नात्मा तथास्त्विति वचोऽब्रवीत्

॥१०॥

विनिश्चित्यासुरवधं शांकरिस्स महा प्रभुः ।

विमानादवतीर्याथ पदातिरभवत्तदा

॥११॥

पद्भ्यां तदासौ परिधावमानो रेजेऽतिवीरः शिवजः कुमारः ।

करे समादाय महाप्रभां तां शक्तिं महोल्कामिव दीप्तिदीप्ताम्

॥१२॥

दृष्ट्वा तमायातमतिप्रचंडमव्याकुलं षण्मुखमप्रमेयम् ।

दैत्यो बभाषे सुरसत्तमान्स कुमार एष द्विषतां प्रहंता

॥१३॥

अनेन साकं ह्यहमेकवीरो योत्स्ये च सर्वानहमेव वीरान् ।

गणांश्च सर्वानपि घातयामि सलोकपालान्हरिनायकांश्च

॥१४॥

इत्येवमुक्त्वा स तदा महाबलः कुमारमुद्दिश्य ययौ च योद्धुम् ।

जग्राह शक्तिं परमाद्भुतां च स तारको देववरान्बभाषे

॥१५॥

तारक उवाच

कुमारो मेऽग्रतश्चाद्य भवद्भिश्च कथं कृतः ।

यूयं गतत्रपा देवा विशेषाच्छक्रमेश्वरौ

॥१६॥

पुरैताभ्यां कृतं कर्म विरुद्धं वेदमार्गतः ।

तच्छृणुध्वं मया प्रोक्तं वर्णयामि विशेषतः

॥१७॥

तत्र विष्णुश्छली दोषी ह्यविवेकी विशे षतः ।

बलिर्येन पुरा बद्धश्छलमाश्रित्य पापतः

॥१८॥

तेनैव यत्नतः पूर्वमसुरौ मधुकैटभौ ।

शिरौहीनौ कृतौ धौर्त्याद्वेदमार्गो विवर्जितः

॥१९॥

मोहिनीरूपतोऽनेन पंक्तिभेदः कृतो हि वै ।

देवासुरसुधापाने वेदमार्गो विगर्हितः

॥२०॥

रामो भूत्वा हता नारी वाली विध्वंसितो हि सः ।

पुनर्वैश्रवणो विप्रौ हतो नीतिर्हता श्रुतेः

॥२१॥

पापं विना स्वकीया स्त्री त्यक्ता पापरतेन यत् ।

तत्रापि श्रुतिमार्गश्च ध्वंसितस्स्वार्थहेतवे

॥२२॥

स्वजनन्याश्शिरश्छिन्नमवतारे रसाख्यके ।

गुरुपुत्रापमानश्च कृतोऽनेन दुरात्मना

॥२३॥

कृष्णो भूत्वान्यनार्यश्च दूषिताः कुलधर्मतः ।

श्रुतिमार्गं परित्यज्य स्वविवाहाः कृतास्तथा

॥२४॥

पुनश्च वेदमार्गो हि निंदितो नवमे भवे ।

स्थापितं नास्तिकमतं वेदमार्गविरोधकृत्

॥२५॥

एवं येन कृतं पापं वेदमार्गं विसृज्य वै ।

स कथं विजयेद्युद्धे भवेद्धर्मवतांवरः

॥२६॥

भ्राता ज्येष्ठश्च यस्तस्य शक्रः पापी महान्मतः ।

तेन पापान्यनेकानि कृतानि निजहेतुतः

॥२७॥

निकृत्तो हि दितेर्गर्भस्स्वार्थ हेतोर्विशेषतः ।

धर्षिता गौतमस्त्री वै हतो वृत्रश्च विप्रजः

॥२८॥

विश्वरूपद्विजातेर्वै भागिनेयस्य यद्गुरोः ।

निकृत्तानि च शीर्षाणि तदध्वाध्वंसितश्श्रुतेः

॥२९॥

कृत्वा बहूनि पापानि हरिश्शक्रः पुनःपुनः ।

तेजोभिर्विहतावेव नष्टवीर्यौ विशेषतः

॥३०॥

तयोर्बलेन नो यूयं संग्रामे जयमाप्स्यथ ।

किमर्थं मूढतां प्राप्य प्राणांस्त्यक्तुमिहागताः

॥३१॥

जानन्तौ धर्ममेतौ न स्वार्थलंपटमानसौ ।

धर्मं विनाऽमराः कृत्यं निष्फलं सकलं भवेत्

॥३२॥

महाधृष्टाविमौ मेद्य कृतवंतौ पुरश्शिशुम् ।

अहं बालं वधिष्यामि तयोस्सोऽपि भविष्यति

॥३३॥

किं बाल इतो यायाद्दूरं प्राणपरीप्सया ।

इत्युक्तोद्दिश्य च हरी वीरभद्रमुवाच सः

॥३४॥

पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः ।

तत्कर्मणः फलं चाद्य दर्शयिष्यामि तेऽनघ

॥३५॥

ब्रह्मोवाच

इत्येवमुक्त्वा तु विधूय पुण्यं निजं स तन्निंदनकर्मणा वै ।

जग्राह शक्तिं परमाद्भुतां च स तारको युद्धवतां वरिष्ठः

॥३६॥

तं बालान्तिकमायातं तारकासुरमोजसा ।

आजघान च वज्रेण शक्रो गुहपुरस्सरः

॥३७॥

तेन वज्रप्रहारेण तारको जर्जरीकृतः ।

भूमौ पपात सहसा निंदाहतबलः क्षणम्

॥३८॥

पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्रुषा ।

पुरंदरं गजस्थं हि पातयामास भूतले

॥३९॥

हाहाकारो महानासीत्पतिते च पुरंदरे ।

सेनायां निर्जराणां हि तद्दृष्ट्वा क्लेश आविशत्

॥४०॥

तारकेणाऽपि तत्रैव यत्कृतं कर्म दुःखदम् ।

स्वनाशकारणं धर्मविरुदं तन्निबोध मे

॥४१॥

पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य वै।

पुनरुद्वज्रघातेन शक्रमाताडयद्भृशम्

॥४२॥

एवं तिरस्कृतं दृष्ट्वा शक्रविष्णुप्रतापवान् ।

चक्रमुद्यस्य भगवांस्तारकं स जघान ह

॥४३॥

चक्रप्रहाराभितो निपपात क्षितौ हि सः ।

पुनरुत्थाय दैत्येन्द्रशक्त्या विष्णुं जघान तम्

॥४४॥

तेन शक्तिप्रहारेण पतितो भुवि चाच्युतः ।

करो महानासीच्चुक्रुशुश्चाऽतिनिर्जराः

॥४५॥

निमेषेण पुनर्विष्णुर्यावदुत्तिष्ठते स्वयम् ।

तावत्स वीरभद्रो हि तत्क्षणादागतोऽसुरम्

॥४६॥

त्रिशूलं च समुद्यम्य वीरभद्रः प्रतापवान् ।

तारकं दितिजाधीशं जघान प्रसभं बली

॥४७॥

तत्त्रिशूलप्रहारेण स पपात क्षितौ तदा ।

पतितोऽपि महातेजास्तारकः पुनरुत्थितः

॥४८॥

कृत्वा क्रोधं महावीरस्सकलासुरनायकः ।

जघान परया शक्त्या वीरभद्रं तदोरसि

॥४९॥

वीरभद्रोऽपि पतितो भूतले मूर्छितः क्षणम् ।

तच्छक्त्या परया क्रोधान्निहतो वक्षसि धुवम्

॥५०॥

सगणश्चैव देवास्ते गंधर्वोरगराक्षसाः ।

हाहाकारेण महता चुक्रुशुश्च मुहुर्मुहुः

॥५१॥

निमेषमात्रात्सहसा महौजास्स वीरभद्रो द्विषतां निहंता ।

त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया विरेजे

॥५२॥

स्वरोचिषा भासितदिग्वितानं सूर्येन्दुबिम्बाग्निसमानमंडलम् ।

महाप्रभं वीरभयावहं परं कालाख्यमत्यंतकरं महोज्ज्वलम्

॥५३॥

यावत्त्रिशूलेन तदा हंतुकामो महाबलः ।

वीरभद्रोऽसुरं यावत्कुमारेण निवारितः

॥५४॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे तारकवाक्यशक्रविष्णुवी रभद्रयुद्धवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥