कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनम्
नारद उवाच
देवदेव प्रजानाथ ततः किमभवद्विधे ।
वदेदानीं कृपातस्तु शिवलीलासमन्वितम्
॥१॥ब्रह्मोवाच
कृत्तिकाभिर्गृहीते वै तस्मिञ्शंभुसुते मुने ।
कश्चित्कालो व्यतीयाय बुबुधे न हिमाद्रिजा
॥२॥तस्मिन्नवसरे दुर्गा स्मेराननसरोरुहा ।
उवाच स्वामिनं शंभुं देवदेवेश्वरं प्रभुम्
॥३॥पार्वत्युवाच
देवदेव महादेव शृणु मे वचनं शुभम् ।
पूर्वपुण्यातिभारेण त्वं मया प्राप्त ईश्वर
॥४॥कृपया योगिषु श्रेष्ठो विहारैस्तत्परोऽभवः ।
रतिभंगः कृतो देवैस्तत्र मे भवता भव
॥५॥भूमौ निपतितं वीर्यं नोदरे मम ते विभो ।
कुत्र यातं च तद्देव केन दैवेन निह्णुतम्
॥६॥कथं मत्स्वामिनो वीर्यममोघं ते महेश्वर ।
मोघं यातं च किं किंवा शिशुर्जातश्च कुत्रचित्
॥७॥ब्रह्मोवाच
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ।
उवाच देवानाहूय मुनींश्चापि मुनीश्वर
॥८॥महेश्वर उवाच
देवाः शृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ।
अमोघं कुत्र मे वीर्यं यातं केन च निह्नुतम्
॥९॥सभयं नापतत्क्षिप्रं स चेद्दंडं न चार्हति ।
शक्तौ राजा न शास्ता यः प्रजाबाध्यश्च भक्षकः
॥१०॥शंभोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ।
ऊचुस्सर्वे क्रमेणैव त्रस्तास्तु पुरतः प्रभोः
॥११॥विष्णुरुवाच
ते मिथ्यावादिनस्संतु भारते गुरुदारिकाः ।
गुरुनिन्दारताश्शश्वत्त्वद्वीर्यं यैश्च निह्नुतम्
॥१२॥ब्रह्मोवाच
त्वद्वीर्यं निह्नुतं येन पुण्यक्षेत्रे च भारते ।
स नाऽन्वितो भवेत्तत्र सेवने पूजने तव
॥१३॥लोकपाला ऊचुः
त्वदवीर्यं निह्नुतं येन पापिना पतितभ्रमात् ।
भाजनं तस्य सोत्यन्तं तत्तपं कर्म संततिम्
॥१४॥देवा ऊचुः
कृत्वा प्रतिज्ञां यो मूढो नाऽऽपादयति पूर्णताम् ।
भाजनं तस्य पापस्य त्वद्वीर्यं येन निह्नुतम्
॥१५॥देवपत्न्य ऊचुः
या निदति स्वभर्तारं परं गच्छति पूरुषम् ।
मातृबन्धुविहीना च त्वद्वीर्यं निह्नुतं यया
॥१६॥ब्रह्मोवाच
देवानां वचनं श्रुत्वा देवदेवेश्वरो हरः ।
कर्म्मणां साक्षिणश्चाह धर्मादीन्सभयं वचः
॥१७॥श्रीशिव उवाच
देवैर्न निह्नुतं केन तद्वीर्यं निह्नुतं ध्रुवम् ।
तदमोघं भगवतो महेशस्य मम प्रभोः
॥१८॥यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ।
युष्माकं निह्नुतं किम्वा किं ज्ञातुं वक्तुमर्हथ
॥१९॥ब्रह्मोवाच
ईश्वरस्य वचः श्रुत्वा सभायां कंपिताश्च ते ।
परस्परं समालोक्य क्रमेणोचुः पुराः प्रभोः
॥२०॥ब्रह्मोवाच
रते तु तिष्ठतो वीर्यं पपात वसुधातले ।
मया ज्ञातममोघं तच्छंकरस्य प्रकोपतः
॥२१॥क्षितिरुवाच
वीर्यं सोढुमशक्ताहं तद्वह्नो न्यक्षिपं पुरा ।
अतोऽत्र दुर्वहं ब्रह्मन्नबलां क्षंतुमर्हसि
॥२२॥वह्निरुवाच
वीर्यं सोढुमशक्तोहं तव शंकर पर्वते ।
कैलासे न्यक्षिपं सद्यः कपोतात्मा सुदुस्सहम्
॥२३॥गिरिरुवाच
वीर्यं सोढुमशक्तोऽहं तव शंकर लोकप ।
गंगायां प्राक्षिपं सद्यो दुस्सहं परमेश्वर
॥२४॥गंगोवाच
वीर्यं सोढुमशक्ताहं तव शंकर लोकप ।
व्याकुलाऽति प्रभो नाथ न्यक्षिपं शरकानने
॥२५॥वायुरुवाच
शरेषु पतितं वीर्यं सद्यो बालो बभूव ह ।
अतीव सुन्दरश्शम्भो स्वर्नद्याः पावने तटे
॥२६॥सूर्य उवाच
रुदंतं बालकं दृष्ट्वा गममस्ताचलं प्रभो ।
प्रेरितः कालचक्रेण निशायां स्थातुमक्षमः
॥२७॥चन्द्र उवाच
रुदंतं बालकं प्राप्य गृहीत्वा कृत्तिकागणः ।
जगाम स्वालयं शंभो गच्छन्बदरिकाश्रमम्
॥२८॥जलमुवाच
अमुं रुदंतमानीय स्तन्यपानेन ताः प्रभो ।
वर्द्धयामासुरीशस्य सुतं तव रविप्रभम्
॥२९॥संध्योवाच
अधुना कृत्तिकानां च वनं तम्पोष्य पुत्रकम् ।
तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतुकात्
॥३०॥रात्रिरुवाच
न चक्रुर्बालकं ताश्च लोचनानामगोचरम् ।
प्राणेभ्योपि प्रीतिपात्रं यः पोष्टा तस्य पुत्रकः
॥३१॥दिनमुवाच
यानि यानि च वस्त्राणि भूषणानि वराणि च ।
प्रशंसितानि स्वादूनि भोजयामासुरेव तम्
॥३२॥ब्रह्मोवाच
तेषां तद्वचनं श्रुत्वा संतुष्टः पुरसूदनः ।
मुदं प्राप्य ददौ प्रीत्या विप्रेभ्यो बहुदक्षिणाम्
॥३३॥पुत्रस्य वार्त्तां संप्राप्य पार्वती हृष्टमानसा ।
कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च
॥३४॥लक्ष्मी सरस्वती मेना सावित्री सर्वयोषितः ।
विष्णुस्सर्वे च देवाश्च ब्राह्मणेभ्यो ददुर्धनम्
॥३५॥प्रेरितस्स प्रभुर्देवैर्मुनिभिः पर्वतैरथ ।
दूतान् प्रस्थापयामास स्वपुत्रो यत्र तान् गणान्
॥३६॥वीरभद्रं विशालाक्षं शंकुकर्णं कराक्रमम् ।
नन्दीश्वरं महाकालं वज्रदंष्ट्रं महोन्मदम्
॥३७॥गोकर्णास्यं दधिमुखं ज्वलदग्निशिखोपमम् ।
लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम्
॥३८॥रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ।
अन्यांश्च विकृताकारानसंख्यानपि नारद
॥३९॥ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ।
कृत्तिकानां च भवनं वेष्टयामासुरुद्धताः
॥४०॥दृष्ट्वा तान् कृत्तिकास्सर्वा भयविह्नलमानसाः ।
कार्त्तिकं कथयामासुर्ज्वलंतं ब्रह्मतेजसा
॥४१॥कृत्तिका ऊचुः
वत्स सैन्यान्यसंख्यानि वेष्टयामासुरालयम् ।
किं कर्तव्यं क्व गंतव्यं महाभयमुपस्थितम्
॥४२॥कार्तिकेय उवाच
भयं त्यजत कल्याण्यो भयं किं वा मयि स्थिते ।
दुर्निवार्योऽस्मि बालश्च मातरः केन वार्यते
॥४३॥ब्रह्मोवाच
एतस्मिन्नंतरे तत्र सैन्येन्द्रो नन्दिकेश्वरः ।
पुरतः कार्तिकेयस्योपविष्टस्समुवाच ह
॥४४॥नन्दीश्वर उवाच
भ्रातः प्रवृत्तिं शृणु मे मातरश्च शुभावहाम् ।
प्रेरितोऽहं महेशेन संहर्त्रा शंकरेण च
॥४५॥कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ।
सभायां संस्थितास्तात महत्युत्सवमंगले
॥४६॥तदा शिवा सभायां वै शंकरं सर्व शंकरम् ।
सम्बोध्य कथयामास तवान्वेषणहेतुकम्
॥४७॥पप्रच्छ ताञ्शिवो देवान् क्रमात्त्वत्प्राप्तिहेतवे ।
प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम्
॥४८॥त्वामत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ।
सर्वे धर्मादयो धर्माधर्मस्य कर्मसाक्षिणः
॥४९॥प्रबभूव रहः क्रीडा पार्वतीशिवयोः पुरा ।
दृष्टस्य च सुरैश्शंभोर्वीर्यं भूमौ पपात ह
॥५०॥भूमिस्तदक्षिपद्वह्नौ वह्निश्चाद्रौ स भूधरः ।
गंगायां सोऽक्षिपद्वेगात् तरंगैश्शरकानने
॥५१॥तत्र बालोऽभवस्त्वं हि देवकार्यकृति प्रभुः ।
तत्र लब्धः कृत्तिकाभिस्त्वं भूमिं गच्छ सांप्रतम्
॥५२॥तवाभिषेकं शंभुस्तु करिष्यति सुरैस्सह ।
लप्स्यसे सर्वशस्त्राणि तारकाख्यं हनिष्यसि
॥५३॥पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां प्राप्तुञ्चाऽक्षमा इमाः ।
नाग्निं गोप्तुं यथा शक्तश्शुष्कवृक्षस्स्व कोटरे
॥५४॥दीप्तवांस्त्वं च विश्वेषु नासां गेहेषु शोभसे ।
यथा पतन्महाकूपे द्विजराजो न राजत
॥५५॥करोषि च यथाऽलोकं नाऽऽच्छन्नोऽस्मासु तेजसा ।
यथा सूर्यः कलाछन्नो न भवेन्मानवस्य च
॥५६॥विष्णुस्त्वं जगतां व्यापी नान्यो जातोसि शांभव ।
यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः
॥५७॥योगीन्द्रो नाऽनुलिप्तश्च भागी चेत्परिपोषणे ।
नैव लिप्तो यथात्मा च कर्मयोगेषु जीविनाम्
॥५८॥विश्वारंभस्त्वमीशश्च नासु ते संभवेत् स्थितिः ।
गुणानां तेजसां राशिर्यथात्मानं च योगिनः
॥५९॥भ्रातर्ये त्वां न जानंति ते नरा हतबुद्धयः ।
नाद्रियन्ते यथा भेकास्त्वेकवासाश्च पंकजान्
॥६०॥कार्त्तिकेय उवाच
भ्रातस्सर्वं विजानासि ज्ञानं त्रैकालिकं च यत् ।
ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः
॥६१॥कर्मणां जन्म येषां वा यासु यासु योनिषु ।
तासु ते निर्वृतिं भ्रातः प्राप्नुवंतीह सांप्रतम्
॥६२॥कृत्तिका ज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ।
स्तन्येनासां वर्द्धितोऽहमुपकारेण संततम्
॥६३॥आसामहं पोष्यपुत्रो मदंशा योषितस्त्विमाः ।
तस्याश्च प्रकृतेरंशास्ततस्तत्स्वामिवीर्यजः
॥६४॥न मद्भंगो हे शैलेन्द्रकन्यया नन्दिकेश्वर ।
सा च मे धर्मतो माता यथेमास्सर्वसंमताः
॥६५॥शम्भुना प्रेषितस्त्वं च शंभोः पुत्रसमो महान् ।
आगच्छामि त्वया सार्द्धं द्रक्ष्यामि देवताकुलम्
॥६६॥इत्येवमुक्त्वा तं शीघ्रं संबोध्य कृत्तिकागणम् ।
कार्त्तिकेयः प्रतस्थे हि सार्द्धं शंकरपार्षदैः
॥६७॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥