कुमाराभिषेकवर्णनम्
ब्रह्मोवाच
एतस्मिन्नंतरे तत्र ददर्श रथमुत्तमम् ।
अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम्
॥१॥शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ।
प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः
॥२॥समारोहत्ततोऽनंतो हृदयेन विदूयता ।
कार्त्तिकः परम ज्ञानी परमेशानवीर्यजः
॥३॥तदैव कृत्तिकाः प्राप्य मुक्तकेश्यश्शुचाऽऽतुराः ।
उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः
॥४॥कृत्तिका ऊचुः
विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः ।
नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत्
॥५॥स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः ।
किं कुर्मः क्व च यास्यामो वयं किं करवाम ह
॥६॥इत्युक्त्वा कृत्तिकास्सर्वाः कृत्वा वक्षसि कार्त्तिकम् ।
द्रुतं मूर्च्छामवापुस्तास्सुतविच्छेदकारणात्
॥७॥ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै ।
ताभिश्च पार्षदैस्सार्द्धमारुरोह रथं मुने
॥८॥दृष्ट्वा श्रुत्वा मंगलानि बहूनि सुखदानि वै ।
कुमारः पार्षदैस्सार्द्धं जगाम पितृमन्दिरम्
॥९॥दक्षेण नंदियुक्तश्च मनोयायिरथेन च ।
कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके
॥१०॥तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह ।
कुमारश्शांकरिः प्रीतो नानालीलाविशारदः
॥११॥तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः ।
विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम्
॥१२॥तदा दृष्ट्वा च गांगेयं ययौ प्रमुदितश्शिवः ।
अन्यैस्समेतो हरिणा ब्रह्मणा च सुरर्षिभिः
॥१३॥शंखाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः ।
उत्सवस्तु महानासीद्देवानां तुष्टचेतसाम्
॥१४॥तदानीमेव तं सर्वे वीरभद्रादयो गणाः ।
कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः
॥१५॥स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् ।
जयशब्दं नमश्शब्दं कुर्वाणाः प्रीतमानसाः
॥१६॥द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम्
॥१७॥पार्वती मंगलं चक्रे राजमार्गं मनोहरम् ।
पद्मरागादिमणिभिस्संस्कृतं परितः पुरम्
॥१८॥पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विता ।
लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ
॥१९॥रम्भाद्यप्सरसो दिव्यास्स स्मिता वेषसंयुताः ।
संगीतनर्तनपरा बभूवुश्च शिवाज्ञया
॥२०॥ये तं समीक्षयामासुर्गागेयं शंकरोपमम् ।
ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये
॥२१॥तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् ।
ववंदिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम्
॥२२॥जहुर्षुर्विनतस्कंधा नमश्शब्दरतास्तदा ।
परिवार्योपतस्थुस्ते वामदक्षिणमागताः
॥२३॥अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः ।
दण्डवत्पतिता भूमौ परिवार्य्य कुमारकम्
॥२४॥एतस्मिन्नन्तरे शंभुर्गिरिजा च मुदान्विता ।
महोत्सवं समागम्य ददर्श तनयं मुदा
॥२५॥पुत्रं निरीक्ष्य च तदा जगदेकबंधुः प्रीत्यान्वितः परमया परया भवान्या ।
स्नेहान्वितो भुजगभोगयुतो हि साक्षात्सर्वेश्वरः परिवृतः प्रमथैः परेशः २६ ।
अथ शक्तिधरः स्कन्दौ दृष्ट्वा तौ पार्वतीशिवौ ।
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह
॥२७॥उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शंकरः ।
जघ्रौ प्रेम्णा परमेशानः प्रसन्नः स्नेहकर्तृकः
॥२८॥उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा ।
प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता
॥२९॥तदा नीराजितो देवैस्सकलत्रैर्मुदान्वितैः ।
जयशब्देन महता व्याप्तमासीन्नभस्तलम्
॥३०॥ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः ।
वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम्
॥३१॥स्वमंकमारोप्य तदा महेशः कुमारकं तं प्रभया समुज्ज्वलम् ।
बभौ भवानीपतिरेव साक्षाच्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः
॥३२॥कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् ।
शिवाज्ञया महोत्साहैस्सह देवैर्महासुखी
॥३३॥दंपती तौ तदा तत्रैकपद्येन विरेजतुः ।
विवंद्यमानावृषिभिरावृतौ सुरसत्तमैः
॥३४॥कुमारः क्रीडयामास शिवोत्संगे मुदान्वितः ।
वासुकिं शिवकंठस्थं पाणिभ्यां समपीडयत्
॥३५॥प्रहस्य भगवाञ् शंभुश्शशंस गिरिजां तदा ।
निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम्
॥३६॥मदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदं च परमां गिरिजासमेतः ।
प्रेम्णा स गद्गदगिरो जगदेकबंधुर्नोवाच किंचन विभुर्भुवनैकभर्त्ता
॥३७॥अथ शंभुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् ।
रत्नसिंहासने रम्ये वासयामास कार्त्तिकम्
॥३८॥वेदमंत्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः ।
सद्रत्नकुंभशतकैः स्नापया मास तं मुदा
॥३९॥सद्रत्नसाररचितकिरीटमुकुटांगदम् ।
वैजयन्ती स्वमालां च तस्मै चक्रं ददौ हरिः
॥४०॥शूलं पिनाकं परशुं शक्ति पाशुपतं शरम् ।
संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः
॥४१॥अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् ।
कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम्
॥४२॥गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः ।
श्वेतच्छत्रं रत्नमालां ददौ वस्तुं जलेश्वरः
॥४३॥मनोयायिरथं सूर्यस्सन्नाहं च महाचयम् ।
यमदंडं यमश्चैव सुधाकुंभं सुधानिधिः
॥४४॥हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे ।
ददौ स्वशस्त्रं निर्ऋतिर्वायव्यास्त्रं समीरणः
॥४५॥गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा ।
नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा
॥४६॥कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः ।
गदां ददौ स्वविद्याश्च तस्मै च परया मुदा
॥४७॥क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम् ।
हिमालयो हि दिव्यानि भूषणान्यंशुकानि च
॥४८॥चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ ।
अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम्
॥४९॥पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् ।
ददौ तस्मै महाप्रीत्या चिरंजीवित्वमेव च
॥५०॥लक्ष्मीश्च संपदं दिव्यां महाहारं मनोहरम् ।
सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा
॥५१॥अन्याश्चापि मुने देव्यो यायास्तत्र समागताः ।
स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः
॥५२॥महामहोत्सवस्तत्र बभूव मुनिसत्तम ।
सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ
॥५३॥एतस्मिन्नंतरे काले प्रोवाच प्रहसन् मुदा ।
मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान्
॥५४॥शिव उवाच
हे हरे हे विधे देवास्सर्वे शृणुत मद्वचः ।
सर्वथाहं प्रसन्नोस्मि वरान्वृणुत ऐच्छिकान्
॥५५॥ब्रह्मोवाच
तच्छ्रुत्वा वचनं शंभोर्मुनेविष्ण्वादयस्सुराः ।
सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम्
॥५६॥कुमारेण हतो ह्येष तारको भविता प्रभो ।
तदर्थमेव संजातमिदं चरितमुत्तमम्
॥५७॥तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यता ।
आज्ञां देहि कुमाराय स तं हंतुं सुखाय नः
॥५८॥ब्रह्मोवाच
तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा ।
देवेभ्यस्तारकं हंतुं कृपया परिभावितः
॥५९॥शिवाज्ञया सुरास्सर्वे ब्रह्मविष्णुमुखास्तदा ।
पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः
॥६०॥बहिर्निस्सृत्य कैलासात्त्वष्टा शासनतो हरेः ।
विरेचे नगरं रम्यमद्भुतं निकटे गिरेः
॥६१॥तत्र रम्यं गृहं दिव्यमद्भुतं परमो ज्ज्वलम् ।
गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम्
॥६२॥तदा हरिस्सुधीर्भक्त्या कारयामास मंगलम् ।
कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैस्सुरैः
॥६३॥सर्वथा समलंकृत्य वासयामास संग्रहम् ।
कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम्
॥६४॥ब्राह्मांडाधिपतित्वं हि ददौ तस्मै मुदा हरिः ।
चकार तिलकं तस्य समानर्च सुरैस्सह
॥६५॥प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिस्सह ।
तुष्टाव विविधस्स्तोत्रैः शिवरूपं सनातनम्
॥६६॥वरसिंहासनस्थो हि शुशुभेऽतीव कार्तिकः ।
स्वामिभावं समापन्नो ब्रह्मांडस्यासि पालकः
॥६७॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥