मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय १६

3
रुद्रसंहिता · कुमारखण्डः · 16

गणेशयुद्धगणेशशिरश्छेदनवर्णनम्

ब्रह्मोवाच

इति श्रुत्वा महेशानो भक्तानुग्रहकारकः ।

त्वद्वाचा युदकामोभूत्तेन बालेन नारद

॥१॥

विष्णुमाहूय संमंत्र्य बलेन महता युतः ।

सामरस्सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः

॥२॥

देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् ।

महाबला महोत्साहाश्शिवसद्दृष्टिलोकिताः

॥३॥

युयुधेऽथ हरिस्तेन महाबलपराक्रमः ।

महादेव्यायुधो वीरः प्रवणः शिवरूपकः

॥४॥

यष्ट्या गणाधिपस्सोथ जघानामरपुङ्गवान् ।

हरिं च सहसा वीरश्शक्तिदत्तमहाबलः

॥५॥

सर्वेऽमरगणास्तत्र विकुंठितबला मुने ।

अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः

॥६॥

शिवोपि सह सैन्येन युद्धं कृत्वा चिरं मुने ।

विकरालं च तं दृष्ट्वा विस्मयं परमं गतः

॥७॥

छलेनैव च हंतव्यो नान्यथा हन्यते पुनः ।

इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः

॥८॥

शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि ।

विष्णौ चैवाथ संग्रामे आयाते सर्वदेवताः

॥९॥

गणाश्चैव महेशस्य महाहर्षं तदा ययुः ।

सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम्

॥१०॥

अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः ।

प्रथम पूजयामास विष्णुं सर्वसुखावहम्

॥११॥

अहं च मोहयिष्यामि हन्यतां च त्वया विभो ।

छलं विना न वध्योऽयं तामसोयं दुरासदः

॥१२॥

इति कृत्वा मतिं तत्र सुसंमंत्र्य च शंभुना ।

आज्ञां प्राप्याऽभवच्छैवी विष्णुर्मोहपरायणः

॥१३॥

शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् ।

दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने

॥१४॥

शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितस्स्वयम् ।

परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः

॥१५॥

कृत्वा यत्नं किमप्यत्र वंचयामास तद्गतिम् ।

शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम्

॥१६॥

एकतस्तन्मुखं दृष्ट्वा शंकरोप्याजगाम ह ।

स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया

॥१७॥

स ददर्शागतं शंभुं शूलह्स्तं महेश्वरम् ।

हंतुकामं निजं वीरश्शिवापुत्रो महाबलः

॥१८॥

शक्त्या जघान तं हस्ते स्मृत्वा मातृपदांबुजम् ।

स गणशो महावीरश्शिवशक्तिप्रवर्द्धितः

॥१९॥

त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः ।

दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे

॥२०॥

तमप्यपातयद्भूमौ परिघेण गणेश्वरः ।

हताः पंच तथा हस्ताः पञ्चभिश्शूलमाददे

॥२१॥

अहो दुःखतरं नूनं संजातमधुना मम ।

भवेत्पुनर्गणानां किं भवाचारी जगाविति

॥२२॥

एतस्मिन्नंतरे वीरः परिघेण गणेश्वरः ।

जघान सगणान् देवान्शक्तिदत्तबलान्वितः

॥२३॥

गता दशदिशो देवास्सगणा. परिघार्द्दिताः ।

न तस्थुस्समरे केपि तेनाद्भुतप्रहा रिणा

॥२४॥

विष्णुस्तं च गणं दृष्ट्वा धन्योयमिति चाब्रवीत् ।

महाबलो महावीरो महाशूरो रणप्रियः

॥२५॥

बहवो देवताश्चैव मया दृष्टास्तथा पुनः ।

दानवा बहवो दैत्या यक्षगंधर्वराक्षसाः

॥२६॥

नैतेन गणनाथेन समतां यांति केपि च ।

त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः

॥२७॥

एवं संब्रुवतेऽमुष्मै परिघं भ्रामयन् स च ।

चिक्षेप विष्णवे तत्र शक्तिपुत्रो गणेश्वरः

॥२८॥

चक्रं गृहीत्वा हरिणा स्मृत्वा शिवपदाम्बुजम् ।

तेन चक्रेण परिघो द्रुतं खंडीकृतस्तदा

॥२९॥

खंडं तु परिघस्यापि हरये प्राक्षिपद्गणः ।

गृहीत्वा गरुडेनापि पक्षिणा विफलीकृतः

॥३०॥

एवं विचरितं कालं महावीरावुभावपि ।

विष्णुश्चापि गणश्चैव युयुधाते परस्परम्

॥३१॥

पुनर्वीरवरश्शक्तिसुतस्स्मृतशिवो बली ।

गृहीत्वा यष्टिमतुलां तया विष्णुं जघान ह

॥३२॥

अविषह्य प्रहारं तं स भूमौ निपपात ह ।

द्रुतमुत्थाय युयुधे शिवापुत्रेण तेन वै

॥३३॥

एतदंतरमासाद्य शूलपाणिस्तथोत्तरे ।

आगत्य च त्रिशूलेन तच्छिरो निरकृंतत

॥३४॥

छिन्ने शिरसि तस्यैव गणनाथस्य नारद ।

गणसैन्यं देवसैन्यमभवच्च सुनिश्चलम्

॥३५॥

नारदेन त्वयाऽऽगत्य देव्यै सर्वं निवेदितम् ।

मानिनि श्रूयतां मानस्त्याज्यो नैव त्वयाधुना

॥३६॥

इत्युक्त्वाऽन्तर्हितस्तत्र नारद त्वं कलिप्रियः ।

अविकारी सदा शंभुर्मनोगतिकरो मुनिः

॥३७॥

इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदन वर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥