मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय २०

3
रुद्रसंहिता · कुमारखण्डः · 20

गणेशविवाहवर्णनम्

ब्रह्मोवाच

एतस्मिन्नंतरे तत्र विश्वरूपः प्रजापतिः ।

तदुद्योगं संविचार्य सुखमाप प्रसन्नधीः

॥१॥

विश्वरूपप्रजेशस्य दिव्यरूपे सुते उभे ।

सिद्धिबुद्धिरिति ख्याते शुभे सर्वांगशोभने

॥२॥

ताभ्यां चैव गणेशस्य गिरिजा शंकरः प्रभू ।

महोत्सवं विवाहं च कारयामासतुर्मुदा

॥३॥

संतुष्टा देवतास्सर्वास्तद्विवाहे समागमन् ।

यथा चैव शिवस्यैव गिरिजाया मनोरथः

॥४॥

तथा च विश्वकर्माऽसौ विवाहं कृतवांस्तथा ।

तथा च ऋषयो देवा लेभिरे परमां मुदम्

॥५॥

गणेशोपि तदा ताभ्यां सुखं चैवाप्तिचिंतकम् ।

प्राप्तवांश्च मुने तत्तु वर्णितुं नैव शक्यते

॥६॥

कियता चैव कालेन गणेशस्य महात्मनः ।

द्वयोः पत्न्योश्च द्वौ दिव्यौ तस्य पुत्रौ बभूवतुः

॥७॥

सिद्धेर्गणेशपत्न्यास्तु क्षेमनामा सुतोऽभवत् ।

बुद्धेर्लाभाभिधः पुत्रो ह्यासीत्परभशोभनः

॥८॥

एवं सुखमचिंत्यं व भुंजाने हि गणेश्वरे ।

आजगाम द्वितीयश्च क्रांत्वा पृथ्वीं सुतस्तदा

॥९॥

तावश्च नारदेनैव प्राप्तो गेहे महात्मना ।

यथार्थं वच्मि नोऽसत्यं न छलेन न मत्सरात्

॥१०॥

पितृभ्यां तु कृतं यच्च शिवया शंकरेण ते ।

तन्न कुर्य्यात्परो लोके सत्यं सत्यं ब्रवीम्यहम्

॥११॥

निष्कास्य त्वां कुक्रमणं मिषमुत्पाद्य यत्नतः ।

गणेशस्य वरोकारि विवाहः परशोभनः

॥१२॥

गणेशस्य कृतोद्वाहो लब्धवांस्स्त्रीद्वयं मुदा ।

विश्वरूपप्रजेशस्य कन्यारत्नं महोत्तमम्

॥१३॥

पुत्रद्वयं ललाभासौ द्वयोः पत्न्योश्शुभांगयोः ।

सिद्धे क्षेमं तथा बुद्धेर्लाभं सर्वं सुखप्रदम्

॥१४॥

पत्न्योर्द्वयोर्गणेशोऽसौ लब्ध्वा पुत्रद्वयं शुभम् ।

मातापित्रोर्मतेनैव सुखं भुंक्ते निरंतरम्

॥१५॥

भवता पृथिवी क्रांता ससमुद्रा सकानना ।

तच्छलाज्ञावशात्तात तस्य जातं फलं त्विदम्

॥१६॥

पितृभ्यां क्रियतास्मैवच्छलं तात विचार्यताम् ।

स्वस्वामिभ्यां विशेषेण ह्यन्यः किन्न करोति वै

॥१७॥

असम्यक्च कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म ह ।

विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम्

॥१८॥

दद्याद्यदि गरं माता विक्रीणीयात्पिता यदि ।

राजा हरति सर्वस्वं कस्मै किं च ब्रवीतु वै

॥१९॥

येनैवेदं कृतं स्याद्वै कर्मानर्थकरं परम् ।

शांतिकामस्सुधीस्तात तन्मुखं न विलोकयेत्

॥२०॥

इति नीतिः श्रुतौ प्रोक्ता स्मृतौ शास्त्रेषु सर्वतः ।

निवेदिता च सा तेऽद्य यथेच्छसि तथा कुरु

॥२१॥

ब्रह्मोवाच

इत्युक्त्वा नारद त्वं तु महेश्वरमनोगतिः ।

तस्मै तथा कुमाराय वाक्यं मौनमुपागतः

॥२२॥

स्कन्दोऽपि पितरं नत्वा कोपाग्निज्वलितस्तदा ।

जगाम पर्वतं क्रौंचं पितृभ्यां वारितोऽपि सन्

॥२३॥

वारणे च कृते त्वद्य गम्यते च कथं त्वया ।

इत्येवं च निषिद्धोपि प्रोच्य नेति जगाम सः

॥२४॥

न स्थातव्यं मया तातौ क्षणमप्यत्र किंचन ।

यद्येवं कपटं प्रीतिमपहाय कृतं मयि

॥२५॥

एवमुक्त्वा गतस्तत्र मुने सोऽद्यापि वर्तते ।

दर्शनेनैव सर्वेषां लोकानां पापहारकः

॥२६॥

तद्दिनं हि समारभ्य कार्तिकेयस्य तस्य वै ।

शिवपुत्रस्य देवर्षे कुमारत्वं प्रतिष्ठितम्

॥२७॥

तन्नाम शुभदं लोके प्रसिद्धं भुवनत्रये ।

सर्वपापहरं पुण्यं ब्रह्मचर्यप्रदं परम्

॥२८॥

कार्तिक्यां च सदा देवा ऋषयश्च सतीर्थकाः ।

दर्शनार्थं कुमारस्य गच्छंति च मुनीश्वराः

॥२९॥

कार्तिक्यां कृत्तिकासंगे कुर्याद्यः स्वामिदर्शनम् ।

तस्य पापं दहेत्सर्वं चित्तेप्सित फलं लभेत्

॥३०॥

उमापि दुःखमापन्ना स्कन्दस्य विरहे सति ।

उवाच स्वामिनं दीना तत्र गच्छ मया प्रभो

॥३१॥

तत्सुखार्थं स्वयं शंभुर्गतस्स्वांशेन पर्वते ।

मल्लिकार्जुननामासीज्ज्योतिर्लिङ्गं सुखावहम्

॥३२॥

अद्यापि दृश्यते तत्र शिवया सहितश्शिवः ।

सर्वेषां निजभक्तानां कामपूरस्सतां गतिः

॥३३॥

तमागतं स विज्ञाय कुमारस्सशिवं शिवम् ।

स विरज्य ततोऽन्यत्र गंतुमासीत्समुत्सुकः

॥३४॥

देवैश्च मुनिभिश्चैव प्रार्थितस्सोपि दूरतः ।

योजनत्रयमुत्सृज्य स्थितः स्थाने च कार्तिकः

॥३५॥

पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ।

दर्शनार्थं कुमारस्य तस्य नारद गच्छतः

॥३६॥

अमावास्यादिने शंभुः स्वयं गच्छति तत्र ह ।

पूर्णमासी दिने तत्र पार्वती गच्छति ध्रुवम्

॥३७॥

यद्यत्तस्य च वृत्तांतं भवत्पृष्टं मुनीश्वर ।

कार्तिकस्य गणेशस्य परमं कथितं मया

॥३८॥

एतच्छ्रुत्वा नरो धीमान् सर्वपापैः प्रमुच्यते ।

शोभनां लभते कामानीप्सितान्सकलान्सदा

॥३९॥

यः पठेत्पाठयेद्वापि शृणुयाच्छ्रावयेत्तथा ।

सर्वान्कामानवाप्नोति नात्र कार्या विचारणा

॥४०॥

ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ।

वैश्यो धन समृद्धस्स्याच्छूद्रस्सत्समतामियात्

॥४१॥

रोगी रोगात्प्रमुच्येत भयान्मुच्येत भीतियुक् ।

भूतप्रेतादिबाधाभ्यः पीडितो न भवेन्नरः

॥४२॥

एतदाख्यानमनघं यशस्यं सुखवर्द्धनम् ।

आयुष्यं स्वर्ग्यमतुलं पुत्रपौत्रादिकारकम्

॥४३॥

अपवर्गप्रदं चापि शिवज्ञानप्रदं परम् ।

शिवाशिवप्रीतिकरं शिवभक्तिविवर्द्धनम्

॥४४॥

श्रवणीयं सदा भक्तैर्निःकामैश्च मुमुक्षुभिः ।

शिवाद्वैतप्रदं चैतत्सदाशिवमयं शिवम्

॥४५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहवर्णनं नाम विंशोऽध्यायः ॥ २० ॥

समाप्तोयं रुद्रसंहितान्तर्गतः कुमारखण्डश्चतुर्थः

॥४॥

ॐ नमः शिवाय ।