त्रिपुरवर्णनम्
श्रीगणेशाय नमः
श्रीगौरीशंकराभ्यां नमः
नारद उवाच
श्रुतमस्माभिरानंदप्रदं चरितमुत्तमम् ।
गृहस्थस्यैव शंभोश्च गणस्कंदादिसत्कथम्
॥१॥इदानीं ब्रूहि सुप्रीत्या चरितं वरमुत्तमम् ।
शंकरो हि यथा रुद्रो जघान विहरन्खलान्
॥२॥कथं ददाह भगवान्नगराणि सुरद्विषाम् ।
त्रीण्येकेन च बाणेन युगपत्केन वीर्यवान्
॥३॥एतत्सर्वं समाचक्ष्व चरितं शशिमौलिनः ।
देवर्षिसुखदं शश्वन्मायाविहरतः प्रभोः
॥४॥ब्रह्मोवाच
एवमेतत्पुरा पृष्टो व्यासेन ऋषिसत्तमः ।
सनत्कुमारं प्रोवाच तदेव कथयाम्यहम्
॥५॥सनत्कुमार उवाच
शृणु व्यास महाप्राज्ञ चरितं शशिमौलिनः ।
यथा ददाह त्रिपुरं बाणेनैकेन विश्व हृत्
॥६॥शिवात्मजेन स्कन्देन निहते तारकासुरे ।
तत्पुत्रास्तु त्रयो दैत्याः पर्यतप्यन्मुनीश्वर
॥७॥तारकाख्यस्तु तज्जेष्ठो विद्युन्माली च मध्यमः ।
कमलाक्षः कनीयांश्च सर्वे तुल्यबलास्सदा
॥८॥जितेन्द्रियास्ससन्नद्धास्संयतास्सत्यवादिनः ।
दृढचित्ता महावीरा देवद्रोहिण एव च
॥९॥ते तु मेरुगुहां गत्वा तपश्चक्रुर्महाद्भुतम् ।
त्रयस्सर्वान्सुभोगांश्च विहाय सुमनोहरान्
॥१०॥वसंते सर्वकामांश्च गीतवादित्रनिस्स्वनम् ।
विहाय सोत्सवं तेपुस्त्रयस्ते तारकात्मजाः
॥११॥ग्रीष्मे सूर्यप्रभां जित्वा दिक्षु प्रज्वाल्य पावकम् ।
तन्मध्यसंस्थाः सिद्ध्यर्थं जुहुवुर्हव्यमादरात्
॥१२॥महाप्रतापपतितास्सर्वेप्यासन् सुमूर्छिताः ।
वर्षासु गतसंत्रासा वृष्टिं मूर्द्धन्यधारयन्
॥१३॥शरत्काले प्रसूतं तु भोजनं तु बुभुक्षिताः ।
रम्यं स्निग्धं स्थिरं हृद्यं फलं मूलमनुत्तमम्
॥१४॥संयमात्क्षुत्तृषो जित्वा पानान्युच्चावचान्यपि ।
बुभुक्षितेभ्यो दत्त्वा तु बुभूवुरुपला इव
॥१५॥संस्थितास्ते महात्मानो निराधाराश्चतुर्दिशम् ।
हेमंते गिरिमाश्रित्य धैर्येण परमेण तु
॥१६॥तुषारदेहसंछन्ना जलक्लिन्नेन वाससा ।
आसाद्य देहं क्षौमेण शिशिरे तोयमध्यगाः
॥१७॥अनिर्विण्णास्ततस्सर्वे क्रमशोऽवर्द्धयंस्तपः ।
तेपुस्त्रयस्ते तत्पुत्रा विधिमुद्दिश्य सत्तमाः
॥१८॥तप उग्रं समास्थाय नियमे परमे स्थिता ।
तपसा कर्षयामासुर्देहान् स्वान् दानवोत्तमाः
॥१९॥वर्षाणां शतकं चैव पदमेकं निधाय च ।
भूमौ स्थित्वा परं तत्र तेपुस्ते बलवत्तराः
॥२०॥ते सहस्रं तु वर्षाणां वातभक्षास्सुदारुणाः ।
तपस्तेपुर्दुरात्मानः परं तापमुपागताः
॥२१॥वर्षाणां तु सहस्रं वै मस्तकेनास्थितास्तथा ।
वर्षाणां तु शतेनैव ऊर्द्ध्वबाहव आसिताः
॥२२॥एवं दुःखं परं प्राप्ता दुराग्रहपरा इमे ।
ईदृक्ते संस्थिता दैत्या दिवारात्रमतंद्रिता
॥२३॥एवं तेषां गतः कालो महान् सुतपतां मुने ।
ब्रह्मात्मनां तारकाणां धर्मेणेति मतिर्मम
॥२४॥प्रादुरासीत्ततो ब्रह्मा सुरासुरगुरुर्महान् ।
संतुष्टस्तपसा तेषां वरं दातुं महायशाः
॥२५॥मुनिदेवासुरैस्सार्द्धं सांत्वपूर्वमिदं वचः ।
ततस्तानब्रवीत्सर्वान् सर्वभूतपितामहः
॥२६॥ब्रह्मोवाच
प्रसन्नोऽस्मि महादैत्या युष्माकं तपसा मुने ।
सर्वं दास्यामि युष्मभ्यं वरं ब्रूत यदीप्सितम्
॥२७॥किमर्थं सुतपस्तप्तं कथयध्वं सुरद्विषां ।
सर्वेषां तपसो दाता सर्वकर्तास्मि सर्वदा
॥२८॥सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा शनैस्ते स्वात्मनो गतम् ।
ऊचुः प्रांजलयस्सर्वे प्रणिपत्य पितामहम्
॥२९॥दैत्या ऊचुः
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ।
अवध्यत्वं च सर्वेषां सर्वभूतेषु देहिनः
॥३०॥स्थिरान् कुरु जगन्नाथ पांतु नः परिपंथिनः ।
जरारोगादयस्सर्वे नास्मान्मृत्युरगात् क्वचित्
॥३१॥अजराश्चामरास्सर्वे भवाम इति नो मतम् ।
समृत्यवः करिष्यामस्सर्वानन्यांस्त्रिलोकके
॥३२॥लक्ष्म्या किं तद्विपुलया किं कार्यं हि पुरोत्तमैः ।
अन्यैश्च विपुलैर्भोगैस्स्थानैश्वर्येण वा पुनः
॥३३॥यत्रैव मृत्युना ग्रस्तो नियतं पंचभिर्दिनैः ।
व्यर्थं तस्याखिलं ब्रह्मन् निश्चितं न इतीव हि
॥३४॥सनत्कुमार उवाच
इति श्रुत्वा वचस्तेषां दैत्यानां च तपस्विनाम् ।
प्रत्युवाच शिवं स्मृत्वा स्वप्रभुं गिरिशं विधिः
॥३५॥ब्रह्मोवाच
नास्ति सर्वामरत्वं च निवर्तध्वमतोऽसुराः ।
अन्यं वरं वृणीध्वं वै यादृशो वो हि रोचते
॥३६॥जातो जनिष्यते नूनं जंतुः कोप्यसुराः क्वचित् ।
अजरश्चामरो लोके न भविष्यति भूतले
॥३७॥ऋते तु खंडपरशोः कालकालाद्धरेस्तथा ।
तौ धर्माधर्मपरमावव्यक्तौ व्यक्तरूपिणौ
॥३८॥संपीडनाय जगतो यदि स क्रियते तपः ।
सफलं तद्गतं वेद्यं तस्मात्सुविहितं तपः
॥३९॥तद्विचार्य स्वयं बुद्ध्या न शक्यं यत्सुरासुरैः ।
दुर्लभं वा सुदुस्साध्यं मृत्युं वंचयतानघाः
॥४०॥तत्किंचिन्मरणे हेतुं वृणीध्वं सत्त्वमाश्रिताः ।
येन मृत्युर्नैव वृतो रक्षतस्तत्पृथक् पृथक्
॥४१॥सनत्कुमार उवाच
एतद्विधिवचः श्रुत्वा मुहूर्त्तं ध्यानमास्थिताः ।
प्रोचुस्ते चिंतयित्वाथ सर्वलोकपितामहम्
॥४२॥दैत्या ऊचुः
भगवन्नास्ति नो वेश्म पराक्रमवतामपि ।
अधृष्याः शात्रवानां तु यन्न वत्स्यामहे सुखम्
॥४३॥पुराणि त्रीणि नो देहि निर्मायात्यद्भुतानि हि ।
सर्वसंपत्समृद्धान्य प्रधृष्याणि दिवौकसाम्
॥४४॥वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ।
चरिष्यामो हि लोकेश त्वत्प्रसादाज्जगद्गुरो
॥४५॥तारकाक्षस्ततः प्राह यदभेद्यं सुरैरपि ।
करोति विश्वकर्मा तन्मम हेममयं पुरम्
॥४६॥ययाचे कमलाक्षस्तु राजतं सुमहत्पुरम् ।
विद्युन्माली च संहृष्टो वज्रायसमयं महत्
॥४७॥पुरेष्वेतेषु भो ब्रह्मन्नेकस्थानस्थितेषु च ।
मध्याह्नाभिजिते काले शीतांशौ पुष्प संस्थिते
॥४८॥उपर्युपर्यदृष्टेषु व्योम्नि लीलाभ्रसंस्थिते ।
वर्षत्सु कालमेघेषु पुष्करावर्तनामसु
॥४९॥तथा वर्षसहस्राते समेष्यामः परस्परम् ।
एकीभावं गमिष्यंति पुराण्येतानि नान्यथा
॥५०॥सर्वदेवमयो देवस्सर्वेषां मे कुहेलया ।
असंभवे रथे तिष्ठन् सर्वोपस्करणान्विते
॥५१॥असंभाव्यैककांडेन भिनत्तु नगराणि नः ।
निर्वैरः कृत्तिवासास्तु योस्माकमिति नित्यशः ।
वंद्यः पूज्योभिवाद्यश्च सोस्माकं निर्दहेत्कथम् ।
इति चेतसि संधाय तादृशो भुवि दुर्लभः
॥५३॥सनत्कुमार उवाच
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ।
एवमस्तीति तान् प्राह सृष्टिकर्ता स्मरञ्शिवम्
॥५४॥आज्ञां ददौ मयस्यापि कुत्र त्वं नगरत्रयम् ।
कांचनं राजतं चैव आयसं चेति भो मय
॥५५॥इत्यादिश्य मयं ब्रह्मा प्रत्यक्षं प्राविशद्दिवम् ।
तेषां तारकपुत्राणां पश्यतां निजधाम हि
॥५६॥ततो मयश्च तपसा चक्रे धीरः पुराण्यथ ।
कांचनं तारकाक्षस्य कमलाक्षस्य राजतम्
॥५७॥विद्युन्माल्यायसं चैव त्रिविधं दुर्गमुत्तमम् ।
स्वर्गे व्योम्नि च भूमौ च क्रमाज्ज्ञेयानि तानि वै
॥५८॥दत्वा तेभ्यो सुरेभ्यश्च पुराणि त्रीणि वै मयः ।
प्रविवेश स्वयं तत्र हितकामपरायणः
॥५९॥एवं पुत्रत्रयं प्राप्य प्रविष्टास्तारकात्मजाः ।
बुभुजुस्सकलान्भोगान्महाबलपराक्रमाः
॥६०॥कल्पद्रुमैश्च संकीर्णं गजवाजिसमाकुलम् ।
नानाप्रासादसंकीर्णं मणिजालसमा वृतम्
॥६१॥सूर्यमण्डलसंकाशैर्विमानैस्सर्वतोमुखैः ।
पद्मरागमयैश्चैव शोभितं चन्द्रसन्निभैः
॥६२॥प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः ।
दिव्यस्त्रीजनसंकीर्णैर्गंधर्वैस्सिद्धचारणैः
॥६३॥रुद्रालयैः प्रतिगृहमग्निहोत्रैः प्रतिष्ठितैः ।
द्विजोत्तमैश्शास्त्र ज्ञैश्शिवभक्तिरतैस्सदा
॥६४॥वापीकूपतडागैश्च दीर्घिकाभिस्सुशोभितम् ।
उद्यानवनवृक्षैश्च स्वर्गच्युत गुणोत्तमैः
॥६५॥नदीनदसरिन्मुख्यपुष्करैः शोभितं सदा ।
सर्वकामफलाद्यैश्चानेकैर्वृक्षैर्मनोहरम्
॥६६॥मत्तमातंगयूथैश्च तुरंगैश्च सुशोभनैः ।
रथैश्च विविधाकारैश्शिबिकाभिरलंकृतम्
॥६७॥समयादिशिकैश्चैव क्रीडास्थानैः पृथक्पृथक् ।
वेदाध्ययनशालाभिर्विविधाभिः पृथक्पृथक्
॥६८॥अदृष्टं मनसा वाचा पापान्वितनरैस्सदा ।
महात्मभिश्शुभाचारैः पुण्यवद्भिः प्रवीक्ष्यते
॥६९॥पतिव्रताभिः सर्वत्र पावितं स्थलमुत्तमम् ।
पतिसेवनशीलाभिर्विमुखाभिः कुधर्मतः
॥७०॥दैत्यशूरैर्महाभागैस्सदारैस्ससुतैर्द्विजैः ।
श्रौतस्मार्तार्थतत्त्वज्ञैस्स्वधर्मनिरतैर्युतम्
॥७१॥व्यूढोरस्कैर्वृषस्कंधैस्सामयुद्धधरैस्सदा ।
प्रशांतैः कुपितैश्चैव कुब्जैर्वामनकैस्तथा
॥७२॥नीलोत्पलदलप्रख्यैर्नीलकुंचितमूर्द्धजैः ।
मयेन रक्षितैस्सर्वैश्शिक्षितैर्युद्धलालसैः
॥७३॥वरसमररतैर्युतं समंतादजशिवपूजनया विशुद्धवीर्यैः ।
रविमरुतमहेन्द्रसंनिकाशैस्सुरमथनैस्सुदृढैस्सुसेवितं यत्
॥७४॥शास्त्रवेदपुराणेषु येये धर्माः प्रकीर्तिताः ।
शिवप्रियास्सदा देवास्ते धर्मास्तत्र सर्वतः
॥७५॥एवं लब्धवरास्ते तु दैतेयास्तारकात्मजाः ।
शैवं मयमुपाश्रित्य निवसंति स्म तत्र ह
॥७६॥सर्वं त्रैलोक्यमुत्सार्य प्रविश्य नगराणि ते ।
कुर्वंति स्म महद्राज्यं शिवमार्गरतास्सदा
॥७७॥ततो महान् गतः कालो वसतां पुण्यकर्मणाम् ।
यथासुखं यथाजोषं सद्राज्यं कुर्वतां मुने
॥७८॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥