त्रिपुरमोहनम्
व्यास उवाच
दैत्यराजे दीक्षिते च मायिना तेन मोहिते ।
किमुवाच तदा मायी किं चकार स दैत्यपः
॥१॥सनत्कुमार उवाच
दीक्षां दत्त्वा यतिस्तस्मा अरिहन्नारदादिभिः ।
शिष्यैस्सेवितपादाब्जो दैत्यराजानमब्रवीत्
॥२॥अरिहन्नुवाच
शृणु दैत्यपते वाक्यं मम सञ्ज्ञानगर्भितम् ।
वेदान्तसारसर्वस्वं रहस्यं परमोत्तमम्
॥३॥अनादिसिद्धस्संसारः कर्तृकर्मविवर्जितः ।
स्वयं प्रादुर्भवत्येव स्वयमेव विलीयते
॥४॥ब्रह्मादिस्तंबपर्यन्तं यावद्देहनिबंधनम् ।
आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता
॥५॥यद्ब्रह्मविष्णुरुद्राख्यास्तदाख्या देहिनामिमाः ।
आख्यायथास्मदादीनामरिहन्नादिरुच्यते
॥६॥देहो यथास्मदादीनां स्वकालेन विलीयते ।
ब्रह्मादि मशकांतानां स्वकालाल्लीयते तथा
॥७॥विचार्यमाणे देहेऽस्मिन्न किंचिदधिकं क्वचित् ।
आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम्
॥८॥निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् ।
सदृशीमेव संतृप्तिं प्राप्नुयान्नाधिकेतराम्
॥९॥यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ।
तृषितास्तु तथान्येपि न विशेषोऽल्पकोधिकः ।
संतु नार्यः सहस्राणि रूपलावण्यभूमयः ।
परं निधुवने काले ह्यैकेवेहोपयुज्यते
॥११॥अश्वाः परश्शतास्संतु संत्वेनेकैप्यनेकधा ।
अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः
॥१२॥पर्यंकशायिनां स्वापे सुखं यदुपजायते ।
तदेव सौख्यं निद्राभिर्भूतभूशायिनामपि
॥१३॥यथैव मरणाद्भीतिरस्मदादिवपुष्मताम् ।
ब्रह्मादिकीटकांतानां तथा मरणतो भयम्
॥१४॥सर्वे तनुभृतस्तुल्या यदि बुद्ध्या विचार्य्यते ।
इदं निश्चित्य केनापि नो हिंस्यः कोऽपि कुत्रचित्
॥१५॥धर्मो जीवदयातुल्यो न क्वापि जगतीतले ।
तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः
॥१६॥एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ।
घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत्
॥१७॥अहिंसा परमो धर्मः पापमात्मप्रपीडनम् ।
अपराधीनता मुक्तिस्स्वर्गोऽभिलषिताशनम्
॥१८॥पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् ।
तस्मान्न हिंसा कर्त्तव्यो नरैर्नरकभीरुभिः
॥१९॥न हिंसासदृशं पापं त्रैलोक्ये सचराचरे ।
हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः
॥२०॥संति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः ।
अभीतिसदृशं दानं परमेकमपीह न
॥२१॥इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ।
विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च
॥२२॥भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथोषधम् ।
देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे
॥२३॥यानि यानीह दानानि बहुमुन्युदितानि च ।
जीवाभयप्रदानस्य कलां नार्हंति षोडशीम्
॥२४॥अविचिंत्य प्रभावं हि मणिमंत्रौषधं बलम् ।
तदभ्यस्यं प्रयत्नेन नामार्थोपार्जनाय वै
॥२५॥अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ।
परितः परिपूज्यानि किमन्यैरिह पूजितैः
॥२६॥पंचकर्मेन्द्रियग्रामाः पंच बुद्धींद्रियाणि च ।
मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम्
॥२७॥इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ।
सुखं स्वर्गः समाख्याता दुःखं नरकमेव हि
॥२८॥सुखेषु भुज्यमानेषु यत्स्याद्देहविसर्जनम् ।
अयमेव परो मोक्षो विज्ञेयस्तत्त्वचिंतकैः
॥२९॥वासनासहिते क्लेशसमुच्छेदे सति ध्रुवम् ।
अज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिंतकैः
॥३०॥प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः ।
न हिंस्यात्सर्वभूतानि नान्या हिंसा प्रवर्तिका
॥३१॥अग्निष्टोमीयमिति या भ्रामिका साऽसतामिह ।
न सा प्रमाणं ज्ञातॄणां पश्वालंभनकारिका ।
वृक्षांश्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् ।
दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलष्यते
॥३३॥इत्येवं स्वमतं प्रोच्य यतिस्त्रिपुरनायकम् ।
श्रावयित्वाखिलान् पौरानुवाच पुनरादरात्
॥३४॥दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधकान् ।
बौद्धागम विनिर्दिष्टान्धर्मान्वेदपरांस्ततः
॥३५॥आनंदं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते ।
तत्तथैव ह मंतव्यं मिथ्या नानात्वकल्पना
॥३६॥यावत्स्वस्थमिदं वर्ष्म यावन्नेन्द्रियविक्लवः ।
यावज्जरा च दूरेऽस्ति तावत्सौख्यं प्रसाधयेत्
॥३७॥अस्वास्थ्येन्द्रियवैकल्ये वार्द्धके तु कुतस्सुखम् ।
शरीरमपि दातव्यमर्थिभ्योऽतस्सुखेप्सुभिः
॥३८॥याचमानमनोवृत्तिप्रीणने यस्य नो जनिः ।
तेन भूर्भारवत्येषा समुद्रागद्रुमैर्न हि
॥३९॥सत्वरं गत्वरो देहः संचयास्सपरिक्षयाः ।
इति विज्ञाय विज्ञाता देहसौख्यं प्रसाधयेत्
॥४०॥श्ववाय सकृमीणां च प्रातर्भोज्यमिदं वपुः ।
भस्मांतं तच्छरीरं च वेदे सत्यं प्रपठ्यते
॥४१॥मुधा जातिविकषोयं लोकेषु परिकल्प्यते ।
मानुष्ये सति सामान्ये कोऽधर्मः कोऽथ चोत्तमः
॥४२॥ब्रह्मादिसृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः ।
तस्य जातौ सुतौ दक्षमरीची चेति विश्रुतौ
॥४३॥मारीचेन कश्यपेन दक्षकन्यास्सुलोचनाः ।
धर्मेण किल मार्गेण परिणीतास्त्रयोदश
॥४४॥अपीदानींतनैर्मर्त्यैरल्पबुद्धिपराक्रमैः ।
अपि गम्यस्त्वगम्योऽयं विचारः क्रियते मुधा
॥४५॥मुखबाहूरुसञ्जातं चातुर्वर्ण्य सहोदितम् ।
कल्पनेयं कृता पूर्वैर्न घटेत विचारतः
॥४६॥एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् ।
चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः
॥४७॥वर्णावर्णविभागोऽयं तस्मान्न प्रतिभासते ।
अतो भेदो न मंतव्यो मानुष्ये केनचित्क्वचित्
॥४८॥सनत्कुमार उवाच
इत्थमाभाष्य दैत्येशं पौरांश्च स यतिर्मुने ।
सशिष्यो वेदधर्माश्च नाशयामास चादरात्
॥४९॥स्त्रीधर्मं खंडयामास पातिव्रत्यपरं महत् ।
जितेन्द्रियत्वं सर्वेषां पुरुषाणां तथैव सः
॥५०॥देवधर्मान्विशेषेण श्राद्धधर्मांस्तथैव च ।
मखधर्मान्व्रतादींश्च तीर्थश्राद्धं विशेषतः
॥५१॥शिवपूजां विशेषेण लिंगाराधनपूर्विकाम् ।
विष्णुसूर्यगणेशादिपूजनं विधिपूर्वकम्
॥५२॥स्नानदानादिकं सर्वं पर्वकालं विशेषतः ।
खंडयामास स यतिर्मायी मायाविनां वरः
॥५३॥किं बहूक्तेन विप्रेन्द्र त्रिपुरे तेन मायिना ।
वेदधर्माश्च ये केचित्ते सर्वे दूरतः कृताः
॥५४॥पतिधर्माश्रयाः सर्वा मोहितास्त्रिपुरांगनाः ।
भर्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम्
॥५५॥अभ्यस्याकर्षणीं विद्यां वशीकृत्यमयीमपि ।
पुरुषास्सफलीचक्रुः परदारेषु मोहिताः
॥५६॥अंतःपुरचरा नार्यस्तथा राजकुमारकाः ।
पौराः पुरांगनाश्चापि सर्वे तैश्च विमोहिताः
॥५७॥एवं पौरेषु सर्वेषु निजधर्मेषु सर्वथा ।
पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः
॥५८॥माया च देवदेवस्य विष्णोस्तस्याज्ञया प्रभो ।
अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता
॥५९॥या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादरात् ।
बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः
॥६०॥बुद्धिमोहं तथाभूतं विष्णो र्मायाविनिर्मितम् ।
तेषां दत्त्वा क्षणादेव कृतार्थोऽभूत्स नारदः
॥६१॥नारदोपि तथारूपो यथा मायी तथैव सः ।
तथापि विकृतो नाभूत्परमेशादनुग्रहात्
॥६२॥आसीत्कुंठितसामर्थ्यो दैत्यराजोऽपि भो मुने ।
भ्रातृभ्यां सहितस्तत्र मयेन च शिवेच्छया
॥६३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे त्रिपुरमोहनं नाम पञ्चमोऽध्यायः ॥ ५ ॥