भो ब्रह्मन्भगवन्पूर्वं श्रुतं मे ब्रह्मपुत्रक
व्यास उवाच
भो ब्रह्मन्भगवन्पूर्वं श्रुतं मे ब्रह्मपुत्रक ।
जलंधरं महादैत्यमवधीच्छंकरः प्रभुः
॥१॥तत्त्वं वद महाप्राज्ञ चरितं शशिमौलिनः ।
विस्तारपूर्वकं शृण्वन्कस्तृप्येत्तद्यशोऽमलम्
॥२॥सूत उवाच
इत्येवं व्याससंपृष्टो ब्रह्मपुत्रो महामुनिः ।
उवाचार्थवदव्यग्रं वाक्यं वाक्यविशारदः
॥३॥सनत्कुमार उवाच
एकदा जीवशक्रौ च भक्त्या परमया मुने ।
दर्शनं कर्तुमीशस्य कैलासं जग्मतुर्भृशम्
॥४॥अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरः प्रभुः ।
परीक्षितुं तयोर्ज्ञानं स्वदर्शनरतात्मनोः
॥५॥दिगम्बरोऽथ तन्मार्गमारुद्ध्य सद्गतिस्सताम् ।
जटाबद्धेन शिरशातिष्ठत्संशोभिताननः
॥६॥अथ तौ गुरुशक्रौ च कुर्वंतौ गमनं मुदा ।
आलोक्य पुरुषं भीमं मार्गमध्येऽद्भुताकृतिम्
॥७॥महातेजस्विनं शांतं जटासंबद्धमस्तकम् ।
महाबाहुं महोरस्कं गौरं नयनभीषणम्
॥८॥अथो पुरंदरोऽपृच्छत्स्वाधिकारेण दुर्मदः ।
पुरुषं तं स्वमार्गांतस्थितमज्ञाय शंकरम्
॥९॥पुरन्दर उवाच
कस्त्वं भोः कुत आयातः किं नाम वद तत्त्वतः ।
स्वस्थानेसंस्थितश्शंभु किं वान्यत्र गतः प्रभुः
॥१०॥सनत्कुमार उवाच
शक्रेणेत्थं स पृष्टस्तु किंचिन्नोवाच तापसः ।
शक्रः पुनरपृच्छद्वै नोवाच स दिगंबरः
॥११॥पुनः पुरंदरोऽपृच्छ्ल्लोकानामधिपेश्वरः ।
तूष्णीमास महायोगी लीलारूपधरः प्रभुः
॥१२॥इत्थं पुनः पुनः पृष्टश्शक्रेण स दिगम्बरः ।
नोवाच किंचिद्भगवाञ्छक्रज्ञानपरीक्षया
॥१३॥अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्यगर्वितः ।
उवाच वचनं चैव तं निर्भर्त्स्य जटाधरम्
॥१४॥इन्द्र उवाच
रे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि ।
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते
॥१५॥सनत्कुमार उवाच
इत्युदीर्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ।
हंतुं दिगंबरं वज्रमुद्यतं स चकार ह
॥१६॥पुरंदरं वज्रहस्तं दृष्ट्वा देवस्सदाशिवः ।
चकार स्तंभनं तस्य वज्रपातस्य शंकरः
॥१७॥ततो रुद्रः क्रुधाविष्टः करालाक्षो भयंकरः ।
द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव
॥१८॥बाहुप्रतिष्टंभभुवामन्युनांतश्शचीपतिः ।
समदह्यत भोगीव मंत्ररुद्धपराक्रमः
॥१९॥दृष्ट्वा बृहस्पतिस्तूर्णं प्रज्वलंतं स्वतेजसा ।
पुरुषं तं धिया ज्ञात्वा प्रणनाम हरं प्रभुम्
॥२०॥कृतांजलिपुटो भूत्वा ततो गुरुरुदारधीः ।
नत्वा च दंडवद्भूमौ प्रभुं स्तोतुं प्रचक्रमे
॥२१॥गुरुरुवाच
नमो देवाधिदेवाय महादेवाय चात्मने ।
महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने
॥२२॥दीननाथाय विभवे नमोंऽधकनिषूदिने ।
त्रिपुरघ्नाय शर्वाय ब्रह्मणे परमेष्ठिने
॥२३॥विरूपाक्षाय रुद्राय बहुरूपाय शंभवे ।
विरूपायातिरूपाय रूपातीताय ते नमः
॥२४॥यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने ।
नमस्ते मखरूपाय परकर्मप्रवर्तिने
॥२५॥कालांतकाय कालाय कालभोगिधराय च ।
नमस्ते परमेशाय सर्वत्र व्यापिने नमः
॥२६॥नमो ब्रह्मशिरोहंत्रे ब्रह्मचंद्र स्तुताय च ।
ब्रह्मण्याय नमस्तेऽस्तु नमस्ते परमात्मने
॥२७॥त्वमग्निरनिलो व्योम त्वमेवापो वसुंधरा ।
त्वं सूर्यश्चन्द्रमा भानि ज्योतिश्चक्रं त्वमेव हि
॥२८॥त्वमेव विष्णुस्त्वं ब्रह्मा तत्स्तुतस्त्वं परेश्वरः ।
मुनयः सनकाद्यास्त्वं नारदस्त्वं तपोधनः
॥२९॥त्वमेव सर्व लोकेशस्त्वमेव जगदात्मकः ।
सर्वान्वयस्सर्वभिन्नस्त्वमेव प्रकृतेः परः
॥३०॥त्वं वै सृजसि लोकांश्च रजसा विधिनामभाक् ।
सत्त्वेन हरिरूपस्त्वं सकलं यासि वै जगत्
॥३१॥त्वमेवासि महादेव तमसा हररूपधृक् ।
लीलया भुवनं सर्वं निखिलं पांचभौतिकम्
॥३२॥त्वद्ध्यानबलतस्सूर्यस्तपते विश्वभावन ।
अमृतं च्यवते लोके शशी वाति समरिणः
॥३३॥त्वद्ध्यानबलतो मेघाश्चांबु वर्षंति शंकर ।
त्वद्ध्यानबलतश्शक्रस्त्रिलोकीं पाति पुत्रवत्
॥३४॥त्वद्ध्यानबलतो मेघाः सर्वे देवा मुनीश्वराः ।
स्वाधिकारं च कुर्वंति चकिता भवतो भयात्
॥३५॥त्वत्पादकमलस्यैव सेवनाद्भुवि मानवाः ।
नाद्रियन्ते सुरान्रुद लोकैश्वर्यं च भुंजते
॥३६॥त्वत्पादकमलस्यैव सेवनादगमन्पराम् ।
गतिं योगधना नामप्यगम्यां सर्वदुर्लभाम्
॥३७॥सनत्कुमार उवाच
बृहस्पतिरिति स्तुत्वा शंकरं लोकशंकरम् ।
पादयो पातयामास तस्येशस्य पुरंदरम्
॥३८॥पातयित्वा च देवेशमिंद्रं नत शिरोधरम् ।
बृहस्पतिरुवाचेदं प्रश्रयावनतश्शिवम्
॥३९॥बृहस्पतिरुवाच
दीननाथ महादेव प्रणतं तव पादयोः ।
समुद्धर च शांतं स्वं क्रोधं नयनजं कुरु
॥४०॥तुष्टो भव महादेव पाहीद्र शरणागतम् ।
अग्निरेव शमं यातु भालनेत्रसमुद्भवः
॥४१॥सनत्कुमार उवाच
इत्याकर्ण्य गुरोर्वाक्यं देवदेवो महेश्वरः ।
उवाच करुणासिन्धुर्मेघनिर्ह्रादया गिरा
॥४२॥महेश्वर उवाच
क्रोधं च निस्सृते नेत्राद्धारयामि बृहस्पतेः ।
कथं हि कञ्चुकीं सर्पस्संधत्ते नोज्झितां पुनः
॥४३॥सनत्कुमार उवाचु ।
इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ।
उवाच क्लिष्टरूपश्च भयव्याकुलमानसः
॥४४॥बृहस्पतिरुवाच
हे देव भगवन्भक्ता अनुकंप्याः सदैव हि ।
भक्तवत्सलनामेति त्वं सत्यं कुरु शंकर
॥४५॥क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ।
उद्धर्तस्सर्वभक्तानां समुद्धर पुरंदरम्
॥४६॥सनत्कुमार उवाच
इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ।
प्रत्युवाच प्रसन्नात्मा सुरेज्यं प्रणतार्त्तिहा
॥४७॥शिव उवाच
प्रीतः स्तुत्यानया तात ददामि वरमुत्तमम् ।
इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां व्रज
॥४८॥समुद्भूतोऽनलो योऽयं भालनेत्रात्सुरेशहा ।
एनं त्यक्ष्याम्यहं दूरं यथेन्द्रं नैव पीडयेत्
॥४९॥सनत्कुमार उवाच् ।
इत्युक्त्वा तं करे धृत्वा स्वतेजोऽनलमद्भुतम् ।
भालनेत्रात्समुद्भूतं प्राक्षिपल्लवणांभसि
॥५०॥ततश्चांतर्दधे रुद्रो महालीलाकरः प्रभुः ।
गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम्
॥५१॥यदर्थं गमनोद्युक्तौ दर्शनं प्राप्य तस्य वै ।
कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा
॥५२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखण्डे जलंधरवधोपाख्याने शक्रजीवनं नाम त्रयोदशोऽ ध्यायः ॥ १३ ॥