मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ४३

3
रुद्रसंहिता · युद्धखण्डः · 43

हिरण्यनेत्रहिरण्यकशिपुवधवर्णनम्

व्यास उवाच

सनत्कुमार सर्वज्ञ हते तस्मिन्सुरद्रुहि ।

किमकार्षीत्ततस्तस्य ज्येष्ठभ्राता महासुरः

॥१॥

कुतूहलमिति श्रोतुं ममाऽतीह मुनीश्वर ।

तच्छ्रावय कृपां कृत्वा ब्रह्मपुत्र नमोस्तु ते

॥२॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः ।

सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम्

॥३॥

सनत्कुमार उवाच

भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ।

हिरण्यकशिपुर्व्यास पर्यतप्यद्रुषा शुचा

॥४॥

ततः प्रजानां कदनं विधातुं कदनप्रियान् ।

निर्दिदेशाऽसुरान्वीरान्हरि वैरप्रियो हि सः

॥५॥

अथ ते भर्तृसंदेशमादाय शिरसाऽसुराः ।

देवप्रजानां कदनं विदधुः कदनप्रियाः

॥६॥

ततो विप्रकृते लोकेऽसुरैस्तेर्दुष्टमानसैः ।

दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः

॥७॥

हिरण्यकशिपुर्भ्रातुस्संपरेतस्य दुःखितः ।

कृत्वा करोदकादीनि तत्कलत्राद्यसांत्वयत्

॥८॥

ततस्स दैत्यराजेन्द्रो ह्यजेयमजरामरम् ।

आत्मानमप्र तिद्वंद्वमेकराज्यं व्यधित्सत

॥९॥

स तेपे मंदरद्रोण्यां तपः परमदारुणम् ।

ऊर्द्ध्वबाहुर्नभोदृष्टिः षादांगुष्ठाश्रितावनिः

॥१०॥

तस्मिंस्तपस्तप्यमाने देवास्सर्वे बलान्विताः ।

दैत्यान्सर्वान्विनिर्जित्य स्वानि स्थानानि भेजिरे

॥११॥

तस्य मूर्द्ध्नस्समुद्भूतः सधूमोग्निस्तपोमयः ।

तिर्यगूर्द्ध्वमधोलोकानतपद्विष्वगीरितः

॥१२॥

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुस्सुराः ।

धात्रे विज्ञापयामासुस्तत्तपोविकृताननाः

॥१३॥

अथ विज्ञापितो देवैर्व्यास तैरात्मभूर्विधिः ।

परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् १ ।

प्रताप्य लोकानखिलांस्ततोऽसौ समागतं पद्मभवं ददर्श ।

वरं हि दातुं तमुवाच धाता वरं वृणीष्वेति पितामहोपि ।

निशम्य वाचं मधुरां विधातुर्वचोऽब्रवीदेव ममूढबुद्धिः

॥१५॥

हिरण्यकशिपुरुवाच

मृत्योर्भयं मे भगवन्प्रजेश पितामहाभून्न कदापि देव ।

शास्त्रास्त्रपाशाशनिशुष्कवृक्षगिरीन्द्रतोयाग्निरिपुप्रहारैः

॥१६॥

देवैश्च दैत्यैर्मुनिभिश्च सिद्धैस्त्वत्सृष्टजीवैर्बहुवाक्यतः किम् ।

स्वर्गे धरण्यां दिवसे निशायां नैवोर्द्ध्वतो नाप्यधतः प्रजेश

॥१७॥

सनत्कुमार उवाच

तस्यैतदीदृग्वचनं निशम्य दैत्येन्द्र तुष्टोऽस्मि लभस्व सर्वम् ।

प्रणम्य विष्णुं मनसा तमाह दयान्वितोऽसाविति पद्मयोनिः

॥१८॥

अलं तपस्ते परिपूर्ण कामस्समाः सहस्राणि च षण्णवत्य ।

उत्तिष्ठ राज्यं कुरु दानवानां श्रुत्वा गिरं तत्सुमुखो बभूव

॥१९॥

राज्याभिषिक्तः प्रपितामहेन त्रैलोक्यनाशाय मतिं चकार ।

उत्साद्य धर्मान् सकलान्प्रमत्तो जित्वाहवे सोपि सुरान्समस्तान्

॥२०॥

ततो भयादिंद्रमुखाश्च देवाः पितामहाज्ञां समवाप्य सर्वे ।

उपद्रुता दैत्यवरेण जाताः क्षीरोदधिं यत्र हरिस्तु शेते

॥२१॥

आराधयामासुरतीव विष्णुं स्तुत्वा वचोभित्सुखदं हि मत्वा ।

निवेदयामासुरथो प्रसन्नं दुःखं स्वकीयं सकलं हि तेते

॥२२॥

श्रुत्वा तदीयं सकलं हि दुःखं तुष्टो रमेशः प्रददौ वरांस्तु ।

उत्थाय तस्माच्छयनादुपेन्द्रो निजानुरूपैर्विविधैर्वचोभिः

॥२३॥

आश्वास्य देवानखिलान्मुनीन्वा उवाच वैश्वानरतुल्यतेजाः ।

दैत्यं हनिष्ये प्रसभं सुरेशाः प्रयात धामानि निजानि तुष्टाः

॥२४॥

श्रुत्वा रमेशस्य वचस्सुरेशाः शक्रादिकास्ते निखिलाः सुतुष्टाः ।

ययुः स्वधामानि हिरण्यनेत्रानुजं च मत्वा निहतं मुनीश

॥२५॥

आश्रित्य रूपं जटिलं करालं दंष्ट्रायुधं तीक्ष्णनखं सुनासम् ।

सैंहं च नारं सुविदारितास्यं मार्तंडकोटिप्रतिमं सुघोरम्

॥२६॥

युगांतकालाग्निसमप्रभावं जगन्मयं किं बहुभिर्वचोभिः ।

अस्तं रवौसोऽपि हि गच्छतीशो गतोऽसुराणां नगरीं महात्मा

॥२७॥

कृत्वा च युद्धं प्रबलैस्स दैत्यैर्हत्वाथ तान्दैत्यगणान्गृहीत्वा ।

बभ्राम तत्राद्रुतविक्रमश्च बभंज तांस्तानसुरान्नृसिंहः ।

दृष्टस्स दैत्यैरतुलप्रभावस्ते रेभिरे ते हि तथैव सर्वे ।

सिंहं च तं सर्वमयं निरीक्ष्य प्रह्लादनामा दितिजेन्द्रपुत्रः ।

उवाच राजानमयं मृगेन्द्रो जगन्मयः किं समुपागतश्च

॥२९॥

प्रह्लाद उवाच

एष प्रविष्टो भगवाननंतो नृसिंहमात्रो नगरं त्वदंतः ।

निवृत्य युद्धाच्छ रणं प्रयाहि पश्यामि सिंहस्य करालमूर्त्तिम्

॥३०॥

यस्मान्न योद्धा भुवनत्रयेऽपि कुरुष्व राज्यं विनमन्मृगेन्द्रम् ।

श्रुत्वा स्वपुत्रस्य वचो दुरात्मा तमाह भीतोऽसि किमत्र पुत्र

॥३१॥

उक्त्वेति पुत्रं दितिजाधिनाथो दैत्यर्षभान्वीरवरान्स राजा ।

गृह्णंतु वै सिंहममुं भवंतो वीरा विरूपभ्रुकुटीक्षणं तु

॥३२॥

तस्याज्ञया दैत्यवरास्ततस्ते ग्रहीतुकामा विविशुर्मृगेन्द्रम् ।

क्षणेन दग्धाश्शलभा इवाग्निं रूपाभिलाषात्प्रविविक्षवो वै

॥३३॥

दैत्येषु दग्धेष्वपि दैत्यराजश्चकार युद्धं स मृगाधिपेन ।

शस्त्रैस्समग्रैरखिलैस्तथास्त्रैश्श क्त्यर्ष्टिपाशांकुशपावकाद्यैः

॥३४॥

संयुध्यतोरेव तयोर्जगाम ब्राह्मं दिनं व्यास हि शस्त्रपाण्योः ।

प्रवीरयोर्वीररवेण गर्जतोः परस्परं क्रोधसुयुक्तचेतसोः

॥३५॥

ततः स दैत्यस्सहसा बहूंश्च कृत्वा भुजाञ्छस्त्रयुतान्निरीक्ष्य ।

नृसिंहरूपं प्रययौ मृगेन्द्र संयुध्यमानं सहसा समंतात्

॥३६॥

ततस्सुयुद्धं त्वतिदुस्सहं तु शस्त्रैस्समस्तैश्च तथाखिलास्त्रैः ।

कृत्वा महादैत्यवरो नृसिंहं क्षयं गतैश्शूल धरोऽभ्युपायात्

॥३७॥

ततो गृहीतस्स मृगाधिपेन भुजैरनेकैर्गिरिसारवद्भि ।

निधाय जानौ स भुजांतरेषु नखांकुरैर्दानवमर्मभिद्भिः ।

नखास्त्रहृत्पद्ममसृग्विमिश्रमुत्पाद्य जीवाद्विगतः क्षणेन ।

त्यक्तस्तदानीं स तु काष्ठभूतः पुनः पुनश्चूर्णितसर्वगात्रः

॥३९॥

तस्मिन्हते देवरिपौ प्रसन्नः प्रह्लादमामंत्र्य कृतप्रणामम् ।

राज्येऽभिषिच्याद्भुतवीर्यविष्णुस्ततः प्रयातो गतिमप्रतर्क्याम्

॥४०॥

ततोऽतिहृष्टास्सकलास्सुरेशाः प्रणम्य विष्णुं दिशि विप्र तस्याम् ।

ययुः स्वधामानि पितामहाद्याः कृतस्वकार्यं भगवंतमीड्यम्

॥४१॥

प्रवर्णितं त्वंधकजन्म रुद्राद्धिरण्यनेत्रस्य मृतिर्वराहात् ।

नृसिंहतस्तत्सहजस्य नाशः प्रह्लादराज्याप्तिरिति प्रसंगात्

॥४२॥

शृणु त्विदानीं द्विजवर्य मत्तोंधकप्रभावं भवकृत्यलब्धम् ।

हरेण युद्धं खलु तस्य पश्चाद्गणाधिपत्यं गिरिशस्य तस्य

॥४३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे गणाधिपत्यप्राप्त्यंधकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥