मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ८

3
रुद्रसंहिता · युद्धखण्डः · 8

सनत्कुमार सर्वज्ञ शैवप्रवर सन्मते

व्यास उवाच

सनत्कुमार सर्वज्ञ शैवप्रवर सन्मते ।

अद्भुतेयं कथा तात श्राविता परिमेशितुः

॥१॥

इदानीं रथनिर्माणं ब्रूहि देवमयं परम् ।

शिवार्थं यत्कृतं दिव्यं धीमता विश्वकर्मणा

॥२॥

सूत उवाच

इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः ।

सनत्कुमारः प्रोवाच स्मृत्वा शिवपदांबुजम्

॥३॥

सनत्कुमार उवाच

शृणु व्यास महाप्राज्ञ रथादेर्निर्मितिं मुने ।

यथामति प्रवक्ष्येऽहं स्मृत्वा शिवपदाम्बुजम्

॥४॥

अथ देवस्य रुद्रस्य निर्मितो विश्वकर्मणा ।

सर्वलोकमयो दिव्यो रथो यत्नेन सादरम्

॥५॥

सर्वभूतमयश्चैव सौवर्णस्सर्वसंमतः ।

रथांगं दक्षिणं सूर्यस्तद्वामं सोम एव च

॥६॥

दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम् ।

अरेषु तेषु विप्रेन्द्र आदित्या द्वादशैव तु

॥९॥

शशिनः षोडशारास्तु कला वामस्य सुव्रत ।

ऋक्षाणि तु तथा तस्य वामस्यैव विभूषणम् ८ ।

ऋतवो नेमयः षट् च तयोर्वै विप्रपुंगव ।

पुष्करं चांतरिक्षं वै रथनीडश्च मंदरः

॥९॥

अस्ताद्रिरुद(दद्र?)याद्रिस्तु तावुभौ कूबरौ स्मृतौ ।

अधिष्ठानं महामेरुराश्रयाः केशराचलाः

॥१०॥

वेगस्संवत्सरास्तस्य अयने चक्रसंगमौ ।

मुहूर्ता वंधुरास्तस्य शम्याश्चैव कलाः स्मृताः

॥११॥

तस्य काष्ठाः स्मृता घोणाश्चाक्षदंडाः क्षणाश्च वै ।

निमेषाश्चानुकर्षश्च ईषाश्चानुलवाः स्मृताः

॥१२॥

द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ ।

युगान्तकोटितौ तस्य भ्रमकामदुघौ स्मृतौ

॥१३॥

ईषादंडस्तथा व्यक्तं वृद्धिस्तस्यैव नड्वलः ।

कोणास्तस्याप्यहंकारो भूतानि च बलं स्मृतम्

॥१४॥

इन्द्रियाणि च तस्यैव भूषणानि समंततः ।

श्रद्धा च गतिरस्यैव रथस्य मुनिसत्तम

॥१५॥

तदानीं भूषणान्येव षडंगान्युपभूषणम् ।

पुराणन्यायमीमांसा धर्मशास्त्राणि सुव्रताः

॥१६॥

बलाशया वराश्चैव सर्वलक्षणसंयुताः ।

मंत्रा घं(घ?)टाः स्मृतास्तेषां वर्णपादास्तदाश्रमाः

॥१७॥

अथो बन्धो ह्यनन्तस्तु सहस्रफणभूषितः ।

दिशः पादा रथस्यास्य तथा चोपदिशश्चह

॥१८॥

पुष्कराद्याः पताकाश्च सौवर्णा रत्नभूषिताः ।

समुद्रास्तस्य चत्वारो रथकंबलिनस्स्मृताः

॥१९॥

गंगाद्यास्सरित श्रेष्ठाः सर्वाभरणभूषिताः ।

चामरासक्तहस्ताग्रास्सर्वास्त्रीरूपशोभिताः

॥२०॥

तत्र तत्र कृतस्थानाः शोभयांचक्रिरे रथम् ।

आवहाद्यास्तथा सप्त सोपानं हैममुत्तमम्

॥२१॥

लोकालोकाचलस्तस्योपसोपानस्समंततः ।

विषयश्च तथा बाह्यो मानसादिस्तु शोभनः

॥२२॥

पाशास्समंततस्तस्य सर्वे वर्षाचलास्स्मृताः ।

तलास्तस्य रथस्याऽथ सर्वे तलनिवासिनः

॥२३॥

सारथिर्भगवान्ब्रह्मा देवा रश्मिधराः स्मृताः ।

प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम्

॥२४॥

अकारश्च महच्छत्रं मंदरः पार्श्वदंडभाक् ।

शैलेन्द्रः कार्मुकं तस्य ज्या भुजंगाधिपस्स्वयम्

॥२५॥

घंटा सरस्वती देवी धनुषः श्रुतिरूपिणी ।

इषुर्विष्णुर्महातेजास्त्वग्निश्शल्यं प्रकीर्तितम्

॥२६॥

हयास्तस्य तथा प्रोक्ताश्चत्वारो निगमा मुने ।

ज्योतींषि भूषणं तेषामवशिष्टान्यतः परम्

॥२७॥

अनीकं विषसंभूतं वायवो वाजका स्मृताः ।

ऋषयो व्यासमुख्याश्च वाहवाहास्तथाभवन्

॥२८॥

स्वल्पाक्षरैस्संब्रवीमि किं बहूक्त्या मुनीश्वर ।

ब्रह्मांडे चैव यत्किंचिद्वस्तुतद्वै रथे स्मृतम्

॥२९॥

एवं सम्यक्कृतस्तेन धीमता विश्वकर्मणा ।

सरथादिप्रकारो हि ब्रह्मविष्ण्वाज्ञया शुभः

॥३०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे रथादियुद्धप्रकारवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥