मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ३०

3
रुद्रसंहिता · युद्धखण्डः · 30

देवदेवस्तुतिः

सनत्कुमार उवाच

गत्वा तदैव स विधिस्तदा व्यास रमेश्वरः ।

शिवलोकं महादिव्यं निराधारमभौतिकम्

॥१॥

साह्लादोभ्यन्तरं विष्णुर्जगाम मुदिताननः ।

नानारत्नपरिक्षिप्तं विलसंतं महोज्ज्वलम्

॥२॥

संप्राप्य प्रथमद्वारं विचित्रं गणसेवितम् ।

शोभितं परया लक्ष्म्या महोच्चमतिसुन्दरम्

॥३॥

ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ।

शोभिताञ्श्वेतवस्त्रैश्च रत्नभूषणभूषितान्

॥४॥

पञ्चवक्त्रत्रिनयनान्गौरसुन्दरविग्रहान् ।

त्रिशूलादिधरान्वीरान्भस्मरुद्राक्षशोभितान्

॥५॥

सब्रह्मापि रमेशश्च तान् प्रणम्य विनम्रकः ।

कथयामास वृत्तान्तं प्रभुसंदर्शनार्थकम्

॥६॥

तदाज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ।

परं द्वारं महारम्यं विचित्रं परम प्रभम्

॥७॥

प्रभूपकंठगत्यर्थं वृत्तांतं संन्यवेदयत् ।

तद्द्वारपाय चाज्ञप्तस्तेनान्यं प्रविवेश ह

॥८॥

एवं पंचदशद्वारान्प्रविश्य कमलोद्भवः ।

महाद्वारं गतस्तत्र नन्दिनं प्रददर्श ह

॥९॥

सम्यङ्नत्वा च तं स्तुत्वा पूर्ववत्तेन नन्दिना ।

आज्ञप्तश्च शनैर्विष्णुर्विवेशाभ्यंतरं मुदा

॥१०॥

ददर्श गत्वा तत्रोच्चैस्सभां शंभोस्समुत्प्रभाम् ।

तां पार्षदैः परिवृतां लसद्देहैस्सुभूषिताम्

॥११॥

महेश्वरस्य रूपैश्च दिग्भुजैश्शुभकांतिभिः ।

पञ्चवक्त्रैस्त्रिनयनैश्शितिकंठमहोज्ज्वलैः

॥१२॥

सद्रत्नयुक्तरुद्राक्षभस्माभरणभूषितैः ।

नवेन्दुमंडलाकारां चतुरस्रां मनोहराम्

॥१३॥

मणीन्द्रहारनिर्माणहीरसारसुशोभिताम् ।

अमूल्यरत्नरचितां पद्मपत्रैश्च शोभिताम्

॥१४॥

माणिक्यजालमालाभिर्नानाचित्रविचित्रिताम् ।

पद्मरागेन्द्ररचितामद्भुतां शंकरेच्छया

॥१५॥

सोपानशतकैर्युक्तां स्यमंतकविनिर्मितैः ।

स्वर्णसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः

॥१६॥

इन्द्रनीलमणिस्तंभैर्वेष्टितां सुमनोहराम् ।

सुसंस्कृतां च सर्वत्र वासितां गंधवायुना

॥१७॥

सहस्रयोजनायामां सुपूर्णां बहुकिंकरैः ।

ददर्श शंकरं सांबं तत्र विष्णुस्सुरेश्वरः

॥१८॥

वसंतं मध्यदेशे च यथेन्दुतारकावृतम् ।

अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम्

॥१९॥

किरीटिनं कुंडलिनं रत्नमालाविभूषितम् ।

भस्मोद्धूलितसर्वाङ्गं बिभ्रतं केलिपंकजम्

॥२०॥

पुरतो गीतनृत्यश्च पश्यंतं सस्मितं मुदा

॥२१॥

शांतं प्रसन्नमनसमुमाकांतं महोल्लसम् ।

देव्या प्रदत्त ताम्बूलं भुक्तवंतं सुवासितम्

॥२२॥

गणैश्च परया भक्त्या सेवितं श्वेतचामरैः ।

स्तूयमानं च सिद्धैश्च भक्तिनम्रात्मकंधरैः

॥२३॥

गुणातीतं परेशानं त्रिदेवजनकं विभुम् ।

निर्विकल्पं निराकारं साकारं स्वेच्छया शिवम्

॥२४॥

अमायमजमाद्यञ्च मायाधीशं परात्परम् ।

प्रकृतेः पुरुषस्यापि परमं स्वप्रभुं सदा

॥२५॥

एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं समम् ।

विष्णुर्ब्रह्मा तुष्टुवतुः प्रणम्य सुकृतांजली

॥२६॥

विष्णुविधी ऊचतुः

देवदेव महादेव परब्रह्माखिलेश्वर ।

त्रिगुणातीत निर्व्यग्र त्रिदेवजनक प्रभो

॥२७॥

वयं ते शरणापन्ना रक्षस्मान्दुखितान्विभो ।

शंखचूडार्दितान्क्लिष्टान्सन्नाथान्परमेश्वर

॥२८॥

अयं योऽधिष्ठितो लोको गोलोक इति स स्मृतः ।

अधिष्ठाता तस्य विभुः कृष्णोऽयं त्वदधिष्ठितः

॥२९॥

पार्षदप्रवरस्तस्य सुदामा दैवयंत्रितः ।

राधाशप्तो बभूवाथ शंखचूडश्च दानवः

॥३०॥

तेन निस्सारिताः शंभो पीड्यमानाः समंततः ।

हृताधिकारस्त्रिदशा विचरंति महीतले

॥३१॥

त्वां विना न स वध्यश्च सर्वेषां त्रिदिवौकसाम् ।

तं घातय महेशान लोकानां सुखमावह

॥३२॥

त्वमेव निर्गुणस्सत्योऽनंतोऽनंतपराक्रमः ।

सगुणश्च सन्निवेशः प्रकृतेः पुरुषात्परः

॥३३॥

रजसा सृष्टिसमये त्वं ब्रह्मा सृष्टिकृत्प्रभो ।

सत्त्वेन पालने विष्णुस्त्रिभुवावन कारकः

॥३४॥

तमसा प्रलये रुद्रो जगत्संहारकारकः ।

निस्त्रैगुण्ये शिवाख्यातस्तुर्य्यो ज्योतिः स्वरूपकः

॥३५॥

त्वं दीक्षया च गोलोके त्वं गवां परिपालकः ।

त्वद्गोशालामध्यगश्च कृष्णः क्रीडत्यहर्निशम्

॥३६॥

त्वं सर्वकारणं स्वामी विधि विष्ण्वीश्वरः परम् ।

निर्विकारी सदा साक्षी परमात्मा परेश्वरः

॥३७॥

दीनानाथसहायी च दीनानां प्रतिपालकः ।

दीनबंधुस्त्रिलोकेशश्शरणागतवत्सलः

॥३८॥

अस्मानुद्धर गौरीश प्रसीद परमेश्वरः ।

त्वदधीना वयं नाथ यदिच्छसि तथा कुरु

॥३९॥

सनत्कुमार उवाच

इत्युक्त्वा तौ सुरौ व्यास हरिर्ब्रह्मा च वै तदा ।

विरेमतुः शिवं नत्वा करौ बद्ध्वा विनीतकौ

॥४०॥

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे देवदेवस्तुतिर्नाम त्रिंशोऽध्यायः ॥ ३० ॥