मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय २३

3
रुद्रसंहिता · युद्धखण्डः · 23

वृन्दापतिव्रतभंगदेहत्यागवर्णनम्

व्यास उवाच

सनत्कुमार सर्वज्ञ वद त्वं वदतां वर ।

किमकार्षीद्धरिस्तत्र धर्मं तत्याज सा कथम्

॥१॥

सनत्कुमार उपाच ।

विष्णुर्जालंधरं गत्वा दैत्यस्य पुटभेदनम् ।

पातिव्रत्यस्य भंगाय वृन्दायाश्चा करोन्मतिम्

॥२॥

वृन्दां स दर्शयामास स्वप्नं मायाविनां वरः ।

स्वयं तन्नगरोद्यानमास्थितोऽद्भुतविग्रहः

॥३॥

अथ वृन्दा तदा देवी तत्पत्नी निशि सुव्रता ।

हरेर्मायाप्रभावात्तु दुस्स्वप्नं सा ददर्श ह

॥४॥

स्वप्नमध्ये हि सा विष्णुमायया प्रददर्श ह ।

भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगंबरम्

॥५॥

कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ।

दक्षिणाशां गतं मुंडं तमसा च वृतं तदा

॥६॥

स्वपुरं सागरे मग्नं सहसैवात्मना सह ।

इत्यादि बहुदुस्स्वप्नान्निशांते सा ददर्श ह

॥७॥

ततः प्रबुध्य सा बाला तं स्वप्नं स्वं विचिन्वती ।

ददर्शोदितमादित्यं सच्छिद्रं निःप्रभं मुहुः

॥८॥

तदनिष्टमिदं ज्ञात्वा रुदंती भयविह्वला ।

कुत्रचिन्नाप सा शर्म गोपुराट्टालभूमिषु

॥९॥

ततस्सखीद्वययुता नगरोद्यानमागमत् ।

तत्रापि सा गता बाला न प्राप कुत्रचित्सुखम्

॥१०॥

ततो जलंधरस्त्री सा निर्विण्णोद्विग्नमानसा ।

वनाद्वनांतरं याता नैव वेदात्मना तदा

॥११॥

भ्रमती सा ततो बाला ददर्शातीव भीषणौ ।

राक्षसौ सिंहवदनौ दृष्ट्वा दशनभासुरौ

॥१२॥

तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा ।

ददर्श तापसं शांतं सशिष्यं मौनमास्थितम्

॥१३॥

ततस्तत्कंठमासाद्य निजां बाहुलतां भयात् ।

मुने मां रक्ष शरणमागतास्मीत्यभाषत

॥१४॥

मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा ।

हुंकारेणैव तौ घोरौ चकार विमुखौ द्रुतम्

॥१५॥

तद्धुंकारभयत्रस्तौ दृष्ट्वा तौ विमुखौ गतौ ।

विस्मितातीव दैत्येन्द्रपत्नी साभून्मुने हृदि

॥१६॥

ततस्सा मुनिनाथं तं भयान्मुक्ता कृतांजलिः ।

प्रणम्य दंडवद्भूमौ वृन्दा वचनमब्रवीत्

॥१७॥

वृन्दोवाच

मुनिनाथ दयासिन्धो परपीडानिवारक ।

रक्षिताहं त्वया घोराद्भयादस्मात्ख लोद्भवात्

॥१८॥

समर्थस्सर्वथा त्वं हि सर्वज्ञोऽपि कृपानिधे ।

किंचिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय

॥१९॥

जलंधरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो ।

स तत्रास्ते कथं युद्धे तन्मे कथय सुव्रत

॥२०॥

सनत्कुमार उवाच

मुनिस्तद्वाक्यमाकर्ण्य मौनकपटमास्थितः ।

कर्त्तुं स्वार्थं विधानज्ञः कृपयोर्द्ध्वमवैक्षत

॥२१॥

तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ ।

ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ

॥२२॥

नीत्वा क्षणार्द्धमागत्य पुनस्तस्याग्रतः स्थितौ ।

तस्यैव कं कबंधं च हस्तावास्तां मुनीश्वर

॥२३॥

शिरः कबंधं हस्तौ तौ दृष्ट्वाब्धितनयस्य सा ।

पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता

॥२४॥

वृन्दोवाच

यः पुरा सुखसंवादैर्विनोदयसि मां प्रभो ।

स कथं न वदस्यद्य वल्लभां मामनागसम्

॥२५॥

येन देवास्सगंधर्वा निर्जिता विष्णुना सह ।

कथं स तापसेनाद्य त्रैलोक्यविजयी हत

॥२६॥

नांगीकृतं हि मे वाक्यं रुद्रतत्त्वमजानता ।

परं ब्रह्म शिवश्चेति वदंत्या दैत्यसत्तम

॥२७॥

ततस्त्वं हि मया ज्ञातस्तव सेवाप्रभावतः ।

गर्वितेन त्वया नैव कुसंगवशगेन हि

॥२८॥

इत्थंप्रभाष्य बहुधा स्वधर्मस्था च तत्प्रिया ।

विललाप विचित्रं सा हृदयेन विदूयता

॥२९॥

ततस्सा धैर्यमालंब्य दुःखोच्छ्रवा सान्विमुंचती ।

उवाच मुनिवर्यं तं सुप्रणम्य कृतांजलिः

॥३०॥

वृन्दोवाच

कृपानिधे मुनिश्रेष्ठ परोपकरणादर ।

मयि कृत्वा कृपां साधो जीवयैनं मम प्रभुम्

॥३१॥

यत्त्वमस्य पुनश्शक्तो जीवनाय मतो मम ।

अतस्संजीवयैनं मे प्राणनाथं मुनीश्वर

॥३२॥

सनत्कुमार उवाच

इत्युक्त्वा दैत्यपत्नी सा पतिव्रत्यपरायणाः ।

पादयोः पतिता तस्य दुःखश्वासान् विमुञ्चती

॥३३॥

मुनिरुवाच

नायं जीवयितुं शक्तो रुद्रेण निहतो युधि ।

रुद्रेण निहता युद्धे न जीवन्ति कदाचन

॥३४॥

तथापि कृपयाविष्ट एनं संजीवयाम्यहम् ।

रक्ष्याश्शरणगाश्चेति जानन्धर्मं सनातनम्

॥३५॥

सनत्कुमार उवाच

इत्युक्त्वा स मुनिस्तस्या जीवयित्वा पतिं मुने ।

अंतर्दधे ततो विष्णुस्सर्वमायाविनां वरः

॥३६॥

द्रुतं स जीवितस्तेनोत्थितः सागरनन्दनः ।

वृन्दामालिंग्य तद्वक्त्रं चुचुंब प्रीतमानसः

॥३७॥

अथ वृन्दापि भर्तारं दृष्ट्वा हर्षितमानसा ।

जहौ शोकं च निखिलं स्वप्नवद्धृद्यमन्यत

॥३८॥

अथ प्रसन्नहृदया सा हि संजातहृच्छया ।

रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरान्

॥३९॥

कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव हि ।

निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत्

॥४०॥

वृन्दोवाच

धिक् तदेवं हरे शीलं परदाराभिगामिनः ।

ज्ञातोऽसि त्वं मया सम्यङ्मायी प्रत्यक्षतापसः

॥४१॥

सनत्कुमार उवाच

इत्युक्त्वा क्रोधमापन्ना दर्शयंती स्वतेजसम् ।

शशाप केशवं व्यास पातिव्रत्यरता च सा

॥४२॥

रे महाधम दैत्यारे परधर्मविदूषक ।

गृह्णीष्व शठ मद्दत्तं शापं सर्वविषोल्बणम्

॥४३॥

यौ त्वया मायया ख्यातौ स्वकीयौ दर्शितौ मम ।

तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः

॥४४॥

त्वं चापि भार्यादुःखार्तो वने कपिसहायवान् ।

भ्रम सर्पेश्वरेणायं यस्ते शिष्यत्वमागतः४५ ।

सनत्कुमार उवाच ।

इत्युक्त्वा सा तदा वृन्दा प्रविशद्धव्यवाहनम् ।

विष्णुना वार्यमाणापि तस्मितासक्तचेतसा४६ ।

तस्मिन्नवसरे देवा ब्रह्माद्या निखिला मुने ।

आगता खे समं दारैः सद्गतिं वै दिदृक्षवः

॥४७॥

अथ दैत्येन्द्रपत्न्यास्तु तज्ज्योतिः परमं महत् ।

पश्यतां सर्वदेवानामलोकमगमद्द्रुतम्

॥४८॥

शिवातनौ विलीनं तद्वृन्दातेजो बभूव ह ।

आसीज्जयजयारावः खस्थितामर पंक्तिषु

॥४९॥

एवं वृन्दा महाराज्ञी कालनेमिसुतोत्तमा ।

पातिव्रत्यप्रभावाच्च मुक्तिं प्राप परां मुने

॥५०॥

ततो हरिस्तामनुसंस्मन्मुहुर्वृन्दाचिताभस्मरजोवगुंठितः ।

तत्रैव तस्थौ सुरसिद्धसंघकैः प्रबोध्यमानोपि ययौ न शांतिम्

॥५१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरवधोपाख्याने वृन्दापतिव्रतभंगदेहत्यागवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥