विष्णुजलंधरयुद्धवर्णनम्
सनत्कुमार उवाच
अथ दैत्या महावीर्याश्शूलैः परशुपट्टिशैः ।
निजघ्नुस्सर्वदेवांश्च भयव्याकुलमानसान्
॥१॥दैत्यायुधैः समाविद्धदेहा देवास्सवासवाः ।
रणाद्विदुद्रुवुस्सर्वे भयव्याकुलमानसाः
॥२॥पलायनपरान्दृष्ट्वा हृषीकेशस्सुरानथ ।
विष्णुर्वै गरुडारूढो योद्धुमभ्याययौ द्रुतम् ।
३ सुदर्शनेन चक्रेण सर्वतः प्रस्फुरन्रुचा ।
सुशोभितकराब्जश्च रेजे भक्ताभयंकरः
॥८॥शंखखड्गगदाशार्ङ्गधारी क्रोधसमन्वितः ।
कठोरास्त्रो महावीरस्सर्वयुद्धविशारदः
॥५॥धनुषं शार्ङ्गनामानं विस्फूर्य्य विननाद ह ।
तस्य नादेन त्रैलोक्यं पूरितं महता मुने
॥६॥शार्ङ्गनिस्सृतबाणैश्च दितिजानां शिरांसि वै ।
चकर्त्त भगवान् विष्णुः कोटिशो रुट् समाकुलः
॥७॥अथारुणानुजजवपक्षवातप्रपीडिताः ।
वात्याधिवर्त्तिता दैत्या बभ्रमुः खे यथा घनाः
॥८॥ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ।
चुक्रोधाति महादैत्यो देववृन्दभयंकरः
॥९॥मर्द्दयंतं च तं दृष्ट्वा दैत्यान् प्रस्फुरिताधरः ।
योद्धुमभ्याययौ वीरो वेगेन हरिणा सह
॥१०॥स चकार महानादं देवासुरभयंकरम् ।
दैत्यानामधिपः कर्णा विदीर्णाः श्रवणात्ततः
॥११॥भयंङ्करेण दैत्यस्य नादेन पूरितं तदा ।
जलंधरस्य महता चकम्पे सकलं जगत्
॥१२॥ततस्समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत् ।
आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत्
॥१३॥तयोश्च तेन युद्धेन परस्परमभून्मुने ।
देवासुरर्षिसिद्धानां भीकरेणातिविस्मयः
॥१४॥विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुश्शरान् ।
चिच्छेद तं च हृदये बाणेनैकेन ताडयन्
॥१५॥ततो दैत्यस्समुत्पत्य गदापाणिस्त्वरान्वितः ।
आहत्य गरुडं मूर्ध्नि पातयामास भूतले
॥१६॥विष्णुं जघान शूलेन तीक्ष्णेन प्रस्फुरद्रुचा ।
हृदये क्रोधसंयुक्तो दैत्यः प्रस्फुरिताधरः
॥१७॥विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव ।
तं विव्याध शरैस्तीक्ष्णैश्शार्ङ्गं विस्फूर्य दैत्यहा
॥१८॥विष्णुर्जलंधरं दैत्यं भयदेन शरेण ह ।
क्रोधाविष्टोऽतितीक्ष्णेन जघानाशु सुरारिहा
॥१९॥आगतं तस्य तं बाणं दृष्ट्वा दैत्यो महाबलः ।
छित्त्वा बाणेन विष्णुं च जघान हृदये द्रुतम्
॥२०॥केशवोऽपि महाबाहुं विक्षिप्तमसुरेण तम् ।
शरं तिलप्रमाणेन च्छित्त्वा वीरो ननाद ह
॥२१॥पुनर्बाण समाधत्त धनुषि क्रोधवेपितः ।
महाबलोऽथ बाणेन चिच्छेद स शिलीमुखम्
॥२२॥वासुदेवः पुनर्बाणं नाशाय विबुधद्विषः ।
क्रोधेनाधत्त धनुषि सिंहवद्विननाद ह
॥२३॥जलंधरोऽथ दैत्येन्द्रः कोपच्छिन्नाधरो बली ।
शरेण श्वेन शार्ङ्गाख्यं धनुश्चिच्छेद वैष्णवम्
॥२४॥पुनर्बाणैस्सुतीक्ष्णैश्च जघान मधुसूदनम् ।
उग्रवीर्यो महावीरो देवानां भयकारकः
॥२५॥स च्छिन्नधन्वा भगवान्केशवो लोकरक्ष कः ।
जलंधरस्य नाशाय चिक्षेप स्वगदां पराम्
॥२६॥सा गदा हरिणा क्षिप्ता ज्वलज्ज्वलनसन्निभा ।
अमोघगतिका शीघ्रं तस्य देहे ललाग ह
॥२७॥तया हतो महादैत्यो न चचालापि किंचन ।
जलंधरो मदोन्मत्तः पुष्पमालाहतो यथा
॥२८॥ततो जलंधरः क्रोधी देवत्रासकरोऽक्षिपत् ।
त्रिशूलमनलाकारं हरये रणदुर्म्मदः
॥२९॥अथ विष्णुस्तत्त्रिशूलं चिच्छेद तरसा द्रुतम् ।
नंदकाख्येन खड्गेन स्मृत्वा शिवपदाम्बुजम्
॥३०॥छिन्ने त्रिशूले दैत्येन्द्र उत्प्लुत्य सहसा द्रुतम् ।
आगत्य हृदये विष्णुं जघान दृढमुष्टिना
॥३१॥सोपि विष्णुर्महावीरोऽविगणय्य च तद्व्यथाम ।
जलंधरं च हृदये जघान दृढमुष्टिना
॥३२॥ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ।
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम्
॥३३॥एवं हि सुचिरं युद्धं कृत्वा तेनासुरेण वै ।
विस्मितोऽभून्मुनिश्रेष्ठ हृदि ग्लानिमवाप ह
॥३४॥अथ प्रसन्नो भगवान्मायी मायाविदां वरः ।
उवाच दैत्यराजानं मेघगंभीरया गिरा
॥३५॥विष्णुरुवाच
भोभो दैत्यवरश्रेष्ठ धन्यस्त्वं रणदुर्मदः ।
महायुधवरैर्यत्त्वं न भीतो हि महाप्रभुः
॥३६॥एभिरेवायुधैरुग्रैर्दैत्या हि बहवो हताः ।
महाजौ दुर्मदा वीराश्छिन्नदेहा मृतिं गताः
॥३७॥युद्धेन ते महादैत्य प्रसन्नोऽस्मि महान्भवान् ।
न दृष्टस्त्वत्समो वीरस्त्रैलोक्ये सचराचरे
॥३८॥वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् ।
अदेयमपि ते दद्मि यत्ते मनसि वर्तते
॥३९॥सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य विष्णोर्मायाविनो हरेः ।
प्रत्युवाच महाबुद्धिर्दैत्यराजो जलंधरः
॥४०॥जलंधर उवाच
यदि भावुक तुष्टोऽसि वरमे तन्ददस्व मे ।
मद्भगिन्या मया सार्धं मद्गेहे सगणो वस
॥४१॥सनत्कुमार उवाच
तदाकर्ण्य वचस्तस्य महादैत्यस्य खिन्नधीः ।
तथास्त्विति च देवेशो जगाद भगवान् हरिः
॥४२॥उवास स ततो विष्णुस्सर्वदेवगणैस्सह ।
जलंधरं नाम पुरमागत्य रमया सह
॥४३॥अथो जलंधरो दैत्यस्स्वभगिन्या च विष्णुना ।
उवास स्वालयं प्राप्तो हर्षाकुलितमानसः
॥४४॥जलंधरोऽथ देवानामधिकारेषु दानवान् ।
स्थापयित्वा सहर्षस्सन्पुनरागान्महीतलम्
॥४५॥देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंचि तम् ।
तदात्मवशगं कृत्वाऽतिष्ठत्सागरनंदनः
॥४६॥पातालभवने दैत्यं निशुंभं सुमहाबलम् ।
स्थापयित्वा स शेषादीनानय द्भूतलं बली
॥४७॥देवगंधर्वसिद्धौघान् सर्पराक्षसमानुषान् ।
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम्
॥४८॥एवं जलंधरः कृत्वा देवान्स्ववशवर्तिनः ।
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान्
॥४९॥न कश्चिद्व्याधितो नैव दुःखितो न कृशस्तथा ।
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति
॥५०॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरोपाख्याने विष्णुजलंधरयुद्धवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥