शंखचूडोत्पत्तिवर्णनम्
सनत्कुमार उवाच
अथान्यच्छंभुचरितं प्रेमतः शृणु वै मुने ।
यस्य श्रवणमात्रेण शिवभक्तिर्दृढा भवेत्
॥१॥शंखचूडाभिधो वीरो दानवो देवकंटकः ।
यथा शिवेन निहतो रणमूर्ध्नि त्रिशूलतः
॥२॥तच्छंभुचरितं दिव्यं पवित्रं पापनाशनम् ।
शृणु व्यास सुसंप्रीत्या वच्मि सुस्नेहतस्तव
॥३॥मरीचेस्तनयो धातुः पुत्रो यः कश्यपो मुनिः ।
स धर्मिष्ठस्सृष्टिकर्त्ता विध्याज्ञप्तः प्रजापतिः
॥४॥दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ।
तासां प्रसूतिः प्रसभं न कथ्या बहुविस्तृताः
॥५॥यत्र देवादिनिखिलं चराचरमभूज्जगत् ।
विस्तरात्तत्प्रवक्तुं च कः क्षमोऽस्ति त्रिलोकके
॥६॥प्रस्तुतं शृणु वृत्तांतं शंभुलीलान्वितं च यत् ।
तदेव कथयाम्यद्य शृणु भक्तिप्र वर्द्धनम्
॥७॥तासु कश्यपत्नीषु दनुस्त्वेका वरांगना ।
महारूपवती साध्वी पतिसौभाग्यवर्द्धिता
॥८॥आसंस्तस्या दनोः पुत्रा बहवो बलवत्तराः ।
तेषां नामानि नोच्यंते विस्तारभयतो मुने
॥९॥तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ।
तत्पुत्रो धार्मिको दंभो विष्णुभक्तो जितेन्द्रियः
॥१०॥नासीत्तत्तनयो वीरस्ततश्चिंतापरोऽभवत् ।
शुक्राचार्यं गुरुं कृत्वा कृष्णमंत्रमवाप्य च
॥११॥तपश्चकार परमं पुष्करे लक्षवर्षकम् ।
कृष्णमंत्रं जजापैव दृढं बद्धासनं चिरम्
॥१२॥तपः प्रकुर्वतस्तस्य मूर्ध्नो निस्सृत्य प्रज्व लत् ।
विससार च सर्वत्र तत्तेजो हि सुदुस्सहम्
॥१३॥तेन तप्तास्सुरास्सर्वे मुनयो मनवस्तथा ।
सुनासीरं पुरस्कृत्य ब्रह्माणं शरणं ययुः
॥१४॥प्रणम्य च विधातारं दातारं सर्वसंपदाम् ।
तुष्टुवुर्विकलाः प्रोचुः स्ववृत्तांतं विशेषतः
॥१५॥तदाकर्ण्य विधातापि वैकुंठं तैर्ययौ सह ।
तदेव विज्ञापयितुं निखिलेन हि विष्णवे
॥१६॥तत्र गत्वा त्रिलोकेशं विष्णुं रक्षाकरं परम् ।
प्रणम्य तुष्टुवुस्सर्वे करौ बद्ध्वा विनम्रकाः
॥१७॥देवा ऊचुः
देवदेव न जानीमो जातं किं कारणं त्विह ।
संतप्तास्स कला जातास्तेजसा केन तद्वद
॥१८॥तप्तात्मनां त्वमविता दीनबंधोऽनुजीविनाम् ।
रक्षरक्ष रमानाथ शरण्यश्शरणागतान्
॥१९॥सनत्कुमार उवाच
इति श्रुत्वा वचो विष्णुर्ब्रह्मादीनां दिवौकसाम् ।
उवाच विहसन्प्रेम्णा शरणागतवत्सलः
॥२०॥विष्णुरुवाच
सुस्वस्था भवताव्यग्रा न भयं कुरुतामराः ।
नोपप्लवा भविष्यन्ते लयकालो न विद्यते
॥२१॥दानवो दंभनामा हि मद्भक्तः कुरुते तपः ।
पुत्रार्थी शमयिष्यामि तमहं वरदानतः
॥२२॥सनत्कुमार उवाच
इत्युक्तास्ते सुरास्सर्वे धैर्यमालंब्य वै मुने ।
ययुर्ब्रह्मादयस्सुस्थास्स्वस्वधामानि सर्वशः
॥२३॥अच्युतोऽपि वरं दातुं पुष्करं संजगाम ह ।
तपश्चरति यत्रासौ दंभनामा हि दानवः
॥२४॥तत्र गत्वा वरं ब्रूहीत्युवाच परिसांत्वयन् ।
गिरा सूनृतया भक्तं जपंतं स्वमनुं हरिः
॥२५॥तच्छ्रुत्वा वचनं विष्णोर्दृष्ट्वा तं च पुरः स्थितम् ।
प्रणनाम महाभक्त्या तुष्ट्वाव च पुनः पुनः
॥२६॥दंभ उवाच
देवदेव नमस्तेऽस्तु पुंडरीकविलोचन ।
रमानाथ त्रिलोकेश कृपा कुरु ममोपरि
॥२७॥स्वभक्तं तनयं देहि महाबल पराक्रमम् ।
त्रिलोकजयिनं वीरमजेयं च दिवौकसाम्
॥२८॥सनत्कुमार उवाच
इत्युक्तो दानवेन्द्रेण तं वरं प्रददौ हरिः ।
निवर्त्य चोग्रतपसस्ततस्सोंतरधान्मुने
॥२९॥गते हरौ दानवेन्द्रः कृत्वा तस्यै दिशे नमः ।
जगाम स्वगृहं सिद्धतदाः पूर्ण मनोरथः
॥३०॥कालेनाल्पेन तत्पत्नी सगर्भा भाग्यवत्यभूत् ।
रराज तेजासात्यंतं रोचयंती गृहांतरम्
॥३१॥सुदामानाम गोपो यो कृष्णस्य पार्षदाग्रणीः ।
तस्या गर्भे विवेशासौ राधाशप्तश्च यन्मुने
॥३२॥असूत समये साध्वी सुप्रभं तनयं ततः ।
जातकं सुचकारासौ पिताहूय मुनीन्बहून्
॥३३॥उत्सवस्सुमहानासीत्तस्मिञ्जाते द्विजोत्तम ।
नाम चक्रे पिता तस्य शंख चूडेति सद्दिने
॥३४॥पितुर्गेहे स ववृधे शुक्लपक्षे यथा शशी ।
शैशवेभ्यस्तविद्यस्तु स बभूव सुदीप्तिमान्
॥३५॥स बालक्रीडया नित्यं पित्रोर्हर्षं ततान ह ।
प्रियो बभूव सर्वेषां कुलजानां विशेषतः
॥३६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडोत्पत्तिवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥