मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ३१

3
रुद्रसंहिता · युद्धखण्डः · 31

अथाकर्ण्य वचश्शंभुर्हरिविध्योस्सुदीनयोः

सनत्कुमार उवाच

अथाकर्ण्य वचश्शंभुर्हरिविध्योस्सुदीनयोः ।

उवाच विहसन्वाण्या मेघनादगभीरया

॥१॥

शिव उवाच

हे हरे वत्स हे ब्रह्मंस्त्यजतं सर्वशो भयम् ।

शंखचूडोद्भवं भद्रं सम्भविष्यत्यसंशयम्

॥२॥

शंखचूडस्य वृत्तांतं सर्वं जानामि तत्त्वतः ।

कृष्णभक्तस्य गोपस्य सुदाम्नश्च पुरा प्रभो

॥३॥

मदाज्ञया हृषीकेशो कृष्णरूपं विधाय च ।

गोशालायां स्थितो रम्ये गोलोके मदधिष्ठिते

॥४॥

स्वतंत्रोहमिति स्वं स मोहं मत्वा गतः पुरा ।

क्रीडास्समकरोद्बह्वीस्स्वैरवर्तीव मोहितः

॥५॥

तं दृष्ट्वा मोहमत्युग्रं तस्याहं मायया स्वया ।

तेषां संहृत्य सद्बुद्धिं शापं दापितवान् किल

॥६॥

इत्थं कृत्वा स्वलीलां तां मायां संहृतवानहम् ।

ज्ञानयुक्तास्तदा ते तु मुक्तमोहास्सुबुद्धयः

॥७॥

समीपमागतास्ते मे दीनीभूय प्रणम्य माम् ।

अकुर्वन्सुनुतिं भक्त्या करौ बद्ध्वा विनम्रकाः

॥८॥

वृत्तांतमवदन्सर्वं लज्जाकुलितमानसाः ।

ऊचुर्मत्पुरतो दीना रक्षरक्षेति वै गिरः

॥९॥

तदा त्वहं भवस्तेषां संतुष्टः प्रोक्तवान् वचः ।

भयं त्यजत हे कृष्ण यूयं सर्वे मदाज्ञया

॥१०॥

रक्षकोऽहं सदा प्रीत्या सुभद्रं वो भविष्यति ।

मदिच्छयाऽखिलं जातमिदं सर्वं न संशयः

॥११॥

स्वस्थानं गच्छ त्वं सार्द्धं राधया पार्षदेन च ।

दानवस्तु भवेत्सोयं भारतेऽत्र न संशयः

॥१२॥

शापोद्धारं करिष्येऽहं युवयोस्समये खलु ।

मदुक्तमिति संधार्य शिरसा राधया सह

॥१३॥

श्रीकृष्णोऽमोददत्यंतं स्वस्थानमगमत्सुधीः ।

न्यष्ठातां सभयं तत्र मदाराधनतत्परौ

॥१४॥

मत्वाखिलं मदधीनमस्वतन्त्रं निजं च वै ।

स सुदामाऽभवद्राधाशापतो दानवेश्वरः

॥१५॥

शङ्खचूडाभिधो देवद्रोही धर्मविचक्षणः ।

क्लिश्नाति सुबलात्कृत्स्नं सदा देवगणं कुधीः

॥१६॥

मन्मायामोहितस्सोतिदुष्टमंत्रिसहा यवान् ।

तद्भयं त्यजताश्वेव मयि शास्तरि वै सति

॥१७॥

सनत्कुमार उवाच

इत्यूचिवाञ्शिवो यावद्धरिब्रह्मपुरः कथाम् ।

अभवत्तावदन्यच्च चरितं तन्मुने शृणु

॥१८॥

तस्मिन्नेवांतरे कृष्णो राधया पार्षदैः सह ।

सद्गोपैराययौ शंभुमनुकूलयितुं प्रभुम्

॥१९॥

प्रभुं प्रणम्य सद्भक्त्या मिलित्वा हरिमादरात् ।

संमतो विधिना प्रीत्या संतस्थौ शिवशासनात्

॥२०॥

ततः शंभुं पुनर्नत्वा तुष्टाव विहिताञ्जलिः ।

श्रीकृष्णो मोहनिर्मुक्तो ज्ञात्वा तत्त्वं शिवस्य हि

॥२१॥

श्रीकृष्ण उवाच

देवदेव महादेव परब्रह्म सतांगते ।

क्षमस्व चापराधं मे प्रसीद परमेश्वर

॥२२॥

त्वत्तः शर्व च सर्वं च त्वयि सर्वं महेश्वर ।

सर्वं त्वं निखिलाधीश प्रसीद परमेश्वर

॥२३॥

त्वं ज्योतिः परमं साक्षात्सर्वव्यापी सनातनः ।

त्वया नाथेन गौरीश सनाथास्सकला वयम्

॥२४॥

सर्वोपरि निजं मत्वा विहरन्मोहमाश्रितः ।

तत्फलं प्राप्तवानस्मि शापं प्राप्तस्सवामकः

॥२५॥

पार्षदप्रवरो यो मे सुदामा नाम गोपकः ।

स राधाशापतः स्वामिन्दानवीं योनिमाश्रितः

॥२६॥

अस्मानुद्धर दुर्ग्गेश प्रसीद परमेश्वर ।

शापोद्धारं कुरुष्वाद्य पाहि नश्शरणागतान्

॥२७॥

इत्युक्त्वा विररामैव श्रीकृष्णो राधया सह ।

प्रसन्नोऽभूच्छिवस्तत्र शरणागतवत्सलः ।

२८ श्रीशिव उवाच ।

हे कृष्ण गोपिकानाथ भयं त्यज सुखी भव ।

मयानुगृह्णता तात सर्वमाचरितं त्विदम्

॥२९॥

संभविष्यति ते भद्रं गच्छ स्वस्थानमुत्तमम् ।

स्थातव्यं स्वाधिकारे च सावधानतया सदा

॥३०॥

विहरस्व यथाकामं मां विज्ञाय परात्परम् ।

स्वकार्यं कुरु निर्व्यग्रं राधया पार्षदैः खलु

॥३१॥

वाराहप्रवरे कल्पे तरुण्या राधया सह ।

शापप्रभावं भुक्त्वा वै पुनरायास्यति स्वकम् ।

३२ सुदामा पार्षदो यो हि तव कृष्ण प्रियप्रियः ।

दानवीं योनिमाश्रित्येदानीं क्लिश्नाति वै जगत्

॥३३॥

शापप्रभावाद्राधाया देवशत्रुश्च दानवः ।

शङ्खचूडाभिधस्सोऽति दैत्यपक्षी सुरदुहः

॥३४॥

तेन निस्सारिता देवास्सेन्द्रा नित्यं प्रपीडिताः ।

हृताधिकारा विकृतास्सर्वे याता दिशो दश

॥३५॥

ब्रह्माच्युतौ तदर्थे ही हागतौ शरणं मम ।

तेषां क्लेशविनिर्मोक्षं करिष्ये नात्र संशयः

॥३६॥

सनत्कुमार उवाच

इत्युक्त्वा शंकरः कृष्णं पुनः प्रोवाच सादरम् ।

हरिं विधिं समाभाष्य वचनं क्लेशनाशनम्

॥३७॥

शिव उवाच

हे हरे हे विधे प्रीत्या ममेदं वचनं शृणु ।

गच्छतं त्वरितं तातौ देवानंदाय निर्भयम्

॥३८॥

कैलासवासिनं रुद्रं मद्रूपं पूर्णमुत्तमम् ।

देवकार्यार्थमुद्भूतं पृथगाकृतिधारिणम्

॥३९॥

एतदर्थे हि मद्रूपः परिपूर्णतमः प्रभुः ।

कैलासे भक्तवशतस्संतिष्ठति गिरौ हरे

॥४०॥

मत्तस्त्वत्तो न भेदोऽस्ति युवयोस्सेव्य एव सः ।

चराचराणां सर्वेषां सुरादीनां च सर्वदा

॥४१॥

आवयोभेदकर्ता यस्स नरो नरकं व्रजेत् ।

इहापि प्राप्नुयात्कृष्टं पुत्रपौत्रविवर्जितः

॥४२॥

इत्युक्तवंतं दुर्गेशं प्रणम्य च मुहुर्मुहुः ।

राधया सहितः कृष्णः स्वस्थानं सगणो ययौ

॥४३॥

हरिर्ब्रह्मा च तौ व्यास सानन्दौ गतसाध्वसौ ।

मुहुर्मुहुः प्रणम्येशं वैकुंठं ययतुर्द्रुतम्

॥४४॥

तत्रागत्याखिलं वृत्तं देवेभ्यो विनिवेद्य तौ ।

तानादाय ब्रह्मविष्णू कैलासं ययतुर्गिरिम्

॥४५॥

तत्र दृष्ट्वा महेशानं पार्वतीवल्लभं प्रभुम् ।

दीनरक्षात्तदेहं च सगुणं देवनायकम्

॥४६॥

तुष्टुवुः पूर्ववत्सर्वे भक्त्या गद्गदया गिरा ।

करौ बद्ध्वा नतस्कंधा विनयेन समन्विताः

॥४७॥

देवा ऊचुः

देवदेव महादेव गिरिजानाथ शंकर ।

वयं त्वां शरणापन्ना रक्ष देवान्भयाकुलान्

॥४८॥

शंखचूडदानवेन्द्रं जहि देवनिषूदनम् ।

तेन विक्लाविता देवाः संग्रामे च पराजिताः

॥४९॥

हृताधिकाराः कुतले विचरंति यथा नराः ।

देवलोको हि दुर्दृश्यस्तेषामासीच्च तद्भयात्

॥५०॥

दीनोद्धर कृपासिन्धो देवानुद्धर संकटात् ।

शक्रं भयान्महेशानहत्वा तं दानवाधिपम्

॥५१॥

इति श्रुत्वा वचश्शंभुर्देवानां भक्तवत्सलः ।

उवाच विहसन् वाण्या मेघनादगभीरया

॥५२॥

श्रीशंकर उवाच

हे हरे हे विधे देवाः स्वस्थानं गच्छत धुवम् ।

शंखचूडं वधिष्यामि सगणं नात्र संशयः

॥५३॥

सनत्कुमार उवाच

इत्याकर्ण्य महेशस्य वचः पीयूषसंनिभम् ।

ते सर्वे प्रमुदा ह्यासन्नष्टं मत्वा च दानवम्

॥५४॥

हरिर्जगाम वैकुंठं सत्यलोके विधिस्तदा ।

प्रणिपत्य महेशं च सुराद्याः स्वपदं ययुः

॥५५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे शिवोपदेशो नामैकत्रिंशोऽध्यायः ॥ ३१ ॥