मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ५२

3
रुद्रसंहिता · युद्धखण्डः · 52

ऊषाचरित्रवर्णनम्

सनत्कुमार उवाच

शृणुष्वान्यच्चरित्रं च शिवस्य परमात्मनः ।

भक्तवात्सल्यसंगर्भि परमानन्ददायकम्

॥१॥

पुरा बाणासुरो नाम दैवदोषाच्च गर्वितः ।

कृत्वा तांडवनृत्यं च तोषयामास शंकरम्

॥२॥

ज्ञात्वा संतुष्टमनसं पार्वतीवल्लभं शिवम् ।

उवाच चासुरो बाणो नतस्कन्धः कृतांजलिः

॥३॥

बाण उवाच

देवदेव महादेव सर्वदेवशिरोमणे ।

त्वत्प्रसादाद्बली चाहं शृणु मे परमं वचः

॥४॥

दोस्सहस्रं त्वया दत्तं परं भाराय मेऽभवेत् ।

त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम्

॥५॥

हे देव किमनेनापि सहस्रेण करोम्यहम् ।

बाहूनां गिरितुल्यानां विना युद्धं वृषध्वज

॥६॥

कडूंत्या निभृतैदोंर्भिर्युयुत्सुर्दिग्गजानहम् ।

पुराण्याचूर्णयन्नद्रीन्भीतास्तेपि प्रदुद्रुवुः

॥७॥

मया यमः कृतो योद्धा वह्निश्च कृतको महान् ।

वरुणश्चापि गोपालो गवां पालयिता तथा

॥८॥

गजाध्यक्षः कुबेरस्तु सैरन्ध्री चापि निर्ऋतिः ।

जितश्चाखंडलो लोके करदायी सदा कृतः

॥९॥

युद्धस्यागमनं ब्रूहि यत्रैते बाहवो मम ।

शत्रुहस्तप्रयुक्तश्च शस्त्रास्त्रैर्जर्जरीकृताः

॥१०॥

पतंतु शत्रुहस्ताद्वा पातयन्तु सहस्रधा ।

एतन्मनोरथं मे हि पूर्णं कुरु महेश्वर

॥११॥

सनत्कुमार उवाच

तच्छ्रुत्वा कुपितो रुद्रस्त्वट्टहासं महाद्भुतम् ।

कृत्वाऽब्रवीन्महामन्युर्भक्तबाधाऽपहारकः

॥१२॥

रुद्र उवाच

धिग्धिक्त्वां सर्वतो गर्विन्सर्वदैत्यकुलाधम ।

बलिपुत्रस्य भक्तस्य नोचितं वच ईदृशम्

॥१३॥

दर्पस्यास्य प्रशमनं लप्स्यसे चाशु दारुणम् ।

महायुद्धमकस्माद्वै बलिना मत्समेन हि

॥१४॥

तत्र ते गिरिसंकाशा बाहवोऽनलकाष्ठवत् ।

छिन्ना भूमौ पतिष्यंति शस्त्रास्त्रैः कदलीकृताः

॥१५॥

यदेष मानुषशिरो मयूरसहितो ध्वजः ।

विद्यते तव दुष्टात्मंस्तस्य स्यात्पतनं यदा

॥१६॥

स्थापितस्यायुधागारे विना वातकृतं भयम् ।

तदा युद्धं महाघोरं संप्राप्तमिति चेतसि

॥१७॥

निधाय घोरं संग्रामं गच्छेथाः सर्वसैन्यवान् ।

सांप्रतं गच्छ तद्वेश्म यतस्तद्विद्यते शिवः

॥१८॥

तथा तान्स्वमहोत्पातांस्तत्र द्रष्टासि दुर्मते ।

इत्युक्त्वा विररामाथ गर्वहृद्भक्तवत्सलः

॥१९॥

सनत्कुमार उवाच

तच्छ्रुत्वा रुद्रमभ्यर्च्य दिव्यैरजंलिकुड्मलैः ।

प्रणम्य च महादेवं बाणश्च स्वगृहं गतः

॥२०॥

कुंभाण्डाय यथावृत्तं पृष्टः प्रोवाच हर्षितः ।

पर्यैक्षिष्टासुरो बाणस्तं योगं ह्युत्सुकस्सदा

॥२१॥

अथ दैवात्कदाचित्स स्वयं भग्नं ध्वजं च तम् ।

दृष्ट्वा तत्रासुरो बाणो हृष्टो युद्धाय निर्ययौ

॥२२॥

स स्वसैन्यं समाहूय संयुक्तः साष्टभिर्गणैः ।

इष्टिं सांग्रामिकां कृत्वा दृष्ट्वा सांग्रामिकं मधु

॥२३॥

ककुभां मंगलं सर्वं संप्रेक्ष्य प्रस्थितोऽभवत् ।

महोत्साहो महावीरो बलिपुत्रो महारथः

॥२४॥

इति हृत्कमले कृत्वा कः कस्मादागमिष्यति ।

योद्धा रणप्रियो यस्तु नानाशस्त्रास्त्रपारगः

॥२५॥

यस्तु बाहुसहस्रं मे छिनत्त्वनलकाष्ठवत् ।

तथा शस्त्रैर्महातीक्ष्णैश्च्छिनद्मि शतशस्त्विह

॥२६॥

एतस्मिन्नंतरे कालः संप्राप्तश्शंकरेण हि ।

यत्र सा बाणदुहिता सुजाता कृतमंगला

॥२७॥

माधवं माधवे मासि पूजयित्वा महानिशि ।

सुप्ता चांतः पुरे गुप्ते स्त्रीभावमुपलंभिता

॥२८॥

गौर्या संप्रेषितेनापि व्याकृष्टा दिव्यमायया ।

कृष्णात्मजात्मजेनाथ रुदंती सा ह्यनाथवत्

॥२९॥

स चापि तां बलाद्भुक्त्वा पार्वत्याः सखिभिः पुनः ।

नीतस्तु दिव्ययोगेन द्वारकां निमिषांतरात्

॥३०॥

मृदिता सा तदोत्थाय रुदंती विविधा गिरः ।

सखीभ्यः कथयित्वा तु देहत्यागे कृतक्षणा

॥३१॥

सख्या कृतात्मनो दोषं सा व्यास स्मारिता पुनः ।

सर्वं तत्पूर्ववृत्तांतं ततो दृष्ट्वा च सा भवत्

॥३२॥

अब्रवीच्चित्रलेखां च ततो मधुरया गिरा ।

ऊषा बाणस्य तनया कुंभांडतनयां मुने

॥३३॥

ऊषोवाच

सखि यद्येष मे भर्ता पार्वत्या विहितः पुरा ।

केनोपायेन ते गुप्तः प्राप्यते विधिवन्मया

॥३४॥

कस्मिन्कुले स वा जातो मम येन हृतं मनः ।

इत्युषावचनं श्रुत्वा सखी प्रोवाच तां तदा

॥३५॥

चित्रलेखोवाच

त्वया स्वप्ने च यो दृष्टः पुरुषो देवि तं कथम् ।

अहं संमानयिष्यामि न विज्ञातस्तु यो मम

॥३६॥

दैत्यकन्या तदुक्ते तु रागांधा मरणोत्सुका ।

रक्षिता च तया सख्या प्रथमे दिवसे ततः

॥३७॥

पुनः प्रोवाच सोषा वै चित्रलेखा महामतिः ।

कुंभांडस्य सुता बाणतनयां मुनिसत्तम

॥३८॥

चित्रलेखोवाच

व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाष्यते ।

समानेष्ये नरं यस्ते मनोहर्ता तमादिश

॥३९॥

सनत्कुमार उवाच

इत्युक्त्वा वस्त्रपुटके देवान्दैत्यांश्च दानवान् ।

गन्धर्वसिद्धनागांश्च यक्षादींश्च तथालिखत्

॥४०॥

तथा नरांस्तेषु वृष्णीञ्शूरमानकदुंदुभिम् ।

व्यलिखद्रामकृष्णौ च प्रद्युम्नं नरसत्तमम्

॥४१॥

अनिरुद्धं विलिखितं प्राद्युम्निं वीक्ष्य लज्जिता ।

आसीदवाङ्मुखी चोषा हृदये हर्षपूरिता

॥४२॥

ऊषा प्रोवाच चौरोऽसौ मया प्राप्तस्तु यो निशि ।

पुरुषः सखि येनाशु चेतोरत्नं हृतं मम

॥४३॥

यस्य संस्पर्शनादेव मोहिताहं तथाभवम् ।

तमहं ज्ञातुमिच्छामि वद सर्वं च भामिनि

॥४४॥

कस्यायमन्वये जातो नाम किं चास्य विद्यते ।

इत्युक्ता साब्रवीन्नाम योगिनी तस्य चान्वयम्

॥४५॥

सर्वमाकर्ण्य सा तस्य कुलादि मुनिसत्तम ।

उत्सुका बाणतनया बभाषे सा तु कामिनी

॥४६॥

ऊषोवाच

उपायं रचय प्रीत्या तत्प्राप्त्यै सखि तत्क्षणात् ।

येनोपायेन तं कांतं लभेयं प्राणवल्लभम्

॥४७॥

यं विनाहं क्षणं नैकं सखि जीवितुमुत्सहे ।

तमानयेह सद्यत्नात्सुखिनीं कुरु मां सखि

॥४८॥

सनत्कुमार उवाच

इत्युक्ता सा तथा बाणात्मजया मंत्रिकन्यका ।

विस्मिताभून्मुनिश्रेष्ठ सुविचारपराऽभवत्

॥४९॥

ततस्सखीं समाभाष्य चित्रलेखा मनोजवा ।

बुद्ध्वा तं कृष्णपौत्रं सा द्वारकां गंतुमुद्यता

॥५०॥

ज्येष्ठकृष्णचतुर्दश्यां तृतीये तु गतेऽहनि ।

आप्रभातान्मुहूर्ते तु संप्राप्ता द्वारकां पुरीम्

॥५१॥

एकेन क्षणमात्रेण नभसा दिव्ययोगिनी ।

ततश्चांतःपुरोद्याने प्राद्युम्निर्ददृशे तया

॥५२॥

क्रीडन्नारीजनैस्सार्द्धं प्रपिबन्माधवी मधु ।

सर्वांगसुन्दरः श्यामः सुस्मितो नवयौवनः

॥५३॥

ततः खट्वां समारूढमंधकारपटेन सा ।

आच्छादयित्वा योगेन तामसेन च माधवम्

॥५४॥

ततस्सा मूर्ध्नि तां खट्वां गृहीत्वा निमिषांतरात् ।

संप्राप्ता शोणितपुरं यत्र सा बाणनंदिनी

॥५५॥

कामार्ता विविधान्भावाञ्चकारोन्मत्तमानसा ।

आनीतमथ तं दृष्ट्वा तदा भीता च साभवत्

॥५६॥

अंतःपुरे सुगुप्ते च नवे तस्मिन्समागमे ।

यावत्क्रीडितुमारब्धं तावज्ज्ञातं च तत्क्षणात्

॥५७॥

अंतःपुरद्वारगतैर्वेत्रजर्जरपाणिभिः ।

इंगितैरनुमानैश्च कन्यादौःशील्यमाचरन्

॥५८॥

स चापि दृष्टस्तैस्तत्र नरो दिव्यवपुर्धरः ।

तरुणो दर्शनीयस्तु साहसी समरप्रियः

॥५९॥

तं दृष्ट्वा सर्वमाचख्युर्बाणाय बलिसूनवे ।

पुरुषास्ते महावीराः कन्यान्तःपुररक्षकाः

॥६०॥

द्वारपाला ऊचुः

देव कश्चिन्न जानीते गुप्तश्चांतःपुरे बलात् ।

स कस्तु तव कन्यां वै स्वयंग्राहादधर्षयत्

॥६१॥

दानवेन्द्र महाबाहो पश्यपश्यैनमत्र च ।

यद्युक्तं स्यात्तत्कुरुष्व न दुष्टा वयमित्युत

॥६२॥

सनत्कुमार उवाच

तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः ।

विस्मितोभून्मुनिश्रेष्ठ कन्यायाः श्रुतदूषणः

॥६३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां पंचमे युद्धखण्डे ऊषाचरित्रवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥