मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ५९

3
रुद्रसंहिता · युद्धखण्डः · 59

शृणु व्यास सुसंप्रीत्या चरितं परमेशितुः

सनत्कुमार उवाच

शृणु व्यास सुसंप्रीत्या चरितं परमेशितुः ।

यथावधीत्स्वप्रियया दैत्यमुद्दिश्य संज्ञया

॥१॥

आस्तां पुरा महादैत्यो विदलोत्पलसंज्ञकौ ।

अपुंवध्यौ महावीरौ सुदृप्तौ वरतो विधेः

॥२॥

तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्ब लात् ।

ताभ्यां सर्वे सुरा ब्रह्मन् दैत्याभ्यां निर्जिता रणे

॥३॥

ताभ्यां पराजिता देवा विधेस्ते शरणं गताः ।

नत्वा तं विधिवत्सर्वे कथयामासुरादरात

॥४॥

इति ब्रह्मा ह्यवोचत्तान् देव्या वध्यौ च तौ ध्रुवम् ।

धैर्य्यं कुरुत संस्मृत्य सशिवं शिवमादरात्

॥५॥

भक्तवत्सलनामासौ सशिवश्शंकरश्शिवः ।

शं करिष्यत्यदीर्घेण कालेन परमेश्वरः

॥६॥

सनत्कुमार उवाच

इत्युक्त्वा तांस्ततो ब्रह्मा तूष्णीमासीच्छिवं स्मरन् ।

तेपि देवा मुदं प्राप्य स्वंस्वं धाम ययुस्तदा

॥७॥

अथ नारददेवर्षिश्शिवप्रेरणया तदा ।

गत्वा तदीयभवनं शिवासौंदर्यमाजगौ

॥८॥

श्रुत्वा तद्वचनं दैत्यावास्तां मायाविमोहितौ ।

देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ

॥९॥

विचारयामासतुस्तौ कदा कुत्र शिवा च सा ।

भविष्यति विधेः प्राप्तोदयान्नाविति सर्वदा

॥१०॥

एकस्मिन्समये शंभुर्विजहार सुलीलया ।

कौतुकेनैव चिक्रीडे शिवा कन्दुकलीलया

॥११॥

सखीभिस्सह सुप्रीत्या कौतुकाच्छिवसन्निधौ

॥१२॥

उदंचंत्यंचदंगानां लाघवं परितन्वती ।

निश्वासामोदमुदितभ्रमराकुलितेक्षणा

॥१३॥

भ्रश्यद्धम्मिल्लसन्माल्यस्वपुरीकृतभूमिका ।

स्विद्यत्कपोलपत्रालीस्रवदंबुकणोज्ज्वला

॥१४॥

स्फुटच्चोलांशुकपथतिर्यदंगप्रभावृता ।

उल्लसत्कंदुकास्फालातिश्रोणितकराम्बुजा

॥१५॥

कंदुकानुगसद्दृष्टिनर्तितभ्रूलतांचला ।

मृडानी किल खेलंती ददृशे जगदम्बिका

॥१६॥

अंतरिक्षचराभ्यां च दितिजाभ्यां कटा क्षिता ।

क्रोडीकृताभ्यामिव वै समुपस्थितमृत्युना

॥१७॥

विदलोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ।

तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात्

॥१८॥

देवीं तां संजिहीर्षंतौ विषमेषु प्रपीडितौ ।

दिव उत्तेरतुः क्षिप्रं मायां स्वीकृत्य शांबरीम्

॥१९॥

धृत्वा पारिषदीं मायामायातावंबिकांतिकम् ।

तावत्यंतं सुदुर्वृत्तावतिचंचलमानसौ

॥२०॥

अथ दुष्टनिहंत्रा वै सावज्ञेन हरेण तौ ।

विज्ञातौ च क्षणादास्तां चांचल्याल्लोचनोद्भवात्

॥२१॥

कटाक्षिताथ देवेन दुर्गा दुर्गतिघातिनी ।

दैत्याविमामिति गणौ नेति सर्वस्वरूपिणा

॥२२॥

अथ सा नेत्रसंज्ञां स्वस्वामिनस्तां बुबोध ह ।

महाकौतुकिनस्तात शंकरस्य परेशितुः

॥२३॥

ततो विज्ञाय संज्ञां तां सर्वज्ञार्द्धशरीरिणी ।

तेनैव कंदुकेनाथ युगपन्निर्जघान तौ

॥२४॥

महाबलौ महादेव्या कंदुकेन समाहतौ ।

परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः

॥२५॥

वृन्तादिव फले पक्वे तालेनानिललोलिते ।

दंभोलिना परिहते शृंगे इव महागिरेः

॥२६॥

तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ।

ततः परिणतिं यातो लिंगरूपेण कंदुकः

॥२७॥

कंदुकेश्वरसंज्ञां च तल्लिंगमभवत्तदा ।

ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम्

॥२८॥

एतस्मिन्नेव समये हरिब्रह्मादयस्सुराः ।

शिवाविर्भावमाज्ञाय ऋषयश्च समाययुः

॥२९॥

अथ सर्वे सुराश्शम्भोर्वरान्प्राप्य तदाज्ञया ।

स्वधामानि ययुः प्रीतास्तथा काशीनिवासिनः

॥३०॥

सांबिकं शंकरं दृष्ट्वा कृतांजलिपुटाश्च ते ।

प्रणम्य तुष्टुवुर्भक्त्या वाग्भिरिष्टाभिरादरात्

॥३१॥

सांबिकोऽपि शिवो व्यास क्रीडित्वा सुविहारवित् ।

जगाम स्वालयं प्रीतस्सगणो भक्तवत्सलः

॥३२॥

कंदुकेश्वरलिंगं च काश्यां दुष्टनिबर्हणम् ।

भुक्तिमुक्तिप्रदं सर्वकामदं सर्वदा सताम्

॥३३॥

इदमाख्यानमतुलं शृणुयाद्यो मुदान्वितः ।

श्रावयेद्वा पठेद्यश्च तस्य दुःखभयं कुतः

॥३४॥

इह सर्वसुखं भुक्त्वा नानाविधमनुत्तमम् ।

परत्र लभते दिव्यां गतिं वै देवदुर्लभाम्

॥३५॥

इति तं वर्णितं तात चरितं परमाद्भुतम् ।

शिवयोर्भक्तवात्सल्यसूचकं शिवदं सताम्

॥३६॥

ब्रह्मोवाच

इत्युक्त्वामंत्र्य तं व्यासं तन्नुतो मद्वरात्मजः ।

ययौ विहायसा काशीं चरितं शशिमौलिनः

॥३७॥

युद्धखंडमिदं प्रोक्तं मया ते मुनिसत्तम ।

रौद्रीयसंहितामध्ये सर्वकामफलप्रदम्

॥३८॥

इयं हि संहिता रौद्री सम्पूर्णा वर्णिता मया ।

सदाशिवप्रियतरा भुक्तिमुक्तिफलप्रदा

॥३९॥

इमां यश्च पठेन्नित्यं शत्रुबाधानिवारिकाम् ।

सर्वान्कामानवाप्नोति ततो मुक्तिं लभेत ना

॥४०॥

सूत उवाच

इति ब्रह्मसुतश्श्रुत्वा पित्रा शिवयशः परम् ।

शतनामाप्य शंभोश्च कृतार्थोऽभूच्छिवानुगः

॥४१॥

ब्रह्मनारदसम्वादः सम्पूर्णः कथितो मया ।

शिवस्सर्वप्रधानो हि किं भूयश्श्रोतुमिच्छसि

॥४२॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे विदलोत्पलदैत्यवधवर्णनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥

समाप्तोयं युद्धखण्डः ।

समाप्तेयं द्वितीया रुद्रसंहिता

॥२॥