भूतत्रिपुरधर्मवर्णनम्
शिव उवाच
अयं वै त्रिपुराध्यक्ष पुण्यवान्वर्ततेऽधुना ।
यत्र पुण्यं प्रवर्तेत न हंतव्यो बुधैः क्वचित्
॥१॥जानामि देवकष्टं च विबुधास्सकलं महत् ।
दैत्यास्ते प्रबला हंतुमशक्यास्तु सुरासुरैः
॥२॥पुण्यवंतस्तु ते सर्वे समयास्तारकात्मजाः ।
दुस्साध्यस्तु वधस्तेषां सर्वेषां पुरवासिनाम्
॥३॥मित्रद्रोहं कथं जानन्करोमि रणकर्कशः ।
सुहृद्द्रोहे महत्पापं पूर्वमुक्तं स्वयंभुवा
॥४॥ब्रह्मघ्नं च सुरापे च स्तेये भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
॥५॥मम भक्तास्तु ते दैत्या मया वध्या कथं सुराः ।
विचार्यतां भवद्भिश्च धर्मज्ञैरेव धर्मतः
॥६॥तावत्ते नैव हंतव्या यावद्भक्तिकृतश्च मे ।
तथापि विष्णवे देवा निवेद्यं कारणं त्विदम्
॥७॥सनत्कुमार उवाच
इत्येवं तद्वचः श्रुत्वा देवाश्शक्रपुरोगमाः ।
न्यवेदयन् द्रुतं सर्वे ब्रह्मणे प्रथमं मुने
॥८॥ततो विधिं पुरस्कृत्य सर्वे देवास्सवासवाः ।
वैकुंठं प्रययुश्शीघ्रं सर्वे शोभासमन्वितम्
॥९॥तत्र गत्वा हरिं दृष्ट्वा प्रणेमुर्जातसंभ्रमाः ।
तुष्टुवुश्च महाभक्त्या कृतांजलिपुटास्सुराः
॥१०॥स्वदुःखकारणं सर्वं पूर्ववत्तदनंतरम् ।
न्यवेदयन्द्रुतं तस्मै विष्णवे प्रभविष्णवे
॥११॥देवदुःखं ततः श्रुत्वा दत्तं च त्रिपुरालये ।
ज्ञात्वा व्रतं च तेषां तद्विष्णुर्वचनमब्रवीत्
॥१२॥विष्णुरुवाच
इदं सत्यं वचश्चैव यत्र धर्मस्सनातनः ।
तत्र दुःखं न जायेत सूर्ये दृष्टे यथा तमः
॥१३॥सनत्कुमार उवाच
इत्येतद्वचनं श्रुत्वा देवा दुःखमुपागताः ।
पुनरूचुस्तथा विष्णुं परिम्लानमुखाम्बुजाः
॥१४॥देवा ऊचुः
कथं चैव प्रकर्त्तव्यं कथं दुःखं निरस्यते ।
कथं भवेम सुखिनः कथं स्थास्यामहे वयम्
॥१५॥कथं धर्मा भविष्यंति त्रिपुरे जीविते सति ।
देवदुःखप्रदा नूनं सर्वे त्रिपुरवासिनः
॥१६॥किं वा ते त्रिपुरस्येह वधश्चैव विधीयताम् ।
नोचेदकालिकी देवसंहतिः क्रियतां ध्रुवम्
॥१७॥सनत्कुमार उवाच
इत्युक्त्वा ते तदा देवा दुःखं कृत्वा पुनः पुनः ।
स्थितिं नैव गतिं ते वै चक्रुर्देववरादिह
॥१८॥तान्वै तथाविधान्दृष्ट्वा हीनान्विनयसंयुतान् ।
सोपि नारायणः श्रीमांश्चिंतयेच्चेतसा तथा
॥१९॥किं कार्यं देवकार्येषु मया देवसहा यिना ।
शिवभक्तास्तु ते दैत्यास्तारकस्य सुता इति
॥२०॥इति संचिन्त्य तत्काले विष्णुना प्रभविष्णुना ।
ततो यज्ञास्स्मृतास्तेन देवकार्यार्थमक्षयाः
॥२१॥तद्विष्णुस्मृतिमात्रेण यज्ञास्ते तत्क्षणं द्रुतम् ।
आगतास्तत्र यत्रास्ते श्रीपतिः पुरुषोत्तमः
॥२२॥ततो विष्णुं यज्ञपतिं पुराणं पुरुषं हरिम् ।
प्रणम्य तुष्टुवुस्ते वै कृतांजलिपुटास्तदा
॥२३॥भगवानपि तान्दृष्ट्वा यज्ञान्प्राह सनातनम् ।
सनातनस्तदा सेंद्रान्देवानालोक्य चाच्युतः
॥२४॥विष्णुरुवाच
अनेनैव सदा देवा यजध्वं परमेश्वरम् ।
पुरत्रयविनाशाय जगत्त्रयविभूतये
॥२५॥सनत्कुमार उवाच
अच्युतस्य वचः श्रुत्वा देवदेवस्य धीमतः ।
प्रेम्णा ते प्रणतिं कृत्वा यज्ञेशं तेऽस्तुवन्सुराः
॥२६॥एवं स्तुत्वा ततो देवा अजयन्यज्ञपूरुषम् ।
यज्ञोक्तेन विधानेन संपूर्णविधयो मुने
॥२७॥ततस्तस्माद्यज्ञकुंडात्समुत्पेतुस्सहस्रशः ।
भूतसंघा महाकायाः शूलशक्तिगदायुधाः
॥२८॥ददृशुस्ते सुरास्तान् वै भूतसंघान्सहस्रशः ।
शूल शक्तिगदाहस्तान्दण्डचापशिलायुधान्
॥२९॥नानाप्रहरणोपेतान् नानावेषधराँस्तथा ।
कालाग्निरुद्रसदृशान्कालसूर्योपमाँस्तदा
॥३०॥दृष्ट्वा तानब्रवीद्विष्णुः प्रणिपत्य पुरःस्थितान् ।
भूतान्यज्ञपतिः श्रीमानुद्राज्ञाप्रतिपालकः
॥३१॥विष्णुरुवाच
भूताः शृणुत मद्वाक्यं देवकार्यार्थमुद्यताः ।
गच्छन्तु त्रिपुरं सद्यस्सर्वे हि बलवत्तराः
॥३२॥गत्वा दग्ध्वा च भित्त्वा च भङ्क्त्वा दैत्यपुरत्रयम् ।
पुनर्यथागता भूतागंतुमर्हथ भूतये
॥३३॥सनत्कुमार उवाच
तच्छ्रुत्वा भगवद्वाक्यं ततो भूतगणाश्च ते ।
प्रणम्य देवदेवं तं ययुर्दैत्यपुरत्रयम्
॥३४॥गत्वा तत्प्रविशंतश्च त्रिपुराधिपतेजसि ।
भस्मसादभवन्सद्यश्शलभा इव पावके
॥३५॥अवशिष्टाश्च ये केचित्पलायनपरायणाः ।
निस्सृत्यारं समायाता हरेर्निकटमाकुलाः
॥३६॥तान्दृष्ट्वा स हरिः श्रुत्वा तच्च वृत्तमशेषतः ।
चिंतयामास भगवान्मनसा पुरुषोत्तमः
॥३७॥किं कृत्यमधुना कार्यमिति संतप्तमानसः ।
संतप्तानमरान्सर्वानाज्ञाय च सवासवान्
॥३८॥कथं तेषां च दैत्यानां बलाद्धत्वा पुरत्रयम् ।
देवकार्यं करिष्यामीत्यासीच्चिंतासमाकुलः
॥३९॥नाशोऽभिचारतो नास्ति धर्मिष्ठानां न संशयः ।
इति प्राह स्वयं चेशः श्रुत्याचारप्रमाणकृत्
॥४०॥दैत्याश्च ते हि धर्मिष्ठास्सर्वे त्रिपुरवासिनः ।
तस्मादवध्यतां प्राप्ता नान्यथा सुरपुंगवाः
॥४१॥कृत्वा तु सुमहत्पापं रुद्रमभ्यर्चयंति ते ।
मुच्यंते पातकैः सर्वैः पद्मपत्रमिवांभसा
॥४२॥रुद्राभ्यर्चनतो देवाः सर्वे कामा भवंति हि ।
नानोपभोगसंपत्तिर्वश्यतां याति वै भुवि
॥४३॥तस्मात्तद्भोगिनो दैत्या लिंगार्चनपरायणाः ।
अनेकविधसंपत्तेर्मोक्षस्यापि परत्र च
॥४४॥ततः कृत्वा धर्मविघ्नं तेषामेवात्ममायया ।
दैत्यानां देवकार्यार्थं हरिष्ये त्रिपुरं क्षणात्
॥४५॥विचार्येत्थं ततस्तेषां भगवान्पुरुषोत्तमः ।
कर्तुं व्यवस्थितः पश्चाद्धर्मविघ्नं सुरारिणाम्
॥४६॥यावच्च वेद धर्मास्तु यावद्वै शंकरार्चनम् ।
यावच्च शुचिकृत्यादि तावन्नाशो भवेन्न हि
॥४७॥तस्मादेवं प्रकर्तव्यं वेदधर्मस्ततो व्रजेत् ।
त्यक्तलिंगार्चना दैत्या भविष्यंति न संशयः
॥४८॥इति निश्चित्य वै विष्णुर्विघ्नार्थमकरोत्तदा ।
तेषां धर्मस्य दैत्यानामुपायं श्रुति खण्डनम्
॥४९॥तदैवोवाच देवान्स विष्णुर्देवसहायकृत् ।
शिवाज्ञया शिवेनैवाज्ञप्तस्त्रैलोक्यरक्षणे
॥५०॥विष्णुरुवाच
हे देवास्सकला यूयं गच्छत स्वगृहान्ध्रुवम् ।
देवकार्यं करिष्यामि यथामति न संशयः
॥५१॥तान्रुद्राद्विमुखान्नूनं करिष्यामि सुयत्नतः ।
स्वभक्तिरहिताञ्ज्ञात्वा तान्करिष्यति भस्मसात्
॥५२॥सनत्कुमार उवाच
तदाज्ञां शिरसाधायश्वासितास्तेऽमरा मुने ।
स्वस्वधामानि विश्वस्ता ययुर्ब्रह्मापि मोदिताः
॥५३॥ततश्चैवाकरोद्विष्णुर्देवार्थं हितमुत्तमम् ।
तदेव श्रूयतां सम्यक्सर्वपापप्रणाशनम्
॥५४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥