मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय २५

3
रुद्रसंहिता · युद्धखण्डः · 25

देवस्तुतिवर्णनम्

सनत्कुमार उवाच

अथ ब्रह्मादयो देवा मुनयश्चाखिलास्तथा ।

तुष्टुवुर्देवदेवेशं वाग्भिरिष्टाभिरानताः

॥१॥

देवा ऊचुः

देवदेव महादेव शरणागतवत्सल ।

साधुसौख्यप्रदस्त्वं हि सर्वदा भक्तदुःखहा

॥२॥

त्वं महाद्भुतसल्लीलो भक्तिगम्यो दुरासदः ।

दुराराध्योऽसतां नाथ प्रसन्नस्सर्वदा भव ।

वेदोऽपि महिमानं ते न जानाति हि तत्त्वतः ।

यथामति महात्मानस्सर्वे गायंति सद्यशः

॥४॥

माहात्म्यमतिगूढं ते सहस्रवदनादयः ।

सदा गायंति सुप्रीत्या पुनंति स्वगिरं हि ते

॥५॥

कृपया तव देवेश ब्रह्मज्ञानी भवेज्जडः ।

भक्तिगम्यस्सदा त्वं वा इति वेदा ब्रुवंति हि

॥६॥

त्वं वै दीनदयालुश्च सर्वत्र व्यापकस्सदा ।

आविर्भवसि सद्भक्त्या निर्विकारस्सतां गतिः

॥७॥

भक्त्यैव ते महेशान बहवस्सिद्धिमागताः ।

इह सर्वसुखं भुक्त्वा दुःखिता निर्विकारतः ।

पुरा यदुपतिर्भक्तो दाशार्हस्सिद्धिमागतः ।

कलावती च तत्पत्नी भक्त्यैव परमां प्रभो

॥९॥

तथा मित्रसहो राजा मदयंती च तत्प्रिया ।

भक्त्यैव तव देवेश कैवल्यं परमं ययौ

॥१०॥

सौमिनी नाम तनया कैकेयाग्रभुवस्तथा ।

तव भक्त्या सुखं प्राप परं सद्योगिदुर्लभम्

॥११॥

विमर्षणो नृपवरस्सप्तजन्मावधि प्रभो ।

भुक्त्वा भोगांश्च विविधांस्त्वद्भक्त्या प्राप सद्गतिम्

॥१२॥

चन्द्रसेनो नृपवरस्त्वद्भक्त्या सर्वभोगभुक् ।

दुःखमुक्तः सुखं प्राप परमत्र परत्र च

॥१३॥

गोपीपुत्रः श्रीकरस्ते भक्त्या भुक्त्वेह सद्गतिम् ।

परं सुखं महावीरशिष्यः प्राप परत्र वै

॥१४॥

त्वं सत्यरथभूजानेर्दुःखहर्ता गतिप्रदः ।

धर्मगुप्तं राजपुत्रमतार्षीस्सुखिनं त्विह

॥१५॥

तथा शुचिव्रतं विप्रमदरिद्रं महाप्रभो ।

त्वद्भक्तिवर्तिनं मात्रा ज्ञानिनं कृपयाऽकरोः

॥१६॥

चित्रवर्मा नृपवरस्त्वद्भक्त्या प्राप सद्गतिम् ।

इह लोके सदा भुक्त्वा भोगानमरदुर्लभान्

॥१७॥

चन्द्रांगदो राजपुत्रस्सीमंतिन्या स्त्रिया सह ।

विहाय सकलं दुःखं सुखी प्राप महागतिम्

॥१८॥

द्विजो मंदरनामापि वेश्यागामी खलोऽधमः ।

त्वद्भक्तः शिव संपूज्य तया सह गतिं गतः

॥१९॥

भद्रायुस्ते नृपसुतस्सुखमाप गतव्यथः ।

त्वद्भक्तकृपया मात्रा गतिं च परमां प्रभो

॥२०॥

सर्वस्त्रीभोगनिरतो दुर्जनस्तव सेवया ।

विमुक्तोऽभूदपि सदा भक्ष्यभोजी महेश्वर

॥२१॥

शंबरश्शंकरे भक्तश्चिताभस्मधरस्सदा ।

नियमाद्भस्मनश्शंभो स्वस्त्रिया ते पुरं गतः

॥२२॥

भद्रसेनस्य तनयस्तथा मंत्रिसुतः प्रभो ।

सुधर्मशुभकर्माणौ सदा रुद्राक्षधारिणौ

॥२३॥

त्वत्कृपातश्च तौ मुक्तावास्तां भुक्तेह सत्सुखम् ।

पूर्वजन्मनि यौ कीशकुक्कुटौ रुद्रभूषणौ

॥२४॥

पिंगला च महानन्दा वेश्ये द्वे तव भक्तितः ।

सद्गतिं प्रापतुर्नाथ भक्तोद्धारपरायण

॥२५॥

शारदा विप्रतनया बालवैधव्यमागता ।

तव भक्तेः प्रभावात्तु पुत्रसौभा ग्यवत्यभूत्

॥२६॥

बिन्दुगो द्विजमात्रो हि वेश्याभोगी च तत्प्रिया ।

वंचुका त्वद्यशः श्रुत्वा परमां गतिमाययौ

॥२७॥

इत्यादि बहवस्सिद्धिं गता जीवास्तव प्रभो ।

भक्तिभावान्महेशान दीनबन्धो कृपालय

॥२८॥

त्वं परः प्रकृतेर्ब्रह्म पुरुषात्परमेश्वर ।

निर्गुणस्त्रिगुणाधारो ब्रह्मविष्णुहरात्मकः

॥२९॥

नानाकर्मकरो नित्यं निर्विकारोऽखिलेश्वरः ।

वयं ब्रह्मादयस्सर्वे तव दासा महेश्वर

॥३०॥

प्रसन्नो भव देवेश रक्षास्मान्सर्वदा शिव ।

त्वत्प्रजाश्च वयं नाथ सदा त्वच्छरणं गताः

॥३१॥

सनत्कुमार उवाच

इति स्तुत्वा च ते देवा ब्रह्माद्यास्समुनीश्वराः ।

तूष्णीं बभूवुर्हि तदा शिवांघ्रिद्वन्द्वचेतसः

॥३२॥

अथ शंभुर्महेशानः श्रुत्वा देवस्तुतिं शुभाम् ।

दत्त्वा वरान्वरान्सद्यस्तत्रैवांतर्दधे प्रभुः

॥३३॥

देवास्सर्वेऽपि मुदिता ब्रह्माद्या हतशत्रवः ।

स्वं स्वं धाम ययुः प्रीता गायंतः शिवसद्यशः

॥३४॥

इदं परममाख्यानं जलंधरविमर्दनम् ।

महेशचरितं पुण्यं महाघौघविनाशनम्

॥३५॥

देवस्तुतिरियं पुण्या सर्वपापप्रणाशिनी ।

सर्वसौख्यप्रदा नित्यं महेशानंददायिनी

॥३६॥

यः पठेत्पाठयेद्वापि समाख्यानमिदं द्वयम् ।

भुक्त्वेह परं सौख्यं गाणपत्यमवाप्नुयात्

॥३७॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवस्तुतिवर्णनं नाम पंचविंशोऽध्यायः ॥ २५ ॥