सामान्यगणासुरयुद्धवर्णनम्
व्यास उवाच
सनत्कुमार सर्वज्ञ कथा ते श्राविताद्भुता ।
महाप्रभोश्शंकरस्य यत्र लीला च पावनी
॥१॥इदानीं ब्रूहि सुप्रीत्या कृपां कृत्वा ममो परि ।
राहुर्मुक्तः कुत्र गतः पुरुषेण महामुने
॥२॥सूत उवाच
इत्याकर्ण्य वचस्तस्य व्यासस्यामितमेधसः ।
प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो महामुनिः
॥३॥सनत्कुमार उवाच
राहुर्विमुक्तो यस्तेन सोपि तद्वर्वरस्थले ।
अतस्स वर्वरो भूत इति भूमौ प्रथां गतः
॥४॥ततः स मन्यमानस्स्वं पुनर्जनिमथानतः ।
गतगर्वो जगामाथ जलंधरपुरं शनैः
॥५॥जलंधराय सोऽभ्येत्य सर्वमीशविचेष्टितम् ।
कथयामास तद्व्यासाद्व्यास दैत्येश्वराय वै
॥६॥सनत्कुमार उवाच
जलंधरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः ।
बभूव बलवान्सिन्धुपुत्रो दैत्येन्द्रसत्तमः
॥७॥ततः कोपपराधीनमानसो दैत्यसत्तमः ।
उद्योगं सवसैन्यानां दैत्यानामादिदेश ह
॥८॥जलंधर उवाच
निर्गच्छंत्वखिला दैत्याः कालनेमिमुखाः खलु ।
तथा शुंभनिशुम्भाद्या वीरास्स्वबलसंयुताः
॥९॥कोटिर्वीरकुलोत्पन्नाः कंबुवंश्याश्च दौर्हृदाः ।
कालकाः कालकेयाश्च मौर्या धौम्रास्तथैव च
॥१०॥इत्याज्ञाप्यासुरपतिस्सिंधुपुत्रो प्रतापवान् ।
निर्जगामाशु दैत्यानां कोटिभिः परिवारितः
॥११॥ततस्तस्याग्रतश्शुक्रो राहुश्छिन्नशिरोऽभवत् ।
मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा
॥१२॥व्यराजत नभः पूर्णं प्रावृषीव यथा घनैः ।
जाता अशकुना भूरि महानिद्रावि सूचकाः
॥१३॥तस्योद्योगं तथा दृष्ट्वा गीर्वाणास्ते सवासवाः ।
अलक्षितास्तदा जग्मुः कैलासं शंकरालयम्
॥१४॥तत्र गत्वा शिवं दृष्ट्वा सुप्रणम्य सवासवाः ।
देवास्सर्वे नतस्कंधाः करौ बद्ध्वा च तुष्टुवुः
॥१५॥देवा ऊचुः
देवदेव महादेव करुणाकर शंकर ।
नमस्तेस्तु महेशान पाहि नश्शरणागतान्
॥१६॥विह्वला वयमत्युग्रं जलंधरकृतात्प्रभो ।
उपद्रवात्सदेवेन्द्राः स्थानभ्रष्टाः क्षितिस्थिताः
॥१७॥न जानासि कथं स्वामिन्देवापत्तिमिमां प्रभो ।
तस्मान्नो रक्षणार्थाय जहि सागरनन्दनम्
॥१८॥अस्माकं रक्षणार्थाय यत्पूर्वं गरुडध्वजः ।
नियोजितस्त्वया नाथ न क्षमस्सोऽद्य रक्षितुम्
॥१९॥तदधीनो गृहे तस्य तिष्ठत्यद्य मया सह ।
वयं च तत्र तिष्ठामस्तदाज्ञावशगास्सुराः
॥२०॥अलक्षिता वयं चात्रागताश्शंभो त्वदंतिकम् ।
स आयाति त्वया कर्त्तुं रणं सिंधुसुतो बली
॥२१॥अतस्स्वामिन्रणे त्वं तमविलंबं जलंधरम् ।
हंतुमर्हसि सर्वज्ञ पाहि नश्शरणागतान्
॥२२॥सनत्कुमार उवाच
इत्युक्त्वा ते सुरास्सर्वे प्रभुं नत्वा सवासवाः ।
पादौ निरीक्ष्य संतस्थुर्महेशस्य विनम्रकाः
॥२३॥सनत्कुमार उवाच
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः ।
द्रुतं विष्णुं समाहूय वचनं चेदमब्रवीत्
॥२४॥ईश्वर उवाच
हृषीकेश महाविष्णो देवाश्चात्र समागताः ।
जलंधरकृतापीडाश्शरणं मेऽतिविह्वलाः
॥२५॥जलंधरः कथं विष्णो संगरे न हत स्त्वया ।
तद्गृहं चापि यातोऽसि त्यक्त्वा वैकुण्ठमात्मनः
॥२६॥मया नियोजितस्त्वं हि साधुसंरक्षणाय च ।
निग्रहाय खलानां च स्वतंत्रेण विहारिणा
॥२७॥सनत्कुमार उवाच
इत्याकर्ण्य महेशस्य वचनं गरुडध्वजः ।
प्रत्युवाच विनीतात्मा नतकस्साञ्जलिर्हरिः
॥२८॥विष्णुरुवाच
तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ।
मया न निहतः संख्ये त्वमेनं जहि दानवम्
॥२९॥महाबलो महावीरो जेयस्सर्वदिवौकसाम् ।
अन्येषां चापि देवेश सत्यमेतद्ब्रवीम्यहम्
॥३०॥मया कृतो रणस्तेन चिरं देवान्वितेन वै ।
मदुपायो न प्रवृत्तस्तस्मिन्दानवपुंगवे
॥३१॥तत्पराक्रमतस्तुष्टो वरं ब्रूहीत्यहं खलु ।
इति मद्वचनं श्रुत्वा स वव्रे वरमुत्तमम्
॥३२॥मद्भगिन्या मया सार्द्धं मद्गेहे ससुरो वस ।
मदधीनो महाविष्णो इत्यहं तद्गृहं गतः
॥३३॥सनत्कुमार उवाच
इति विष्णोर्वचश्श्रुत्वा शकरस्स महेश्वरः ।
विहस्योवाच सुप्रीतस्सदयो भक्तवत्सलः
॥३४॥महेश्वर उवाच
हे विष्णो सुरवर्य त्वं शृणु मद्वाक्यमादरात् ।
जलंधरं महादैत्यं हनिष्यामि न संशयः
॥३५॥स्वस्थानं गच्छ निर्भीतो देवा गच्छंत्वपि ध्रुवम् ।
निर्भया वीतसंदेहा हतं मत्वाऽसुराधिपम्
॥३६॥सनत्कुमार उवाच
इति श्रुत्वा महेशस्य वचनं स रमापतिः ।
सनिर्जरो जगामाशु स्वस्थानं गतसंशयः
॥३७॥एतस्मिन्नंतरे व्यास स दैत्येन्द्रोऽतिविक्रमः ।
सन्नद्धैरसुरैस्सार्द्धं शैलप्रांतं ययौ बली
॥३८॥कैलासमवरुध्याथ महत्या सेनया युतः ।
संतस्थौ कालसंकाशः कुर्वन्सिंहरवं महान्
॥३९॥अथ कोलाहलं श्रुत्वा दैत्यनादसमुद्भवम् ।
चुक्रोधातिमहेशानो महालीलः खलांतकः ।
2.5.20.४० समादिदेश संख्याय स्वगणान्स महाबलान् ।
नंद्यादिकान्महादेवो महोतिः कौतुकी हरः
॥४१॥नन्दीभमुखसेनानीमुखास्सर्वे शिवाज्ञया ।
गणाश्च समनह्यंत युद्धाया तित्वरान्विताः
॥४२॥अवतेरुर्गणास्सर्वे कैलासात्क्रोधदुर्मदाः ।
वल्गतो रणशब्दांश्च महावीरा रणाय हि
॥४३॥ततस्समभवद्युद्धं कैलासोपत्यकासु वै ।
प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसंकुलम्
॥४४॥भेरीमृदंगशंखौघैर्निस्वानैर्वीरहर्षणैः ।
गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत
॥४५॥शक्तितोमरबाणौघैर्मुसलैः पाशपट्टिशैः ।
व्यराजत नभः पूर्णं मुक्ताभिरिव संवृतम्
॥४६॥निहतैरिव नागाश्वैः पत्तिभिर्भूर्व्यराजत ।
वज्राहतैः पर्वतेन्द्रैः पूर्वमासीत्सुसंवृता
॥४७॥प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ।
वसासृङ्मांसपंकाढ्या भूरगम्याभवत्तदा
॥४८॥प्रमथाहतदैत्यौघान्भार्गवस्समजीवयत् ।
युद्धे पुनः पुनश्चैव मृतसंजीवनी बलात्
॥४९॥दृष्ट्वा व्याकुलितांस्तांस्तु गणास्सर्वे भयार्दिताः ।
शशंसुर्देवदेवाय सर्वे शुक्रविचेष्टितम्
॥५०॥तच्छ्रुत्वा भगवान्रुद्रश्चकार क्रोधमुल्बणम् ।
भयंकरोऽतिरौद्रश्च बभूव प्रज्वलन्दिशः
॥५१॥अथ रुद्रमुखात्कृत्या बभूवातीवभीषणा ।
तालजंघोदरी वक्त्रा स्तनापीडितभूरुहा
॥५२॥सा युद्धभूमिं तरसा ससाद मुनिसत्तम ।
विचचार महाभीमा भक्षयंती महासुरान्
॥५३॥अथ सा रणमध्ये हि जगाम गतभीर्द्रुतम् ।
यत्रास्ते संवृतो दैत्यवरेन्द्रैस्स हि भार्गवः
॥५४॥स्वतेजसा नभो व्याप्य भूमिं कृत्वा च सा मुने ।
भार्गवं स्वभगे धृत्वा जगामांतर्हिता नभः
॥५५॥विद्रुतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तथा ।
प्रम्लानवदना युद्धान्निर्जग्मुर्युद्धदुर्मदाः
॥५६॥अथोऽभज्यत दैत्यानां सेना गणभयार्दिता ।
वायुवेगहता यद्वत्प्रकीर्णा तृणसंहतिः
॥५७॥भग्नां गणभयाद्दैत्यसेनां दृष्ट्वातिमर्षिताः ।
निशुंभशुंभौ सेनान्यौ कालनेमिश्च चुक्रुधुः
॥५८॥त्रयस्ते वरयामासुर्गणसेनां महाबलाः ।
मुंचंतश्शरवर्षाणि प्रावृषीव बलाहकाः
॥५९॥ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ।
रुरुधुः खं दिशस्सर्वा गणसेनामकंपयन्
॥६०॥गणाश्शरशतैर्भिन्ना रुधिरासारवर्षिणः ।
वसंतकिंशुकाभासा न प्राजानन्हि किंचन
॥६१॥ततः प्रभग्नं स्वबलं विलोक्य नन्द्यादिलंबोदरकार्त्तिकेयाः ।
त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते
॥६२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनं नाम विंशोऽध्यायः ॥ २० ॥