मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ४५

3
रुद्रसंहिता · युद्धखण्डः · 45

युद्धप्रारंभदूतसम्वादवर्णनम्

सनत्कुमार उवाच

गतस्ततो मत्तगजेन्द्रगामी पीत्वा सुरां घूर्णितलोचनश्च ।

महानुभावो बहुसैन्ययुक्तः प्रचंडवीरो वरवीरयायी

॥१॥

ददर्श दैत्यः स्मरबाणविद्धो गुहां ततो वीरकरुद्धमार्गाम् ।

स्निग्धं यथा वीक्ष्य पतंगसंज्ञः दशाप्रदीपं च कृमिर्ह्युपेत्य

॥२॥

तथा प्रदर्श्याशु पुनः पुनश्च संपीड्यमानोपि स वीरकेण ।

बभूव कामाग्निसुदग्धदेहोंऽधको महादैत्यपतिः स मूढः

॥३॥

पाषाणवृक्षाशनितोयवह्निभुजंगशस्त्रास्त्रविभीषिकाभिः ।

संपीडितोऽसौ न पुनः प्रपीड्यः पृष्टश्च कस्त्वं समुपागतोसि

॥४॥

निशम्य तद्गां स्वमतं स तस्मै चकार युद्धं स तु वीरकेण ।

मुहूर्तमाश्चर्यवदप्रमेयं संख्ये जितो वीरतरेण दैत्यः

॥५॥

ततस्तु संग्रामशिरो विहाय क्षुत्क्षामकंठस्तृषितो गतोऽभूत् ।

चूर्णीकृते खड्गवरे च खिन्ने पलायमानो गतविस्मयः सः

॥६॥

चक्रुस्तदाजिं सह वीरकेण प्रह्लादमुख्या दितिजप्रधानाः ।

लज्जांकुशाकृष्टधियो बभूवुस्सुदारुणाः शस्त्रशतैरनेकैः

॥७॥

विरोचनस्तत्र चकार युद्धं बलिश्च बाणश्च सहस्रबाहुः ।

भजिः कुजंभस्त्वथ शंबरश्च वृत्रादयश्चाप्यथ वीर्यवंतः

॥८॥

ते युद्ध्यमाना विजिताः समंताद्द्विधाकृता वै गणवीरकेण ।

शेषे हतानां बहुदानवानामुक्तं जयत्येव हि सिद्धसंघैः

॥९॥

भेरुंडजानाभिनयप्रवृत्ते मेदोवसामांससुपूयमध्ये ।

क्रव्यादसंघातसमाकुले तु भयंकरे शोणितकर्दमे तु

॥१०॥

भग्नैस्तु दैत्यैर्भगवान् पिनाकी व्रतं महापाशुपतं सुघोरम् ।

प्रियेः मया यत्कृतपूर्वमासीद्दाक्षायणीं प्राह सुसांत्वयित्वा

॥११॥

शिव उवाच

तस्माद्बलं यन्मम तत्प्रणष्टं मर्त्यैरमर्त्यस्य यतः प्रपातः ।

पुण्यक्षयाही ग्रह एव जातो दिवानिशं देवि तव प्रसंगात्

॥१२॥

उत्पाद्य दिव्यं परमाद्भुतं तु पुनर्वरं घोरतरं च गत्वा ।

तस्माद्व्रतं घोरतरं चरामि सुनिर्भयः सुन्दरि वै विशोका

॥१३॥

सनत्कुमार उवाच

एतावदुक्त्वा वचनं महात्मा उपाद्य घोषं शनकैश्चकार ।

स तत्र गत्वा व्रतमुग्रदीप्तो गतो वनं पुण्यतमं सुघोरम्

॥१४॥

चर्तुं हि शक्यं तु सुरासुरैर्यत्र तादृशं वर्षसहस्रमात्रम् ।

सा पार्वती मंदरपर्वतस्था प्रतीक्ष्यमाणागमनं भवस्य

॥१५॥

पतिव्रता शीलगुणोपपन्ना एकाकिनी नित्यमथो विभीता ।

गुहांतरे दुःखपरा बभूव संरक्षिता सा सुतवीरकेण

॥१६॥

ततस्स दैत्यो वरदानमत्तस्तैर्योधमुख्यैस्सहितो गुहां ताम् ।

विभिन्नधैर्यः पुनराजगाम शिलीमुखैर्मारसमुद्भवैश्च

॥१७॥

अत्यद्भुतं तत्र चकार युद्धं हित्वा तदा भोजनपाननिद्राः ।

रात्रिं दिवं पंचशतानि पंच क्रुद्धस्स सैन्यैस्सह वीरकेण

॥१८॥

खड्गैस्सकुंतैस्सह भिंदिपालर्गदाभुशुंडीभिरथो प्रकांडैः ।

शिलीमुखैरर्द्धशशीभिरुग्रैर्वितस्तिभिः कूर्ममुखैर्ज्वलद्भिः

॥१९॥

नाराचमुख्यै निशितैश्च शूलैः परश्वधैस्तोमरमुद्गरैश्च ।

खड्गैर्गुडैः पर्वतपादपैश्च दिव्यैरथास्त्रैररपि दैत्यसंघैः

॥२०॥

न दीधितिर्भिन्नतनुः पपात द्वारं गुहाया पिहितं समस्तम् ।

तैरायुधैर्दैत्यभुजप्रयुक्तैर्गुहामुखे मूर्छित एव पश्चात्

॥२१॥

आच्छादितं वीरकमस्त्रजालैर्दैत्यैश्च सर्वैस्तु मुहूर्तमात्रम् ।

अपावृतं कर्तुमशक्यमासीन्निरीक्ष्य देवी दितिजान् सुघोरान्

॥२२॥

भयेन सस्मार पितामहं तु देवी सखीभिस्सहिता च विष्णुम् ।

सैन्यं च मद्वीरवरस्य सर्वं सस्मारयामास गुहांतरस्था

॥२३॥

ब्रह्मा तया संस्मृतमात्र एव स्त्रीरूपधारी भगवांश्च विष्णुः ।

इन्द्रश्च सर्वेः सह सैन्यकैश्च स्त्रीरूपमास्थाय समागतास्ते

॥२४॥

भूत्वा स्त्रियस्ते विविशुस्तदानीं मुनीन्द्रसंघाश्च महानुभावाः ।

सिद्धाश्च नागास्त्वथ गुह्यकाश्च गुहांतरं पर्वतराजपुत्र्याः

॥२५॥

यस्मात्सुराज्य सनसंस्थितानामंतः पुरे संगमनं विरुद्धम् ।

ततस्सहस्राणि नितंबिनीनामनंतसंख्यान्यपि दर्शयंत्यः

॥२६॥

रूपाणि दिव्यानि महाद्भुतानि गौर्ये गुहायां तु सवीरकार्यैः ।

स्त्रियः प्रहृष्टा गिरिराजकन्या गुहांतरं पर्वतराजपुत्र्या

॥२७॥

स्त्रीभिस्सहस्रैश्च शतैरनेकैर्नेदुश्च कल्पांतरमेघघोषाः ।

भेर्य्यश्च संग्रामजयप्रदास्तु ध्मातास्सुशंखाः सुनितम्बिनीभिः

॥२८॥

मूर्छां विहायाद्भुत चंडवीर्यस्स वीरको वै पुरतः स्थितस्तु ।

प्रगृह्य शस्त्राणि महारथानां तैरेव शस्त्रैर्दितिजं जघान

॥२९॥

ब्राह्मी ततो दंड करा विरुद्धा गौरी तदा क्रोधपरीतचेताः ।

नारायणी शंखगदासुचक्रधनुर्द्धरा पूरितबाहुदंडा

॥३०॥

विनिर्ययौ लांगलदण्डहस्ता व्योमालका कांचनतुल्यवर्णा ।

धारासहस्राकुलमुग्रवेगं बैडौजसी वज्रकरा तदानीम्

॥३१॥

सहस्रनेत्रा युधि सुस्थिरा च सदुर्जया दैत्यशतैरधृष्या ।

वैश्वानरी शक्तिरसौम्यवक्त्रा याम्या च दंडोद्यतपाणिरुग्रा

॥३२॥

सुतीक्ष्णखङ्गोद्यतपाणिरूपा समाययौ नैर्ऋति घोरचापा ।

तोयालिका वारणपाशहस्ता विनिर्गता युद्धमभीप्समाना

॥३३॥

प्रचंडवातप्रभवा च देवी क्षुधावपुस्त्वंकुशपाणि रेव ।

कल्पान्तवह्निप्रतिमां गदां च पाणौ गृहीत्वा धनदोद्भवा च

॥३४॥

याक्षेश्वरी तीक्ष्णमुखा विरूपा नखायुधा नागभयंकरी च ।

एतास्तथान्याश्शतशो हि देव्यः सुनिर्गताः संकुलयुद्धभूमिम्

॥३५॥

दृष्ट्वा च तत्सैन्यमनंतपारं विवर्णवर्णाश्च सुविस्मिताश्च ।

समाकुलास्संचकिताभयाद्वै देव्यो बभूबुर्हृददीनसत्त्वाः

॥३६॥

चक्रुस्समाधाय मनस्समस्तास्ता देववध्वो विधिशक्तिमुख्याः ।

सुसंमत त्वेन गिरीशपुत्र्याः सेनापतिर्वीरसुघोरवीर्यः

॥३७॥

चक्रुर्महायुद्धमभूतपूर्वं निधाय बुद्धौ दितिजाः प्रधानाः ।

निवर्तनं मृत्युमथात्मनश्च नारीभिरन्ये वरदानसत्त्वाः

॥३८॥

अत्यद्भुतं तत्र चकार युद्धं गौरी तदानीं सहिता सखीभिः ।

कृत्वा रणे चाद्भुतबुद्धिशौण्डं सेनापतिं वीरकघोरवीर्यम्

॥३९॥

हिरण्यनेत्रात्मज एव भूपश्चक्रे महाव्यूहमरं सुकर्मा ।

संभाव्य विष्णुं च निरीक्ष्य याम्यां सुदारुणं तद्गिलनामधेयम्

॥४०॥

मुखं करालं विधिसेवयास्य तस्मिन् कृते भगवानाजगाम ।

कल्पान्तघोरार्कसहस्रकांतिकीर्णञ्च वै कुपितः कृत्ति वासाः

॥४१॥

गते ततो वर्षसहस्रमात्रे तमागतं प्रेक्ष्य महेश्वरं च ।

चक्रुर्महायुद्धमतीवमात्रं नार्यः प्रहृष्टास्सह वीरकेण

॥४२॥

प्रणम्य गौरी गिरिशं च मूर्ध्ना संदर्शयन् भर्तुरतीव शौर्यमम् ।

गौरी प्रयुद्धं च चकार हृष्टा हरस्ततः पर्वतराजपुत्रीम्

॥४३॥

कंठे गृहीत्वा तु गुहां प्रविष्टो रमासहस्राणि विसर्जितानि ।

गौरी च सन्मानशतैः प्रपूज्य गुहामुखे वीरकमेव स्थापयन्

॥४४॥

ततो न गौरीं गिरिशं च दृष्ट्वाऽसुरेश्वरो नीतिविचक्षणो हि ।

द्रुतं स्वदूतं विधसाख्यमेव स प्रेषयामास शिवोपकंठम्

॥४५॥

तैस्तैः प्रहारैरपि जर्ज रांगस्तस्मिन् रणे देवगणेरितैर्यः ।

जगाद वाक्यं तु सगर्वमुग्रं प्रविश्य शंभुं प्रणिपत्य मूर्ध्ना

॥४६॥

दूत उवाच

संप्रेषितोहं विविशे गुहांतु ह्यषौऽन्धकस्त्वां समुवाच वाक्यम् ।

नार्या न कार्यं तव किंचिदस्तिविमुच नारीं तरुणीं सुरूपाम्

॥४७॥

प्रायोभवास्तापसस्तज्जुषस्व क्षांतं मया यत्कमनीयमन्तः ।

मुनिर्विरोधव्य इति प्रचिंत्य न त्वं मुनिस्तापस किं तु शत्रुः

॥४८॥

अतीव?? दैत्येषु महाविरोधी युध्यस्व वेगेन मया प्रमथ्य ।

नयामि पातालतलानुरूपं यमक्षयं तापस धूर्त हि त्वाम्

॥४९॥

सनत्कुमार उवाच

एतद्वचो दूतमुखान्निशम्य कपालमाली तमुवाच कोपात् ।

ज्वलन्विषादेन महांस्त्रिनेत्रस्सतां गतिर्दुष्टमदप्रहर्ता

॥५०॥

शिव उवाच

व्यक्तं वचस्ते तदतीव चोग्रं प्रोक्तं हि तत्त्वं त्वरितं प्रयाहि ।

कुरुष्व युद्धं हि मया प्रसह्य यदि प्रशक्तोसि बलेन हि त्वम्

॥५१॥

यः स्यादशक्तो भुवि तस्य कोर्थो दारैर्धनैर्वा सुमनोहरैश्च ।

आयांतु दैत्याश्च बलेन मत्ता विचार्यमेवं तु कृतं मयै तत्

॥५२॥

शरीरयात्रापि कुतस्त्वशक्तेः कुर्वन्तु यद्यद्विहितं तु तेषाम् ।

ममापि यद्यत्करणीयमस्ति तत्तत्त्करिष्यामि न संश योत्र

॥५३॥

सनत्कुमार उवाच

एतद्वचस्तद्विधसोपि तस्माच्छ्रुत्वा हरान्निर्गत एव हृष्टः ।

प्रागात्ततो गर्जितहुंकृतानि कुर्वंस्ततोदैत्यपतेस्सकाशम्

॥५४॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे युद्धप्रारंभदूतसम्वादवर्णनंनाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥