मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ३४

3
रुद्रसंहिता · युद्धखण्डः · 34

शंखचूडयात्रावर्णनम्

व्यास उवाच

विधितात महाबुद्धे मुने जीव चिरं समाः ।

कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः

॥१॥

शिवदूते गते तत्र शङ्खचूडश्च दानवः ।

किं चकार प्रतापी स तत्त्वं वद सुविस्तरम्

॥२॥

सनत्कुमार उवाच

अथ दूते गते तत्र शंखचूडः प्रतापवान् ।

उवाच तुलसीं वार्तां गत्वाभ्यंतरमेव ताम्

॥३॥

शङ्खचूड उवाच

शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः ।

तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम्

॥४॥

इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम् ।

क्रीडां चकार हर्षेण तमनादृत्य शंकरम्

॥५॥

तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे ।

नानाकामकलाभिश्च निशि चाटुशुतैरपि

॥६॥

ब्राह्मे मुहूर्त उत्थाय प्रातःकृत्यं विधाय च ।

नित्यकार्यं च कृत्वादौ ददौ दानमनंतकम्

॥७॥

पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दान वेषु च ।

पुत्रे समर्प्य भार्यां च स राज्यं सर्वसंपदम्

॥८॥

प्रियामाश्वासयामास स राजा रुदतीं पुनः ।

निषेधतीं च गमनं नाना वार्तां प्रकथ्य च ।

निजसेनापतिं वीरं समाहूय समादृतः ।

आदिदेश स सनद्धस्संग्रामं कर्तुऽमुद्यतः

॥१०॥

शंखचूड उवाच

अद्य सेनापते वीरास्सर्वे समरशालिनः ।

संनद्धाखिलकर्माणो निर्गच्छंतु रणाय च

॥११॥

दैत्याश्च दानवाः शूरा षडशीतिरुदा युधाः ।

कंकानां बलिनां शीघ्रं सेना निर्यांतु निर्भयाः

॥१२॥

पञ्चाशदसुराणां हि निर्गच्छंतु कुलानि वै ।

कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा

॥१३॥

संनद्धानि च धौम्राणां कुलानि च शतं द्रुतम् ।

निर्गच्छंतु रणार्थं हि शम्भुना मम शासनात्

॥१४॥

कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा ।

सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात्

॥१५॥

सनत्कुमार उवाच

इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः ।

निर्जगाम महासैन्यः सहस्रैबहुभिर्वृतः

॥१६॥

तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः ।

महारथो महावीरो रथिनां प्रवरो रणे

॥१७॥

त्रिलक्षाक्षौहिणीयुक्तो मांडल्यं च चकार ह ।

बहिर्बभूव शिबिराद्रणे वीरभयङ्करः

॥१८॥

रत्नेन्द्रं सारनिर्माणं विमानमभिरुह्य सः ।

गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल ।

पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।

सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम्

॥२०॥

कपिलस्य ततः स्थानं पुण्यक्षेत्रे च भारते ।

पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे

॥२१॥

श्रीशैलोत्तरभागे च गंधमादनदक्षिणे ।

पंचयोजनविस्तीर्णं दैर्घ्ये शतगुणस्तथा

॥२२॥

शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा ।

पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती ।

लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसं युता ।

सरस्वतीसंश्रिता च निर्गता सा हिमालयात्

॥२४॥

गोमंतं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।

तत्र गत्वा शंखचूडः शिव सेनां ददर्श ह

॥२५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥