सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते
व्यास उवाच
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते ।
अद्भुतेयं कथा तात श्राविता मे त्वया मुने
॥१॥जृंभिते जृंभणास्त्रेण हरिणा समरे हरे ।
हते बाणबले बाणः किमकार्षीच्च तद्वद
॥२॥सूत उवाच
इत्याकर्ण्य वचस्तस्य व्यासस्यामिततेजसः ।
प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो मुनीश्वरः
॥३॥सनत्कुमार उवाच
शृणु व्यास महाप्राज्ञ कथां च परमाद्भुताम् ।
कृष्णशंकरयोस्तात लोकलीलानुसारिणोः
॥४॥शयिते लीलया रुद्रे सपुत्रे सगणे सति ।
बाणो विनिर्गतो युद्धं कर्तुं कृष्णेन दैत्यराट्
॥५॥कुंभांडसंगृहीताश्वो नानाशस्त्रास्त्रधृक् ततः ।
चकार युद्धमतुलं बलिपुत्रो महाबलः
॥६॥दृष्ट्वा निजबलं नष्टं स दैत्येन्द्रोऽत्यमर्षितः ।
चकार युद्धमतुलं बलि पुत्रो महाबलः
॥७॥श्रीकृष्णोपि महावीरो गिरिशाप्तमहाबलः ।
उच्चैर्जगर्ज तत्राजौ बाणं मत्वा तृणोपमम्
॥८॥धनुष्टंकारयामास शार्ङ्गाख्यं निजमद्भुतम् ।
त्रासयन्बाणसैन्यं तदवशिष्टं मुनीश्वर
॥९॥तेन नादेन महता धनुष्टंकारजेन हि ।
द्यावाभूम्योरंतरं वै व्याप्तमासीदनंतरम्
॥१०॥चिक्षेप विविधान्बाणान्बाणाय कुपितो हरिः ।
कर्णान्तं तद्विकृष्याथ तीक्ष्णानाशीविषोपमान्
॥११॥आयातांस्तान्निरीक्ष्याऽथ स बाणो बलिनन्दनः ।
अप्राप्तानेव चिच्छेद स्वशरैस्स्वधनुश्च्युतैः
॥१२॥पुनर्जगर्ज स विभुर्बाणो वैरिगणार्दनः ।
तत्रसुर्वृष्णयस्सर्वे कृष्णात्मानो विचेतसः
॥१३॥स्मृत्वा शिवपदाम्भोजं चिक्षेप निजसायकान् ।
स कृष्णायातिशूराय महागर्वो बलेस्सुतः
॥१४॥कृष्णोपि तानसंप्राप्तानच्छिनत्सशरैर्द्रुतम् ।
स्मृत्वा शिवपदाम्भोजममरारि महाबलः
॥१५॥रामादयो वृष्णयश्च स्वंस्वं योद्धारमाहवे ।
निजघ्नुर्बलिनस्सर्वे कृत्वा क्रोधं समाकुलाः
॥१६॥इत्थं चिरतरं तत्र बलिनोश्च द्वयोरपि ।
बभूव तुमुलं युद्धं शृण्वतां विस्मयावहम्
॥१७॥तस्मिन्नवसरे तत्र क्रोधं कृत्वाऽतिपक्षिराट् ।
बाणासुरबलं सर्वं पक्षाघातैरमर्दयत्
॥१८॥मर्दितं स्वबलं दृष्ट्वा मर्दयंतं च तं बली ।
चुकोपाति बलेः पुत्रः शैवराड् दितिजेश्वरः
॥१९॥स्मृत्वा शिवपदाम्भोजं सहस्रभुजवान्द्रुतम् ।
महत्पराक्रमं चक्रे वैरिणां दुस्सहं स वै
॥२०॥चिक्षेप युगपद्बाणानमितांस्तत्र वीरहा ।
कृष्णादिसर्वयदुषु गरुडे च पृथक्पृथक्
॥२१॥जघानैकेन गरुडं कृष्णमेकेन पत्त्रिणा ।
बलमेकेन च मुने परानपि तथा बली
॥२२॥ततः कृष्णो महावीर्यो विष्णुरूपस्सुरारिहा ।
चुकोपातिरणे तस्मिञ्जगर्ज च महेश्वरः
॥२३॥जघान बाणं तरसा शार्ङ्गनिस्सृतसच्छरैः ।
अति तद्बलमत्युग्रं युगपत्स्मृतशंकरः
॥२४॥चिच्छेद तद्धनुश्शीघ्रं छत्रादिकमना कुलः ।
हयांश्च पातयामास हत्वा तान्स्वशरैर्हरिः
॥२५॥बाणोऽपि च महावीरो जगर्जाति प्रकुप्य ह ।
कृष्णं जघान गदया सोऽपतद्धरणीतले
॥२६॥उत्थायारं ततः कृष्णो युयुधे तेन शत्रुणा ।
शिवभक्तेन देवर्षे लोकलीलाऽनुसारतः
॥२७॥एवं द्वयोश्चिरं काल बभूव सुमहान्रणः ।
शिवरूपो हरिः कृष्णः स च शैवोत्तमो बली
॥२८॥कृष्णोऽथ कृत्वा समरं चिरं बाणेन वीर्यवान् ।
शिवाऽऽज्ञया प्राप्तबलश्चुकोपाति मुनीश्वरः
॥२९॥ततस्सुदर्शनेनाशु कृष्णो बाणभुजान्बहून् ।
चिच्छेद भगवाञ्शंभु शासनात्परवीरहा
॥३०॥अवशिष्टा भुजास्तस्य चत्वारोऽतीव सुन्दराः ।
गतव्यथो बभूवाशु शंकरस्य प्रसादतः
॥३१॥गतस्मृतिर्यदा बाण शिरश्छेत्तुं समुद्यतः ।
कृष्णो वीरत्वमापन्नस्तदा रुद्रस्समुत्थितः
॥३२॥रुद्र उवाच
भगवन्देवकीपुत्र यदाज्ञप्तं मया पुरा ।
तत्कृतं च त्वया विप्र मदाज्ञाकारिणा सदा
॥३३॥मा बाणस्य शिरश्छिंधि संहरस्व सुदर्शनम् ।
मदाज्ञया चक्रमिदं स्यान्मोघं मज्जने सदा
॥३४॥दत्तं मया पुरा तुभ्यमनिवार्यं रणे तव ।
चक्रं जयं च गोविन्द निवर्तस्व रणात्ततः
॥३५॥दधीचे रावणे वीरे तारकादिपुरेष्वपि ।
विना मदाज्ञां लक्ष्मीश रथाङ्गं नामुचः पुरा
॥३६॥त्वं तु योगीश्वरस्स्साक्षात्परमात्मा जनार्दन ।
विचार्यतां स्वमनसा सर्वभूतहिते रतः
॥३७॥वरमस्य मया दत्तं न मृत्युर्भयमस्ति वै ।
तन्मे वचस्सदा सत्यं परितुष्टोस्म्यहं तव
॥३८॥पुराऽयं गर्वितो मत्तो युद्धं देहीति मेऽब्रवीत् ।
भुजान्कण्डूयमानस्तु विस्मृतात्मगतिर्हरे
॥३९॥तदाहमशपं तं वै भुजच्छेत्ताऽऽगमिष्यति ।
अचिरेणातिकालेन गतगर्वो भविष्यसि
॥४०॥मदाज्ञया हरिः प्राप्तो भुजच्छेत्ता तवाऽथ वै ।
निवर्तस्व रणाद्गच्छ स्वगृहं सवधूवरः
॥४१॥इत्युक्तः स तयोमैत्रीं कारयित्वा महेश्वरः ।
तममुज्ञाप्य सगणः सपुत्रः स्वालयं ययौ
॥४२॥सनत्कुमार उवाच
इत्याकर्ण्य वचश्शंभोस्संहृत्य च सुदर्शनम् ।
अक्षतांगस्तु विजयी तत्कृष्णोंतःपुरं ययौ
॥४३॥अनिरुद्धं समाश्वास्य सहितं भार्यया पुनः ।
जग्राह रत्नसंघातं बाणदत्तमनेकशः
॥४४॥तत्सखीं चित्रलेखां च गृहीत्वा परयोगिनीम् ।
प्रसन्नोऽभूत्ततः कृष्णः कृतकार्यः शिवाज्ञया
॥४५॥हृदा प्रणम्य गिरिशमामंत्र्य च बलेस्तुतम् ।
परिवारसमेतस्तु जगाम स्वपुरीं हरिः
॥४६॥पथि जित्वा च वरुणं विरुद्धं तमनेकधा ।
द्वारकां च पुरीं प्राप्तस्समुत्सवसमन्वितः
॥४७॥विसर्जयित्वा गरुडं सखीन्वीक्ष्योपहस्य च ।
द्वारकायां ततो दृष्ट्वा कामचारी चचार ह
॥४८॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे बाणभुजकृंतनगर्वापहारवर्णनं नाम पञ्चपञ्चाशत्तमोध्यायः ॥ ५५ ॥