मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ५४

3
रुद्रसंहिता · युद्धखण्डः · 54

बाणाऽसुररुद्रकृष्णादियुद्धवर्णनम्

व्यास उवाच

अनिरुद्धे हृतै पौत्रे कृष्णस्य मुनिसत्तम ।

कुंभांडसुतया कृष्णः किमकार्षीद्धि तद्वद

॥१॥

सनत्कुमार उवाच

ततो गतेऽनिरुद्धे तु तत्स्त्रीणां रोदनस्वनम् ।

श्रुत्वा च व्यथितः कृष्णो बभूव मुनिसत्तम

॥२॥

अपश्यतां चानिरुद्धं तद्बंधूनां हरेस्तथा ।

चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम्

॥३॥

नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ।

आसन्सुव्यथितास्सर्वे वृष्णयः कृष्णदेवताः

॥४॥

! कृष्णस्तद्वृत्तमखिलं श्रुत्वा युद्धाय चादरात् ।

जगाम शोणितपुरं तार्क्ष्यमाहूय तत्क्षणात्

॥५॥

प्रद्युम्नो युयुधानश्च गतस्सांबोथ सारणः ।

नंदोपनंदभद्राद्या रामकृष्णानुवर्तिनः

॥६॥

अक्षौहिणीभिर्द्वादशभिस्समेतासर्वतो दिशम् ।

रुरुधुर्बाणनगरं समंतात्सात्वतर्षभाः

॥७॥

भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ।

वीक्ष्यमाणो रुषाविष्टस्तुल्यसैन्योभिनिर्ययौ

॥८॥

बाणार्थे भगवान् रुद्रस्ससुतः प्रमथैर्वृतः ।

आरुह्य नन्दिवृषभं युद्धं कर्त्तुं समाययौ

॥९॥

आसीत्सुतुमुलं युद्धमद्भुतं लोमहर्षणम् ।

कृष्णादिकानां तैस्तत्र रुद्राद्यैर्बाणरक्षकैः

॥१०॥

कृष्णशंकरयोरासीत्प्रद्युम्नगुहयोरपि ।

कूष्मांडकूपकर्णाभ्यां बलेन सह संयुगः

॥११॥

सांबस्य बाणपुत्रेण बाणेन सह सात्यकेः ।

नन्दिना गरुडस्यापि परेषां च परैरपि

॥१२॥

ब्रह्मादयस्सुराधीशा मुनयः सिद्धचारणाः ।

गंधर्वाऽप्सरसो यानैर्विमानैर्द्रष्टुमागमन्

॥१३॥

प्रमथैर्विविधाकारै रेवत्यंतैः सुदारुणम् ।

युद्धं बभूव विप्रेन्द्र तेषां च यदुवंशिनाम्

॥१४॥

भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता ।

कृष्णश्चकार समरमतुलं प्रमथैस्सह

॥१५॥

तत्राग्निनाऽभवद्युद्धं यमेन वरुणेन च ।

विमुखेन त्रिपादेन ज्वरेण च गुहेन च

॥१६॥

प्रमथैर्विविधाकारैस्तेषामन्यं तदारुणम् ।

युद्धं बभूव विकटं वृष्णीनां रोमहर्षणम्

॥१७॥

विभीषिकाभिर्बह्वीभिः कोटरीभिः पदेपदे ।

निर्ल्लज्जाभिश्च नारीभिः प्रबलाभिरदूरतः

॥१८॥

शंकरानुचराञ्शौरिर्भूतप्रमथगुह्यकान् ।

द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः

॥१९॥

एवं प्रद्युम्नप्रमुखा वीरा युद्धमहोत्सवाः ।

चक्रुर्युद्धं महाघोरं शत्रुसैन्यं विनाशयन्

॥२०॥

विशीर्यमाणं स्वबलं दृष्ट्वा रुद्रोत्यमर्षणः ।

क्रोधं चकार सुमहन्ननाद च महोल्बणम्

॥२१॥

तच्छ्रुत्वा शंकरगणा विनेदुर्युयुधुश्च ते ।

मर्दयन्प्रतियोद्धारं वर्द्धिताश्शंभुतेजसा

॥२२॥

पृथग्विधानि चायुक्तं शार्ङ्गास्त्राणि पिनाकिने ।

प्रत्यक्षैश्शमयामास शूलपाणिरविस्मितः

॥२३॥

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।

आग्नेयस्य च पार्जन्यं नैजं नारायणस्य च

॥२४॥

कृष्णसैन्यं विदुद्राव प्रतिवीरेण निर्जितम् ।

न तस्थौ समरे व्यास पूर्णरुद्रसुतेजसा

॥२५॥

विद्राविते स्वसैन्ये तु श्रीकृष्णश्च परंतपः ।

स्वं ज्वरं शीतलाख्यं हि व्यसृजद्दारुणं मुने

॥२६॥

विद्राविते कृष्णसैन्ये कृष्णस्य शीतलज्वरः ।

अभ्यपद्यत तं रुद्रं मुने दशदिशो दहन्

॥२७॥

महेश्वरोथऽ तं दृष्ट्वायांतं स्वं विसृजज्ज्वरम् ।

माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ

॥२८॥

वैष्णवोऽथ समाक्रदन्माहेश्वरबलार्दितः ।

अलब्ध्वा भयमन्यत्र तुष्टाव वृषभध्वजम्

॥२९॥

अथ प्रसन्नो भगवान्विष्णुज्वरनुतो हरः ।

विष्णुशीतज्वरं प्राह शरणागतवत्सलः

॥३०॥

महेश्वर उवाच

शीतज्वर प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ।

यो नौ स्मरति संवादं तस्य न स्याज्ज्वराद्भयम्

॥३१॥

सनत्कुमार उवाच

इत्युक्तो रुद्रमानम्य गतो नारायणज्वरः ।

तं दृष्ट्वा चरितं कृष्णो विसिस्माय भयान्वितः

॥३२॥

स्कन्द प्रद्युम्नबाणौघैरर्द्यमानोऽथ कोपितः ।

जघान शक्त्या प्रद्युम्नं दैत्यसंघात्यमर्षणः

॥३३॥

स्कंदप्राप्तिहतस्तत्र प्रद्युम्नः प्रबलोपि हि ।

असृग्विमुंचन्गात्रेभ्यो बलेनापाक्रमद्रणात्

॥३४॥

कुंभांडकूपकर्णाभ्यां नानास्त्रैश्च समाहतः ।

दुद्राव बलभद्रोपि न तस्थेपि रणे बली

॥३५॥

कृत्वा सहस्रं कायानां पीत्वा तोयं महार्णवात् ।

गरुडो नाशयत्यर्थाऽऽवर्तैर्मेघार्णवांबुभिः

॥३६॥

अथ क्रुद्धो महेशस्य वाहनो वृषभो बली ।

वेगेन महतारं वै शृंगाभ्यां निजघान तम्

॥३७॥

शृंगघातविशीर्णांगो गरुडोऽतीव विस्मितः ।

विदुद्राव रणात्तूर्णं विहाय च जनार्दनम्

॥३८॥

एवं जाते चरित्रं तु भगवान्देवकीसुतः ।

उवाच सारथिं शीघ्रं रुद्रतेजोतिविस्मितः

॥३९॥

श्रीकृष्ण उवाच

हे सूत शृणु मद्वाक्यं रथं मे वाहय द्रुतम् ।

महादेवसमीपस्थो यथा स्यां गदितुं वचः

॥४०॥

सनत्कुमार उवाच

इत्युक्तो हरिणा सूतो दारुकस्स्वगुणाग्रणीः ।

द्रुतं तं वाहयामास रथं रुद्रसमीपतः

॥४१॥

अथ विज्ञापयामास नतो भूत्वा कृतांजलिः ।

श्रीकृष्णः शंकरं भक्त्या प्रपन्नो भक्तवत्सलम्

॥४२॥

श्रीकृष्ण उवाच

देवदेव महादेव शरणागतवत्सल ।

नमामि त्वाऽनंतशक्तिं सर्वात्मानं परेश्वरम्

॥४३॥

विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्ति मात्रकम् ।

ब्रह्मलिंगं परं शांतं केवलं परमेश्वरम्

॥४४॥

कालो दैवं कर्म जीवस्स्वभावो द्रव्यमेव च ।

क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः

॥४५॥

बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो ।

तन्निबंधं प्रपद्येह त्वामहं परमेश्वरम्

॥४६॥

नाना भावैर्लीलयैव स्वीकृतैर्निर्जरादिकान् ।

नूनं बिभषिं लोकेशो हंस्युन्मार्गान्स्वभावतः

॥४७॥

त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ।

यं पश्यंत्यमलात्मानमाकाशमिव केवलम्

॥४८॥

त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् ।

ईशो हेतुरहेतुश्च सविकारः प्रतीयसे

॥४९॥

स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो ।

सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर

॥५०॥

यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो ।

स्वच्छायया संचकास्ति ह्ययं परमदृग्भवान्

॥५१॥

गुणेनापिहितोपि त्वं गुणे व गुणान् विभो ।

स्वप्रदीपश्चकास्सि त्वं भूमन् गिरिश शंकर

॥५२॥

त्वन्मायामोहितधियः पुत्रदारगृहादिषु ।

उन्मज्जंति निमज्जंति प्रसक्ता वृजिनार्णवे

॥५३॥

दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।

यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवंचकः

॥५४॥

त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः ।

त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा

॥५५॥

निवर्त्तस्व रणा द्देव त्वच्छापो न वृथा भवेत् ।

आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृंतने

॥५६॥

सनत्कुमार उवाच

इत्याकर्ण्य वचश्शंभुः श्रीकृष्णस्य मुनीश्वर ।

प्रत्युवाच प्रसन्नात्मा कृष्णस्तुत्या महेश्वरः

॥५७॥

महेश्वर उवाच

सत्यमुक्तं त्वया तात मया शप्तो हि दैत्यराट् ।

मदाज्ञया भवान्प्राप्तो बाणदोदंडकृंतने

॥५८॥

किं करोमि रमानाथ भक्ताधीनस्सदा हरे ।

पश्यतो मे कथं वीर स्याद्बाणभुजकृंतनम्

॥५९॥

अतस्त्वं जृंभणास्त्रेण मां जंभय मदाज्ञया ।

ततस्त्वं कुरु कार्यं स्वं यथेष्टं च सुखी भव

॥६०॥

सनत्कुमार उवाच

इत्युक्तश्शंकरेणाथ शार्ङ्गपाणिस्तु विस्मितः ।

स्वरणस्थानमागत्य मुमोद स मुनीश्वरः

॥६१॥

जृंभणास्त्रं मुमोचाथ संधाय धनुषि द्रुतम् ।

पिनाकपाणये व्यास नानास्त्रकुशलो हरिः

॥६२॥

मोहयित्वा तु गिरिशं जृंभणास्त्रेण जृंभितम् ।

बाणस्य पृतनां शौरिर्जघानासिगदर्ष्टिभिः

॥६३॥

इति शिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे बाणाऽसुररुद्रकृष्णादियुद्धवर्णनं नाम चतुःपंचाशत्तमोऽध्यायः

॥५४॥