मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ४

3
रुद्रसंहिता · युद्धखण्डः · 4

त्रिपुरदीक्षाविधानम्

सनत्कुमार उवाच

असृजच्च महातेजाः पुरुषं स्वात्मसंभवम् ।

एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः

॥१॥

मुंडिनं म्लानवस्त्रं च गुंफिपात्रसमन्वितम् ।

दधानं पुंजिकां हस्ते चालयंतं पदेपदे

॥२॥

वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा ।

धर्मेति व्याहरंतं हि वाचा विक्लवया मुनिम्

॥३॥

स नमस्कृत्य विष्णुं तं तत्पुरस्स स्थितोऽथ वै ।

उवाच वचनं तत्र हरिं स प्रांजलिस्तदा

॥४॥

अरिहन्नच्युतं पूज्यं किं करोमि तदादिश ।

कानि नामानि मे देव स्थानं वापि वद प्रभो

॥५॥

इत्येवं भगवान्विष्णुः श्रुत्वा तस्य शुभं वचः ।

प्रसन्नमानसो भूत्वा वचनं चेदमब्रवीत्

॥६॥

विष्णुरुवाच

यदर्थं निर्मितोऽसि त्वं निबोध कथयामि ते ।

मदंगज महाप्राज्ञ मद्रूपस्त्वं न संशयः

॥७॥

ममांगाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि ।

मदीयस्त्वं सदा पूज्यो भविष्यति न संशयः

॥८॥

अरिहन्नाम ते स्यात्तु ह्यन्यानि न शुभानि च ।

स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात्

॥९॥

मायिन्मायामयं शास्त्रं तत्षोडशसहस्रकम् ।

श्रौतस्मार्तविरुद्धं च वर्णाश्रम विवर्जितम्

॥१०॥

अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा ।

रचयेति प्रयत्नेन तद्विस्तारो भविष्यति

॥११॥

ददामि तव निर्माणे सामर्थ्यं तद्भविष्यति ।

माया च विविधा शीघ्रं त्वदधीना भविष्यति

॥१२॥

तच्छ्रुत्वा वचनं तस्य हरेश्च परमात्मनः ।

नमस्कृत्य प्रत्युवाच स मायी तं जनार्दनम्

॥१३॥

मुण्ड्युवाच

यत्कर्तव्यं मया देव द्रुतमादिश तत्प्रभो ।

त्वदाज्ञयाखिलं कर्म सफलश्च भविष्यति

॥१४॥

सनत्कुमार उवाच

इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा ।

इहैव स्वर्गनरकप्रत्ययो नान्यथा पुनः

॥१५॥

तमुवाच पुनर्विष्णुः स्मृत्वा शिवपदांबुजम् ।

मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः

॥१६॥

कार्यास्ते दीक्षिता नूनं पाठनीयाः प्रयत्नतः ।

मदाज्ञया न दोषस्ते भविष्यति महामते

॥१७॥

धर्मास्तत्र प्रकाशन्ते श्रौतस्मार्त्ता न संशयः ।

अनया विद्यया सर्वे स्फोटनीया ध्रुवं यते

॥१८॥

गंतुमर्हसि नाशार्थं मुण्डिंस्त्रिपुरवासिनाम् ।

तमोधर्मं संप्रकाश्य नाशयस्व पुरत्रयम्

॥१९॥

ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो ।

स्थातव्यं च स्वधर्मेण कलिर्यावत्समा व्रजेत्

॥२०॥

प्रवृत्ते तु युगे तस्मिन्स्वीयो धर्मः प्रकाश्यताम् ।

शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः

॥२१॥

मदाज्ञया भवद्धर्मो विस्तारं यास्यति ध्रुवम् ।

मदनुज्ञापरो नित्यं गतिं प्राप्स्यसि मामकीम्

॥२२॥

एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना ।

शासनाद्देवदेवस्य हृदा त्वंतर्दधे हरिः

॥२३॥

ततस्स मुंडी परिपालयन्हरेराज्ञां तथा निर्मितवांश्च शिष्यान् ।

यथास्वरूपं चतुरस्तदानीं मायामयं शास्त्रमपाठयत्स्वयम्

॥२४॥

यथा स्वयं तथा ते च चत्वारो मुंडिनः शुभाः ।

नमस्कृत्य स्थितास्तत्र हरये परमात्मने

॥२५॥

हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् ।

उवाच परमप्रीतश्शिवाज्ञापरिपालकः

॥२६॥

यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया ।

धन्याः स्थ सद्गतिमिह संप्राप्स्यथ न संशयः

॥२७॥

चत्वारो मुंडिनस्तेऽथ धर्मं पाषंडमाश्रिताः ।

हस्ते पात्रं दधानाश्च तुंडवस्त्रस्य धारकाः

॥२८॥

मलिनान्येव वासांसि धारयंतो ह्यभाषिणः ।

धर्मो लाभः परं तत्त्वं वदंतस्त्वतिहर्षतः

॥२९॥

मार्जनीं ध्रियमाणाश्च वस्त्रखंडविनिर्मिताम् ।

शनैः शनैश्चलन्तो हि जीवहिंसाभयाद्ध्रुवम्

॥३०॥

ते सर्वे च तदा देवं भगवंतं मुदान्विताः ।

नमस्कृत्य पुनस्तत्र मुने तस्थुस्तदग्रतः

॥३१॥

हरिणा च तदा हस्ते धृत्वा च गुरवेर्पिताः ।

अभ्यधायि च सुप्रीत्या तन्नामापि विशेषतः

॥३२॥

यथा त्वं च तथैवैते मदीया वै न संशयः ।

आदिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते

॥३३॥

ऋषिर्यतिस्तथा कीर्यउपाध्याय इति स्वयम् ।

इमान्यपि तु नामानि प्रसिद्धानि भवंतु वः

॥३४॥

ममापि च भवद्भिश्च नाम ग्राह्यं शुभं पुनः ।

अरिहन्निति तन्नामध्येयं पापप्रणाशनम्

॥३५॥

भवद्भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् ।

लोकानुकूलं चरतां भविष्यत्युत्तमा गतिः

॥३६॥

सनत्कुमार उवाच

ततः प्रणम्य तं मायी शिष्ययुक्तस्स्वयं तदा ।

जगाम त्रिपुरं सद्यः शिवेच्छाकारिणं मुमा

॥३७॥

प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी ।

महामायाविना तेन ऋषिर्मायां तदाकरोत्

॥३८॥

नगरोपवने कृत्वा शिष्यैर्युक्तः स्थितितदा ।

मायां प्रवर्तयामास मायिनामपि मोहिनीम्

॥३९॥

शिवार्चनप्रभावेण तन्माया सहसा मुने ।

त्रिपुरे न चचालाशु निर्विण्णोभूत्तदा यतिः

॥४०॥

अथ विष्णुं स सस्मार तुष्टाव च हृदा बहु ।

नष्टोत्साहो विचेतस्को हृदयेन विदूयता

॥४१॥

तत्स्मृतस्त्वरितं विष्णुस्सस्मार शंकरं हृदि ।

प्राप्याज्ञां मनसा तस्य स्मृतवान्नारदं द्रुतम्

॥४२॥

स्मृतमात्रेण विष्णोश्च नारदस्समुपस्थितः ।

नत्वा स्तुत्वा पुरस्तस्य स्थितोभूत्सांजलिस्तदा

॥४३॥

अथ तं नारदं प्राह विष्णुर्मुनिमतां वरः ।

लोकोपकारनिरतो देवकार्यकरस्सदा

॥४४॥

शिवाज्ञयोच्यते तात गच्छ त्वं त्रिपुरं द्रुतम् ।

ऋषिस्तत्र गतः शिष्यैर्मोहार्थं तत्सुवासिनाम्

॥४५॥

सनत्कुमार उवाच

इत्याकर्ण्य वचस्तस्य नारदो मुनिसत्तमः ।

गतस्तत्र द्रुतं यत्र स ऋषिर्मायिनां वरः

॥४६॥

नारदोऽपि तथा मायी नियोगान्मायिनः प्रभोः ।

प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः

॥४७॥

ततश्च नारदो गत्वा त्रिपुराधीशसन्निधौ ।

क्षेमप्रश्नादिकं कृत्वा राज्ञे सर्वं न्यवेदयत्

॥४८॥

नारद उवाच

कश्चित्समागतश्चात्र यतिर्धर्मपरायणः ।

सर्वविद्याप्रकृष्टो हि वेदविद्यापरान्वितः

॥४९॥

दृष्ट्वा च बहवो धर्मा नैतेन सदृशाः पुनः ।

वयं सुदीक्षिताश्चात्र दृष्ट्वा धर्मं सनातनम्

॥५०॥

तवेच्छा यदि वर्तेत तद्धर्मे दैत्यसत्तम ।

तद्धर्मस्य महाराज ग्राह्या दीक्षा त्वया पुनः

॥५१॥

सनत्कुमार उवाच

तदीयं स वचः श्रुत्वा महदर्थसुगर्भितम् ।

विस्मितो हृदि दैत्येशो जगौ तत्र विमोहितः

॥५२॥

नारदो दीक्षितो यस्माद्वयं दीक्षामवाप्नुमः ।

इत्येवं च विदित्वा वै जगाम स्वयमेव ह

॥५३॥

तद्रूपं च तदा दृष्ट्वा मोहितो मायया तथा ।

उवाच वचनं तस्मै नमस्कृत्य महात्मने

॥५४॥

त्रिपुराधिप उवाच

दीक्षा देया त्वया मह्यं निर्मलाशय भो ऋषे ।

अहं शिष्यो भविष्यामि सत्यं सत्यं न संशयः

॥५५॥

इत्येवं तु वचः श्रुत्वा दैत्यराजस्य निर्मलम् ।

प्रत्युवाच सुयत्नेन ऋषिस्स च सनातनः

॥५६॥

मदीया करणीया स्याद्यद्याज्ञा दैत्यसत्तम ।

तदा देया मया दीक्षा नान्यथा कोटियत्नतः

॥५७॥

इत्येवं तु वचः श्रुत्वा राजा मायामयोऽभवत् ।

उवाच वचनं शीघ्रं यतिं तं हि कृतांजलिः

॥५८॥

दैत्य उवाच

यथाज्ञां दास्यसि त्वं च तत्तथैव न चान्यथा ।

त्वदाज्ञां नोल्लंघयिष्ये सत्यं सत्यं न संशयः

॥५९॥

सनत्कुमार उवाच

इत्याकर्ण्य वचस्तस्य त्रिपुराधीशितुस्तदा ।

दूरीकृत्य मुखाद्वस्त्रमुवाच ऋषिसत्तमः

॥६०॥

दीक्षां गृह्णीष्व दैत्येन्द्र सर्वधर्मोत्तमोत्तमाम् ।

ददौ दीक्षाविधानेन प्राप्स्यसि त्वं कृतार्थताम्

॥६१॥

सनत्कुमार उवाच

इत्युक्त्वा स तु मायावी दैत्यराजाय सत्वरम् ।

ददौ दीक्षां स्वधर्मोक्तां तस्मै विधिविधानतः

॥६२॥

दैत्यराजे दीक्षिते च तस्मिन्ससहजे मुने ।

सर्वे च दीक्षिता जातास्तत्र त्रिपुरवासिनः

॥६३॥

मुनेः शिष्यैः प्रशिष्यैश्च व्याप्तमासीद्द्रुतं तदा ।

महामायाविनस्तत्तु त्रिपुरं सकलं मुने

॥६४॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे सनत्कुमारपाराशर्य संवादे त्रिपुरदीक्षाविधानं नाम चतुर्थोऽध्यायः ॥ ४ ॥