शृणु व्यास प्रवक्ष्यामि चरितं शशिमौलिनः
सनत्कुमार उवाच
शृणु व्यास प्रवक्ष्यामि चरितं शशिमौलिनः ।
यथा दुंदुभिनिर्ह्रादमवधीद्दितिजं हरः
॥१॥हिरण्याक्षे हते दैत्ये दितिपुत्रे महाबले ।
विष्णुदेवेन कालेन प्राप दुखं पहद्दितिः?
॥२॥दैत्यो दुंदुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ।
सांत्वयामास तां वाग्भिर्दुःखितां देवदुःखदः
॥३॥अथ दैत्यस्स मायावी दितिमाश्वास्य दैत्यराट् ।
देवाः कथं सुजेयाः स्युरित्युपायमर्चितयत्
॥४॥देवैश्च घातितो वीरो हिरण्याक्षो महासुरः ।
विष्णुना च सह भ्रात्रा सच्छलैर्देत्यवैरिभिः
॥५॥किंबलाश्च किमाहारा किमाधारा हि निर्जराः ।
मया कथं सुजेयास्स्युरित्युपायमचिंतयत्
॥६॥विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ।
अवश्यमग्रजन्मानो हेतवोऽत्र विचारतः
॥७॥ब्राह्मणान्हंतुमसकृदन्वधावत वै ततः ।
दैत्यो दुन्दुभिनिर्ह्रादो देववैरी महाखलः
॥८॥यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः ।
ते वेदा ब्राह्मणाधारास्ततो देवबलं द्विजाः
॥९॥निश्चितं ब्राह्मणाधारास्सर्वे वेदास्सवासवाः ।
गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा
॥१०॥ब्राह्मणा यदि नष्टास्स्युर्वेदा नष्टास्ततस्त्वयम् ।
अतस्तेषु प्रणष्टेषु विनष्टाः सततं सुराः
॥११॥यज्ञेषु नाशं गच्छत्सु हताहारास्ततस्सुराः ।
निर्बलास्सुखजय्याः स्युर्निर्जितेषु सुरेष्वथ
॥१२॥अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ।
अहरिष्यामि देवा नामक्षयास्सर्वसंपदः
॥१३॥निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ।
इति निश्चित्य दुर्बुद्धिः पुनश्चिंतितवान्खलः
॥१४॥द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिता ।
श्रुत्यध्यनसंपन्नास्तपोबलसमन्विताः
॥१५॥भूयसां ब्राह्मणानां तु स्थानं वाराणसी खलु ।
तामादावुपसंहृत्य यायां तीर्थांतरं ततः
॥१६॥यत्र यत्र हि तीर्थेषु यत्र यत्राश्रमेषु च ।
संति सर्वेऽग्रजन्मानस्ते मयाद्यास्समंततः
॥१७॥इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ।
प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद्द्विजान्
॥१८॥समित्कुशान्समादातुं यत्र यांति द्विजोत्तमाः ।
अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः
॥१९॥यथा कोऽपि न वेत्त्येवं तथाऽच्छन्नोऽभवत्पुनः ।
वने वनेचरो भूत्वा यादोरूपो जलाशये
॥२०॥अदृश्यरूपी मायावी देवानामप्यगोचरः ।
दिवा ध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः
॥२१॥प्रवेशमुटजानां च निर्गमं हि विलोकयन् ।
यामिन्यां व्याघ्ररूपेणाभक्षयद्ब्राह्मणान्बहून्
॥२२॥निश्शंकम्भक्षयत्येवं न त्यजत्यपि कीकशम् ।
इत्थं निपातितास्तेन विप्रा दुष्टेन भूरिशः
॥२३॥एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ।
सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोऽभवत्
॥२४॥स च दुंदुभिनिर्ह्रादो दैत्येन्द्रो बलदर्पितः ।
व्याघ्ररूपं समास्थाय तमादातुं मतिं दधे
॥२५॥तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे ।
कृतास्त्रमन्त्रविन्यासं तं क्रांतुमशकन्न सः
॥२६॥अथ सर्वं गतश्शम्भुर्ज्ञात्वा तस्याशयं हरः ।
दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम्
॥२७॥यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ।
जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षणदक्षधीः
॥२८॥रुद्रमायांतमालोक्य तद्भक्तार्चितलिंगतः ।
दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः
॥२९॥सावज्ञमथ सर्वज्ञं यावत्पश्यति दानवः ।
तावदायातमादाय कक्षायंत्रे न्यपीडयत्
॥३०॥पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्द्धन्यताडयत ।
भक्तवत्सलनामासौ वज्रादपि कठोरया
॥३१॥स तेन मुष्टिघातेन कक्षानिष्पेषणेन च ।
अत्यार्तमारटद्व्याघ्रो रोदसीं पूरयन्मृतः
॥३२॥तेन नादेन महता संप्रवेपितमानसाः ।
तपोधनास्समाजग्मुर्निशि शब्दानुसारतः
॥३३॥अत्रेश्वरं समालोक्य कक्षीकृतमृगेश्वरम् ।
तुष्टुवुः प्रणतास्सर्वे शर्वं जयजयाक्षरैः
॥३४॥ब्राह्मणा ऊचुः
परित्राताः परित्राताः प्रत्यूहाद्दारुणादितः ।
अनुग्रहं कुरुष्वेश तिष्ठात्रैव जगद्गुरो
॥३५॥अनेनैव स्वरूपेण व्याघ्रेश इति नामतः ।
कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा
॥३६॥अन्येभ्यो ह्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ।
दुष्टानष्टास्य? गौरीश भक्तेभ्यो देहि चाभयम्
॥३७॥सनत्कुमार उवाच
इत्याकर्ण्य वचस्तेषां भक्तानां चन्द्रशेखरः ।
तथेत्युक्त्वा पुनः प्राह स भक्तान्भक्तवत्सलः ।
महेश्वर उवाच ।
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ।
तस्योपसर्गसंधानं पातयिष्याम्यसंशयम्
॥३९॥मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिंगमिदं हृदि ।
संग्रामे प्रविशन्मर्त्यो जयमाप्नोत्यसंशयम्
॥४०॥एतस्मिन्नंतरे देवास्समाजग्मुस्सवासवाः ।
जयेति शब्दं कुर्वंतो महोत्सवपुरस्सरम्
॥४१॥प्रणम्य शंकरं प्रेम्णा सर्वे सांजलयस्सुराः ।
नतस्कंधाः सुवाग्भिस्ते तुष्टुवुर्भक्तवत्सलम्
॥४२॥देवा ऊचुः
जय शंकर देवेश प्रणतार्तिहर प्रभो ।
एतद्दुंदुभिनिर्ह्रादवधात्त्राता वयं सुराः
॥४३॥सदा रक्षा प्रकर्तव्या भक्तानां भक्तवत्सल ।
वध्याः खलाश्च देवेश त्वया सर्वेश्वर प्रभो
॥४४॥इत्याकर्ण्य वचस्तेषां सुराणां परमेश्वरः ।
तथेत्युक्त्वा प्रसन्नात्मा तस्मिंल्लिंगे लयं ययौ
॥४५॥सविस्मयास्ततो देवास्स्वंस्वं धाम ययुर्मुदा ।
तेऽपि विप्रा महाहर्षात्पुनर्याता यथागतम्
॥४६॥इदं चरित्रं परम व्याघ्रेश्वरसमुद्भवम् ।
शृणुयाच्छ्रावयेद्वापि पठेद्वा पाठयेत्तथा
॥४७॥सर्वान्कामानवाप्नोति नरस्स्वमनसेसितान् ।
परत्र लभते मोक्षं सर्वदुःखविवर्जितः
॥४८॥इदमाख्यानमतुलं शिवलीला मृताक्षरम् ।
स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रप्रवर्द्धनम्
॥४९॥परं भक्तिप्रदं धन्यं शिवप्रीतिकरं शिवम् ।
परमज्ञानदं रम्यं विकारहरणं परम्
॥५०॥इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां पञ्च० युद्धखण्डे दुंदुभिनिर्ह्राददैत्यवधवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥