मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ४७

3
रुद्रसंहिता · युद्धखण्डः · 47

शुक्रनिगीर्णनवर्णनम्

व्यास उवाच

तस्मिन्महति संग्रामे दारुणे लोमहर्षणे ।

शुक्रो दैत्यपतिर्विद्वान्भक्षितस्त्रिपुरारिणा

॥१॥

इति श्रुतं समासान्मे तत्पुनर्ब्रूहि विस्तरात ।

किं चकार महायोगी जठरस्थः पिनाकिनः

॥२॥

न ददाह कथं शभोश्शुक्रं तं जठरानलः ।

कल्पान्तदहनः कालो दीप्ततेजाश्च भार्गवः

॥३॥

विनिष्क्रांतः कथं धीमाच्छंभोर्जठरपंजरात् ।

कथमाराधयामास कियत्कालं स भार्गवः

॥४॥

अथ च लब्धवान्विद्यां तां मृत्युशमनीं पराम् ।

का सा विद्या परा तात यथा मृत्युर्हि वार्यते

॥५॥

लेभेन्धको गाणपत्यं कथं शूला द्विनिर्गतः ।

देवदेवस्य वै शंभोर्मुनेर्लीलाविहारिणः

॥६॥

एतत्सर्वमशेषेण महाधीमन् कृपां कुरु ।

शिवलीलामृतं तात शृण्वत कथयस्व मे

॥७॥

ब्रह्मोवाच

इति तस्य वचः श्रुत्वा व्यासस्यामिततेजसः ।

सनत्कुमारः प्रोवाच स्मृत्वा शिवपदांबुजम्

॥८॥

सनत्कुमार उवाच

शृणु व्यास महाबुद्धे शिवलीलामृतं परम् ।

धन्यस्त्वं शैवमुख्योसि ममानन्दकरः स्वतः

॥९॥

प्रवर्तमाने समरे शंकरांधकयोस्तयोः ।

अनिर्भेद्यपविव्यूहगिरिव्यूहाधिनाथयोः

॥१०॥

पुरा जयो बभूवापि दैत्यानां बलशालिनाम् ।

शिवप्रभा वादभवत्प्रमथानां मुने जयः

॥११॥

तच्छुत्वासीद्विषण्णो हि महादैत्योंधकासुरः ।

कथं स्यान्मे जय इति विचारणपरोऽभवत्

॥१२॥

अपसृत्य ततो युद्धादंधकः परबुद्धिमान् ।

द्रुतमभ्यगमद्वीर एकलश्शुक्रसन्निधिम्

॥१३॥

प्रणम्य स्वगुरुं काव्यमवरुह्य रथाच्च सः ।

बभाषेदं विचार्याथ सांजलिर्नीतिवित्तमः

॥१४॥

अंधक उवाच

भगवंस्त्वामुपाश्रित्य गुरोर्भावं वहामहे ।

पराजिता भवामो नो सर्वदा जयशालिनः

॥१५॥

त्वत्प्रभावात्सदा देवान्समस्तान्सानुगान्वयम् ।

मन्यामहे हरोषेन्द्रमुखानपि हि कत्तृणान्

॥१६॥

अस्मत्तो बिभ्यति सुरास्तदा भवदनुग्रहात् ।

गजा इव हरिभ्यश्च तार्क्ष्येभ्य इव पन्नगाः

॥१७॥

अनिर्भेद्यं पविव्यूहं विविशुर्दैत्य दानवाः ।

प्रमथानीकमखिलं विधूय त्वदनुग्रहात्

॥१८॥

वयं त्वच्छरणा भूत्वा सदा गा इव निश्चलाः ।

स्थित्वा चरामो निश्शंकमाजावपि हि भार्गव

॥१९॥

रक्षरक्षाभितो विप्र प्रव्रज्य शरणागतान् ।

असुराञ्छत्रुभिर्वीरैरर्दितांश्च मृतानपि

॥२०॥

प्रथमैर्भीमविक्रांतैः क्रांतान्मृत्युप्रमाथिभिः ।

सूदितान्पतितान्पश्य हुंडादीन्मद्गणान्वरान्

॥२१॥

यः पीत्वा कणधूमं वै सहस्रं शरदां पुरा ।

त्वया प्राप्ता वरा विद्या तस्याः कालोयमागतः

॥२२॥

अद्य विद्याफलं तत्ते सर्वे पश्यंतु भार्गव ।

प्रमथा असुरान्सर्वान् कृपया जीवयिष्यतः

॥२३॥

सनत्कुमार उवाच

इत्थमन्धकवाक्यं स श्रुत्वा धीरो हि भार्गवः ।

तदा विचारयामास दूयमानेन चेतसा

॥२४॥

किं कर्तव्यं मयाद्यापि क्षेमं मे स्यात्कथं त्विति ।

सन्निपातविधिर्जीवः सर्वथानुचितो मम

॥२५॥

विधेयं शंकरात्प्राप्ता तद्गुणान् प्रति योजये ।

तद्रणे मर्दितान्वीरः प्रमथैश्शंकरानुगैः

॥२६॥

शरणागतधर्मोथ प्रवरस्सर्वतो हृदा ।

विचार्य शुक्रेण धिया तद्वाणी स्वीकृता तदा

॥२७॥

किंचित्स्मितं तदा कृत्वा सोऽब्रवीद्दानवाधिपम् ।

भार्गवश्शिवपादाब्जं सप्पा?? स्वस्थेन चेतसा

॥२८॥

शुक्र उवाच

यत्त्वया भाषितं तात तत्सर्वं तथ्यमेव हि ।

एतद्विद्योपार्जनं हि दानवार्थं कृतं?? मया

॥२९॥

दुस्सहं कणधूमं वै पीत्वा वर्षसहस्रकम् ।

विद्येयमीश्वरात्प्राप्ता बंधूनां सुखदा सदा

॥३०॥

प्रमथैर्मथितान्दैत्यान्रणेहं विद्ययानया ।

उत्थापयिष्ये म्लानानि शस्यानि जलभुग्यथा

॥३१॥

निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुन रुत्थितान् ।

मुहूर्तेस्मिंश्च द्रष्टासि दैत्यांस्तानुत्थितान्निजान्

॥३२॥

सनत्कुमार उवाच

इत्युक्त्वा सोधकं शुक्रो विद्यामावर्तयत्क विः ।

एकैकं दैत्यमुद्दिश्य स्मृत्वा विद्येशमादरात्

॥३३॥

विद्यावर्तनमात्रेण ते सर्वे दैत्यदानवाः ।

उत्तस्थुर्युगपद्वीरास्सुप्ता इव धृतायुधाः

॥३४॥

सदाभ्यस्ता यथा वेदास्समरे वा यथाम्बुदा ।

श्रद्धयार्थास्तथा दत्ता ब्राह्मणेभ्यो यथापदि

॥३५॥

उज्जीवितांस्तु तान्दृष्ट्वा हुंडादींश्च महासुरान् ।

विनेदुरसुराः सर्वे जलपूर्णा इवांबुदाः

॥३६॥

रणोद्यताः पुनश्चासन्गर्जंतो विकटान्रवान् ।

प्रमथैस्सह निर्भीता महाबलपराक्रमाः

॥३७॥

शुक्रेणोज्जीवितान्दृष्ट्वा प्रमथा दैत्यदानवान् ।

विसिष्मिरे ततस्सर्वे नंद्याद्या युद्धदुर्मदाः

॥३८॥

विज्ञाप्यमेवं कर्मैतद्देवेशे शंकरेऽखिलम् ।

विचार्य बुद्धिमंतश्च ह्येवं तेऽन्योन्यमब्रुवन्

॥३९॥

आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे ।

अमर्षितो भार्गवकर्म दृष्ट्वा शिलादपुत्रोऽभ्यगमन्महेशम्

॥४०॥

जयेति चोक्त्वा जययोनिमुग्रमुवाच नंदी कनकावदातम् ।

गणेश्वराणां रणकर्म देव देवैश्च सेन्द्रैरपि दुष्करं सत्

॥४१॥

तद्भार्गवेणाद्य कृतं वृथा नस्संजीवतांस्तान्हि मृतान्विपक्षान् ।

आवर्त्य विद्यां मृतजीवदात्रीमेकेकमुद्दिश्य सहेलमीश

॥४२॥

तुहुंडहुंडादिककुंभजंभविपा कपाकादिमहासुरेन्द्राः ।

यमालयादद्य पुनर्निवृत्ता विद्रावयंतः प्रमथांश्चरंति

॥४३॥

यदि ह्यसौ दैत्यवरान्निरस्तान्संजीवयेदत्र पुनः पुनस्तान् ।

जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शांतिः

॥४४॥

सनत्कुमार उवाच

इत्येवमुक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वरेशः ।

उवाच देवः प्रहसंस्तदानीं तं नंदिनं सर्वगणेशराजम्

॥४५॥

शिव उवाच

नन्दिन्प्रयाहि त्वरितोऽति मात्रं द्विजेन्द्रवर्यं दितिनन्दनानाम् ।

मध्यात्समुद्धृत्य तथा नयाशु श्येनो यथा लावकमंडजातम्

॥४६॥

सनत्कुमार उवाच

स एवमुक्तो वृषभध्वजेन ननाद नंदी वृषसिंहनादः ।

जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः

॥४७॥

तं रक्ष्यमाणं दितिजैस्समस्तैः पाशासिवृक्षोपलशैलहस्तैः ।

विक्षोभ्य दैत्यान्बलवाञ्जहार काव्यं स नन्दी शरभो यथेभम्

॥४८॥

स्रस्तांबरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् ।

विमोचयिष्यंत इवानुजग्मुः सुरारयस्सिंहरवांस्त्यजंतः

॥४९॥

दंभोलि शूलासिपरश्वधानामुद्दंडचक्रोपलकंपनानाम् ।

नंदीश्वरस्योपरि दानवेन्द्रा वर्षं ववर्षुर्जलदा इवोग्रम्

॥५०॥

तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा ।

आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिपक्षः

॥५१॥

अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् ।

जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम्

॥५२॥

न किंचिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवीन्द्रम् ।

हाहारवस्तैरसुरैस्समस्तैरुच्चैर्विमुक्तो हहहेति भूरि

॥५३॥

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे अंधकयुद्धे शुक्रनिगीर्णनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥